Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 3

37 Mantra
6/3
Devata- विष्णुर्देवता Rishi- दीर्घतमा ऋषिः Chhand- आर्ची उष्णिक्,साम्नी त्रिष्टुप्,स्वराट् प्राजापत्या जगती, Swara- ऋषभ, मध्यमः
Mantra with Swara
या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गाःऽअ॒यासः॑। अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः॑ प॒र॒मं प॒दमव॑भारि॒ भूरि॑। ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि। ब्रह्म॑ दृꣳह क्ष॒त्रं दृ॒ꣳहायु॑र्दृꣳह प्र॒जां दृ॑ꣳह॥३॥

या। ते॒। धामा॑नि। उ॒श्मसि॑। गम॑ध्यै। यत्र॑। गावः॑। भूरि॑शृङ्गा॒ इति॒ भूरि॑शृङ्गाः। अ॒यासः॑। अत्र॑। अह॑। तत्। उ॒रु॒गा॒यस्येत्यु॑रुऽगा॒यस्य॑। विष्णोः॑। प॒र॒मम्। प॒दम्। अव॑। भा॒रि॒। भूरि॑। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। रा॒य॒स्पो॒ष॒वनीति॑ रायस्पोष॒ऽवनि॑। परि॑। ऊ॒हा॒मि॒। ब्रह्म॑। दृ॒ꣳह॒। क्ष॒त्रम्। दृ॒ꣳह॒। आयुः॑। दृ॒ꣳह॒। प्र॒जामिति॑ प्र॒जाम्। दृ॒ꣳह॒ ॥३॥

Mantra without Swara
या ते धामान्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य विष्णोः परमम्पदमव भारि भूरि । ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्यूहामि । ब्रह्म दृँह क्षत्रन्दृँहायुर्दृँह प्रजान्दृँह ॥

