Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 29

37 Mantra
6/29
Devata- अग्निर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- भूरिक् आर्षी गायत्री, Swara- षड्जः
Mantra with Swara
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिषः॒ स्वाहा॑॥२९॥

यम्। अ॒ग्ने॒। पृत्स्विति॑ पृ॒त्ऽसु। मर्त्य॑म्। अवाः॑। वाजे॑षु। यम्। जु॒नाः। सः। यन्ता॑। शश्व॑तीः। इषः॑। स्वाहा॑ ॥२९॥

Mantra without Swara
यमग्ने पृत्सु मर्त्यमवा वाजेषु यञ्जुनाः । स यन्ता शश्वतीरिषः स्वाहा ॥

यम्। अग्ने। पृत्स्विति पृत्ऽसु। मर्त्यम्। अवाः। वाजेषु। यम्। जुनाः। सः। यन्ता। शश्वतीः। इषः। स्वाहा॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यम्) (अग्ने) सर्वगुणवर! (पृत्सु) संग्रामेषु। पृत्स्विति संग्रामनामसु पठितम्।। निघं० २ । १७ ॥ ( मर्त्यम्) मनुष्यम् (अवाः) रक्षेः (वाजेषु) अन्ननिमित्तक्षेत्रादिषु (यम्) (जुना:) गमये: (सः) (यन्ता) (शश्वतीः) अविनश्वराः (इषः) इष्यन्ते यास्ताः प्रजा: (स्वाहा) उत्साहिकया वाचा॥ अयं मन्त्रः श० ३ । ९। ३ । ३१-३२ व्याख्यातः ॥ २९॥
Essence
गुरुशिक्षया सर्वस्य सुखं वर्द्धत एव ।। ६ । २९।।
Subject
अथ स विद्वांसं किमाहेत्युपदिश्यते॥
Meaning of Anvay
हे अग्ने सर्वगुणवर! त्वं पृत्सु सङ्ग्रामेषु यं मर्त्यं मनुष्यम् अवाःरक्षेः, यं च वाजेषु अन्ननिमित्तक्षेत्राऽऽदिषु जुनाः गमयेः सः शश्वती: अविनश्वराः इषः इष्यन्ते यास्ताः प्रजा: [स्वाहा] उत्साहिकया वाचा यन्ता स्यात् ।। ६ । २९॥
[हे अग्ने! त्वं पृत्सु यं मर्त्यमवा....स शश्वतीरिषः [स्वाहा] यन्ता स्यात्]
Special
मधुच्छन्दाः। अग्निः=सर्वगुणसम्पन्नो विद्वान्॥ भुरिगार्षी गायत्री। षड्जः॥