Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 30

37 Mantra
6/30
Devata- सविता देवता Rishi- मधुच्छन्दा ऋषिः Chhand- स्वराट् आर्षी पङ्क्ति,भूरिक् आर्ची पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ताभ्याम्। आद॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॑धीन्द्रा॑य सु॒षूत॑मम्। उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तं निग्रा॒भ्या स्थ देव॒श्रुत॑स्त॒र्पय॑त मा॒॥३०॥

दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। आ। द॒दे॒। रावा॑। अ॒सि॒। ग॒भी॒रम्। इ॒मम्। अ॒ध्व॒रम्। कृ॒धि॒। इन्द्रा॑य। सु॒षूत॑मम्। सु॒सूत॑मा॒मिति॑ सु॒ऽसूत॑मम्। उ॒त्त॒मेनेत्यु॑त्ऽत॒मेन॑। प॒विना॑। ऊर्ज्ज॑स्वन्तम्। मधु॑मन्त॒मिति॒ मधु॑ऽमन्तम्। पय॑स्वन्तम्। निग्रा॒भ्या᳖ इति॑ निऽग्रा॒भ्याः᳖ स्थ॒। दे॒व॒ऽश्रुत॒ इति देव॒श्रु॒तः॑। त॒र्पय॑त। मा॒ ॥३०॥

Mantra without Swara
देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् । आददे रावासि गभीरमिममध्वरङ्कृधीन्द्राय सुषूतमम् । उत्तमेन पविनोर्जस्वन्तम्मधुमन्तम्पयस्वन्तम् । निग्राभ्या स्थ देवश्रुतस्तर्पयत मा मनो मे ॥

देवस्य। त्वा। सवितुः। प्रसव इति प्रऽसवे। अश्विनोः। बाहुभ्यामिति बाहुऽभ्याम्। पूष्णः। हस्ताभ्याम्। आ। ददे। रावा। असि। गभीरम्। इमम्। अध्वरम्। कृधि। इन्द्राय। सुषूतमम्। सुसूतमामिति सुऽसूतमम्। उत्तमेनेत्युत्ऽतमेन। पविना। ऊर्ज्जस्वन्तम्। मधुमन्तमिति मधुऽमन्तम्। पयस्वन्तम्। निग्राभ्या इति निऽग्राभ्याः स्थ। देवऽश्रुत इति देवश्रुतः। तर्पयत। मा॥३०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवस्य) सर्वसुखप्रदातुः (त्वा) त्वां करधनदातारम् (सवितुः) सकलैश्वर्य्यस्य प्रसवितुर्जगदीश्वरस्य (प्रसवे) प्रसूते जगति (अश्विनोः) सूर्य्याचन्द्रमसो: (बाहुभ्याम्) बलवीर्य्याभ्याम् (पूष्ण:) सोमाद्योषधिगणस्य (हस्ताभ्याम्) रोगनाशकधातुसाम्यकारकाभ्यां गुणाभ्याम् (आददे) गृह्णामि (रावा) दाता (असि) (गभीरम्) अगाधगुणम् (इमम्) प्रत्यक्षम् (अध्वरम्) निष्कौटिल्यम् (कृधि) कुरु (इन्द्राय) परमैश्वर्यवते मह्यम् (सुषूतमम्) सुष्ठु सूते तम् (उत्तमेन) प्रशस्तेनेव (पविना) वाचा। पविरिति वाङ्नामसु पठितम् ॥ निघं० १ । ११॥ (ऊर्जस्वन्तम्) उत्तमपराक्रमसम्बन्धिनम् (मधुमन्तम्) प्रशस्तमध्वादिपदार्थयुक्तम् (पयस्वन्तम्) बहुदुग्धादिमन्तम् (निग्राभ्याः) नितरां ग्रहीतुं योग्याः (स्थ) भवथ (देवश्रुतः) ता देवान् शृण्वन्ति ताः (तर्पयत) प्रीणीत (मा) माम् ॥ अयं मन्त्रः शत. ३।९।४ । ३–६ व्याख्यातः ॥ ३०॥
Essence
प्रजाजनानां योग्यतास्तिराजानमागत्य तस्मै सर्वेषां स्वकीयपदार्थानां यथायोग्यमंशं दद्युर्यतः स भूमिगतपदार्थानामंशभागी भवतीति ।। ६ । ३०।।
Subject
अथ सभापतिः करधनप्रदं प्रजापुरुषं कथं स्वीकुर्य्यादित्युपदिश्यते।।
Meaning of Anvay
हे प्रजाजन! अहं देवस्य सर्वसुखप्रदातुः सवितुः सकलैश्वर्य्यस्य प्रसवितुर्जगदीश्वरस्य प्रसवे प्रसूते जगति अश्विनोः सूर्य्याचन्द्रमसोः बाहुभ्यां बलवीर्य्याभ्यां पूष्णः सोमाद्योषधिगणस्य हस्ताभ्यां रोगनाशकधातुसाम्यकारकाभ्यां गुणाभ्यां [त्वा]=त्वाम् आ+ददेगृह्णामि। त्वं [रावा] दाता [असि], इन्द्राय मह्यं परमैश्वर्य्यवते मह्यम् उत्तमेन प्रशस्तेनेवपविना=वचसा वाचा इमं प्रत्यक्षं गभीरम् अगाधगुणंसुषूतमं सुष्ठु सूते तम्, ऊर्ज्जस्वन्तम् उत्तमपराक्रमसम्बन्धिनं [मधुमन्तम्] प्रशस्तमध्वादिपदार्थयुक्तं [पयस्वन्तम्] बहुदुग्धादिमन्तं करदायमध्वरं निष्कौटिल्यं कृधि कुरु।
हे देवश्रुतः या देवान् शृण्वन्ति ताः प्रजाः! यूयं निग्राभ्या:=मया नितरां ग्रहीतुं योग्याः नितरां ग्रहीतुं योग्याः स्थ भवथ। मा=मामनेन तर्पयत प्रीणीत ।। ६ । ३० ।।
[हे प्रजाजन! अहं .......[त्वा]=त्वामाददे। त्वं.......इन्द्राय मह्यंकरदायमध्वरं कृधि,....हे देवश्रुतः प्रजाः। यूयं.....मामनेन तर्पयत]
Special
मधुच्छन्दा:। सविता=जगदीश्वरः। स्वराडार्षी पंक्तिः। उत्तमेनेत्यस्य निचृदार्ष्यनुष्टुप्।गान्धारः। पञ्चमः॥