या। ते। धामानि। उश्मसि। गमध्यै। यत्र। गावः। भूरिशृङ्गा इति भूरिशृङ्गाः। अयासः। अत्र। अह। तत्। उरुगायस्येत्युरुऽगायस्य। विष्णोः। परमम्। पदम्। अव। भारि। भूरि। ब्रह्मवनीति ब्रह्मऽवनि। त्वा। क्षत्रवनीति क्षत्रऽवनि। रायस्पोषवनीति रायस्पोषऽवनि। परि। ऊहामि। ब्रह्म। दृꣳह। क्षत्रम्। दृꣳह। आयुः। दृꣳह। प्रजामिति प्रजाम्। दृꣳह॥३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(या) यानि (ते) तव सभाध्यक्षस्य (धामानि) दधति सुखानि येषु तानि राज्यप्रबन्धस्थानानि देशदेशान्तरवाणिज्यार्हाणि(उश्मसि) उश्मः=कामयामहे (गमध्यै) गन्तुं=प्राप्तुम् (यत्र) येषु (गाव:) रश्मय:। गाव इति रश्मिनामसु पठितम् ॥ निघं० १। ५ ॥ (भूरिशृङ्गाः) भूरीणि शृङ्गाणि=प्रकाशा यासु ताः। शृङ्गाणीति ज्वलतोनामसु पठितम् ॥ निघं० १। १७॥ (अयासः) अयन्त इत्ययासः। महीधरेणात्रायगतावित्यस्य यदयन्तीति परस्मैपदमुक्तं तदसदात्मनेपदोपयोग्यत्वात् (अत्र) येषु (अह) निश्चये (तत्) तस्य (उरुगायस्य) उरुर्बहुर्गाय=स्तुतिर्यस्य तस्य।अत्र गैशब्द इत्यस्माद्घञर्थे कविधानमिति कर्म्मणिकः (विष्णोः) व्यापकस्य परमेश्वरस्य (परमम्) सर्वथोत्कृष्टम् (पदम्) पत्तुं योग्यम् (अव) क्रियायोगे (भारि) भ्रियते। अत्र लडर्थे लुङ् भृञ्धातोश्चिणि परेऽडभावः। अत्र बहुलं छन्दस्यमाङ् योगेऽपि ॥ [अ० ६ । ४ । ७५ ॥ इति सूत्रेणाडभावः (भूरि) बहु (ब्रह्मवनि) ब्रह्मणो वेतृणां संविभक्तारं तत्तथा (त्वा) त्वाम् (क्षत्रवनि) क्षत्रस्य=राज्यस्य क्षत्रियाणां वा संविभाजकम् (रायस्पोषवनि) रायो=धनस्य पोषो=दृढता तस्याः संविभाजिनम् (परि) परितः (ऊहामि) विविधतया तर्कयामि (ब्रह्म) परमात्मानं वेदं वा (दृंह) स्थिरीकुरु (क्षत्रम्) राज्यं धनुर्वेदविदं क्षत्रियं वा (दृंह) उन्नय (आयुः) जीवनम् (दृंह) (प्रजाम्) स्वसंतानान्=संरक्षणीयान् जनान् (दृंह) ब्रह्मचर्यराज्यधर्माभ्यां परिपालय।।
अत्राह यास्कमुनिः-- ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिङ्गा अयासः। अत्राह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि । ऋ० १ । १५४ । ६ ।। तानि वां वास्तूनि कामयामहेगमनाय यत्र गावो भूरिशृङ्गाः बहुशृङ्गाः। भूरीति बहुनामधेयं प्रभवतीति सतः शृङ्गं श्रयतेर्वा शृणोतेर्वा शम्नातेर्वा शरणायोग्दतमिति वा शिरसो निर्गतमिति वाऽयासोऽयनास्तत्र तदुरुगायस्य विष्णोर्महागतेः परमं पदं परार्घ्यस्थमवभाति भुरिपादः पद्यते॥निरु०२ । ७ । अयं मन्त्रः श० ३ । ७ । १ । १५ व्याख्यातः॥ ३॥
Essence
नहि सभाध्यक्षरक्षितस्थानकामनया विना कश्चिदपि सुखं प्राप्तुं शक्नोति।
[यत्र=येषु.....विष्णोर्भूरिशृङ्गा गावोऽयासः, तदुक्त न्यायमार्गा: प्रकाशन्त एवेति यावत्, तस्य विष्णोः परमं पदंविद्वद्भिर्भूर्यवभारि]
नहि कोऽपि जनः परमेश्वरमनाहत्य धर्मराज्यं भोक्तुमर्हति।
[त्वं ब्रह्म दृँह, क्षत्रंदृँह, आयुर्दृँह, प्रजांदृँह]
नैव कोऽपि विज्ञानं, सेनां, जीवनं, प्रजां चारक्षित्वा समेधत इति ॥ ६ । ३ ॥
Subject
पुनस्तं कीदृशं विदित्वा वाणिज्यकर्म्म कुर्वाणाः जना आश्रयन्तीदमुपदिश्यते॥
Meaning of Anvay
हे सभाध्यक्ष !या=यानि ते तव सभाऽध्यक्षस्य धामानि दधति सुखानि येषु तानि राज्यप्रबन्धस्थानानि देशदेशान्तरवाणिज्याऽर्हाणि गमध्यै=गन्तुं गन्तुं=प्राप्तुं वयमुश्मसि उश्म:=कामयामहे, तानि किंभूतानि सन्ति? यत्र=येषु उरुगायस्य उरुर्बहुर्गाय: स्तुतिर्यस्य तस्य विष्णोः व्यापकस्य परमेश्वरस्य भूरिशृङ्गाः भूरीणि शृङ्गाणि=प्रकाशा यासु ताः, गाव: रश्मयो अयासःअयन्त इत्ययासो भवन्ति, तदुक्तन्यायमार्गाः प्रकाशन्त एवेति यावत्।
अत्राह=एषु हि (अत्र=येषु=अह=निश्चयेन) तत्=तस्य विष्णोः व्यापकस्य परमेश्वरस्य परमं सर्वथोत्कृष्टंपदं पत्तुं योग्यं विद्वद्भिः भूरि बहु अव+भारि भ्रियते। अतः [त्वा]=त्वां यथा ब्रह्मवनि=ब्रह्मणो वेत्तृणां संविभक्तारं तत्तथा,यथा क्षत्रवनि क्षत्रस्य=राज्यस्य क्षत्रियाणां वा संविभाजकं, यथा रायस्पोषवनि रायो=धनस्य पोषो=दृढ़ता तस्याः संविभाजिनं तथा परि+ ऊहामि परितो विविधतया तर्कयामि।
त्वं ब्रह्म परमात्मानं वेदं वा दृँहे स्थिरीकुरु, क्षत्रं राज्यं धनुर्वेदविदं क्षत्रियं वा दृँह उन्नय, आयुः जीवनं दृँह उन्नय, प्रजां स्वसन्तानान् संरक्षणीयान् जनान् दृँह ब्रह्मचर्यराज्यधर्माभ्यां परिपालय ॥ ६ । ३॥
[हे सभाध्यक्ष! या=यानि ते धामानि गमध्यै=गन्तुं वयमुश्मसि तानि किंभूतानि सन्ति?]
Meaning of Essence
ब्रह्म=विज्ञानम् । क्षत्रम्= सेनाम्।
Special
दीर्घतमाः। विष्णुः=ईश्वरः॥ आर्च्युष्णिक्। अत्राहेत्यस्य भुरिगार्च्युष्णिक् छन्दः,ब्रह्महँहेत्यस्य आसुरी गायत्री षड्जः। निचृत्प्राजापत्या बृहती छन्दः, मध्यमः स्वरः। ऋषभ: स्वरः। ब्रह्मवनित्वेत्यस्य।।