Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 32

37 Mantra
6/32
Devata- सभापती राजा देवता Rishi- मधुच्छन्दा ऋषिः Chhand- पंचपदा ज्योतिष्मती जगती, Swara- निषादः
Mantra with Swara
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ऽइन्द्रा॑य त्वादि॒त्यव॑त॒ऽइन्द्रा॑य त्वाभिमाति॒घ्ने। श्ये॒नाय॑ त्वा सोम॒भृते॒ऽग्नये॑ त्वा रायस्पोष॒दे॥३२॥

इन्द्रा॑य। त्वा॒। वसु॑मत॒ इति॒ वसु॑ऽमते। रु॒द्रव॑त॒ इति॑ रु॒द्रऽव॑ते। इन्द्रा॑य। त्वा॒। आ॒दि॒त्यव॑त॒ इत्या॑दित्यऽव॑ते। इन्द्रा॑य। त्वा॒। अ॒भि॒मा॒ति॒घ्न इत्य॑भिमाति॒ऽघ्ने। श्ये॒नाय॑। त्वा॒। सो॒म॒भृत॒ इति॑ सोम॒ऽभृते॑। अ॒ग्नये॑। त्वा॒। रा॒य॒स्पो॒ष॒द इति॑ रायस्पोष॒दे ॥३२॥

Mantra without Swara
इन्द्राय त्वा वसुमते रुद्रवते इन्द्राय त्वादित्यवते इन्द्राय त्वाभिमातिघ्ने । श्येनाय त्वा मोमभृतेग्नये त्वा रायस्पोषदे ॥

इन्द्राय। त्वा। वसुमत इति वसुऽमते। रुद्रवत इति रुद्रऽवते। इन्द्राय। त्वा। आदित्यवत इत्यादित्यऽवते। इन्द्राय। त्वा। अभिमातिघ्न इत्यभिमातिऽघ्ने। श्येनाय। त्वा। सोमभृत इति सोमऽभृते। अग्नये। त्वा। रायस्पोषद इति रायस्पोषदे॥३२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इन्द्राय) परमैश्वर्य्याय (त्वा) त्वाम् (वसुमते) बहवो वसवश्चतुर्विंशतिवर्षब्रह्मचर्यसंपन्ना विद्वांसो विद्यते यत्र तस्मै कर्म्मणे (रुद्रवते) प्रशस्ताः कृतचतुश्चत्वारिंशद्वर्षब्रह्मचर्या विद्वांसो वीराः शत्रुरोदयितारो रुद्रा भवन्ति यत्र तस्मै (इन्द्राय) परमविद्याप्रकाशेनाविद्याविदारकाय (त्वा) त्वाम् (अभिमातिघ्ने) येनाभिभानयुक्ताः शत्रवो हन्यन्ते तस्मै (श्येनाय) श्येनवत्प्रवर्त्तमानाय (त्वा) त्वाम् (सोमभृते) यः सोममैश्वर्य्यसमूहं बिभर्त्तीति तस्मै (अग्नये) विद्युदाद्याय (त्वा) त्वाम् (रायः) धनस्य (पोषदे) पुष्टिप्रदाय। सुपां सुलुगिति ङे: स्थाने "शे” इत्यादेशः।।अयं मन्त्रः शत० ३।९।४। ९-१० व्याख्यातः॥ ३२॥
Essence
य इन्द्रानिलयमार्काग्निवरुणचन्द्रवित्तेशानां गुणैर्युक्तो विद्वत्प्रियो विद्याप्रचारी सर्वेभ्यः सुखं दद्यात्, स एव सर्वे राजा मन्तव्यइति ।। ६ । ३२।।
Subject
राज्यव्यवहारः सभाधीन एव तर्हि कस्मै प्रयोजनाय प्रजापुरुषैः सभापतिस्स्वीकार्य्य इत्युपदिश्यते।।
Meaning of Anvay
हे सभापते ! वसुमते बहवो वसवश्चतुर्विंशतिवर्षब्रह्मचर्यसम्पन्ना विद्वांसो विद्यन्ते यत्र तस्मै कर्म्मणे वयं रुद्रवते प्रशस्ताः कृतचतुश्चत्वारिंशद्वर्षंब्रह्मचर्या विद्वांसो वीराः शत्रुरोदयितारो रुद्रा भवन्ति यत्र तस्मै इन्द्राय परमैश्वर्याय त्वा त्वाम्, आदित्यवते इन्द्राय परमविद्याप्रकाशेनाऽविद्याविदारकाय त्वा त्वाम्, अभिमातिघ्ने येनाऽभिमानयुक्ताः शत्रवो हन्यन्ते तस्मै इन्द्राय त्वा त्वाम, सोमभृते यः सोममैश्वर्य्यसमूहं बिभर्तीति तस्मै श्येनाय श्येनवत् प्रवर्त्तमानाय त्वा त्वाम्, रायस्पोषदे धनस्य पुष्टिप्रदाय अग्नये विद्युदाद्याय त्वा=त्वां वृणुमः ।। ६ । ३२ ।।
[हे सभापते! वसुमते वयं रुद्राय इन्द्राय त्वा, अदित्यवत इन्द्राय त्वा, अभिमातिघ्न इन्द्राय त्वा, सोमभृते श्येनाय त्वा, रायस्पोषदेऽग्नये त्वा=त्वां वृणुमः]
Special
मधुच्छन्दाः। सभापतीराजा=सभाध्यक्षो राजा।। पञ्चपाज्ज्योतिष्मती जगती। निषादः॥