Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 31

37 Mantra
6/31
Devata- प्रजासभ्यराजानो देवताः Rishi- मधुच्छन्दा ऋषिः Chhand- विराट ब्राह्मी जगती, Swara- ऋषभः
Mantra with Swara
मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयता॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन्॥३१॥

मनः॑। मे॒। त॒र्प॒य॒त॒। वाच॑म्। मे॒। त॒र्प॒य॒त॒। प्रा॒णम्। मे॒। त॒र्प॒य॒त॒। चक्षुः॑। मे॒। त॒र्प॒य॒त॒। श्रोत्र॑म्। मे॒। त॒र्प॒य॒त॒। आ॒त्मान॑म्। मे॒। त॒र्प॒य॒त॒। प्र॒जामिति॑ प्र॒ऽजाम्। मे॒। त॒र्प॒य॒त॒। प॒शून्। मे॒। त॒र्प॒य॒त॒। ग॒णान्। मे॒। त॒र्प॒य॒त॒। ग॒णाः। मे॒। मा। वि। तृ॒ष॒न् ॥३१॥

Mantra without Swara
मनो मे तर्पयत वाचम्मे तर्पयत प्राणम्मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रम्मे तर्पयतात्नम्मे तर्पयत प्रजाम्मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन् ॥

मनः। मे। तर्पयत। वाचम्। मे। तर्पयत। प्राणम्। मे। तर्पयत। चक्षुः। मे। तर्पयत। श्रोत्रम्। मे। तर्पयत। आत्मानम्। मे। तर्पयत। प्रजामिति प्रऽजाम्। मे। तर्पयत। पशून्। मे। तर्पयत। गणान्। मे। तर्पयत। गणाः। मे। मा। वि। तृषन्॥३१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मनः) अन्तःकरणम् (मे) मम (तर्प्पयत) (वाचम्) (मे) (तर्प्पयत) (प्राणम्) (मे) (तर्प्पयत) (चक्षुः) (मे) (तर्प्पयत) (श्रोत्रम्) (मे) (तर्प्पयत) (आत्मानम्) (मे) (तर्प्पयत) (प्रजाम्) सन्तानादिकाम् (मे) (तर्प्पयत) (पशून्) गोहस्त्यश्वादीन् (मे) (तर्प्पयत) (गणान्) परिचारकादीन् (मे) (तर्प्पयत) (गणाः) (मे) मम (मा) निषेधार्थे (वि) विरुद्धार्थे (तृषन्) तृषिता भवन्तु। अत्र लोडर्थे लुङ्॥ अयं मन्त्रः। शत० ३। ९।४।७-८ व्याख्यातः ॥ ३१॥
Essence
सभाधीनमेव राज्यप्रबन्धो भवितुमर्हति। यतः सर्वे प्रजाजना राजसेवका, राजजना: प्रजासेविनो भूत्वा स्वेषु स्वेषु कर्मसु प्रवृत्त्यान्योऽन्यमभिमोदयेयुरिति ॥ ६ । ३१॥
Subject
अथ राजा सभ्यजनान् सभा राजानञ्च किमुपदिशेदित्याह ।।
Meaning of Anvay
हे सभाजनाः प्रजाजना वा! यूयं स्वगुणैः ये=मम मनः अन्तःकरणं तर्प्पयत। मे मम वाचं वाणीं तर्प्पयत।मे मम प्राणं तर्प्पयत । मे मम चक्षुः तर्प्पयत । मे मम श्रोत्रं तर्प्पयत। मे=मम आत्मानं तर्प्पयत।मे मम प्रजां सन्तानाऽऽदिकं तर्प्पयत। मे मम पशून् गोहस्त्यश्वादीन् तर्प्पयत। मे मम गणान् परिचारकाऽऽदीन् तर्प्पयत। यतो मे मम गणाः परिचारकादयो मा वि+तृषन्=तृषिता मा भवन्तु नहि तृषिता भवन्तु ।। ६ । ३१ ।।
[हे सभाजनाः प्रजाजना वा! यूयंस्वगुणैर्ये=सम मनस्तर्पयत......]
Special
मधुच्छन्दाः । प्रजासभ्यराजानः=स्पष्टम्।। ब्राह्म्युष्णिक् प्रजांमे इत्यस्य आर्ष्युष्णिक्। ऋषभः।।