Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 28

37 Mantra
6/28
Devata- प्रजा देवताः Rishi- मेधातिथिर्ऋषिः Chhand- निचृत् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
कार्षि॑रसि समु॒द्रस्य॒ त्वा क्षि॑त्या॒ऽउन्न॑यामि। समापो॑ऽअ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः॥२८॥

कार्षिः॑। अ॒सि॒। स॒मु॒द्रस्य॑। त्वा। अक्षि॑त्यै। उत्। न॒या॒मि॒। सम्। आपः॑। अ॒द्भिरित्य॒त्ऽभिः। अ॒ग्म॒त॒। सम्। ओष॑धीभिः। ओष॑धीः ॥२८॥

Mantra without Swara
कार्षिरसि समुद्रस्य त्वाक्षित्या उन्नयामि । समापो अद्भिरग्मत समोषधीभिरोषधीः ॥

कार्षिः। असि। समुद्रस्य। त्वा। अक्षित्यै। उत्। नयामि। सम्। आपः। अद्भिरित्यत्ऽभिः। अग्मत। सम्। ओषधीभिः। ओषधीः॥२८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कार्षि:) कर्षति हलेन भूमिमिति।इञ् वपादिभ्यः अ० ३।३।१०८॥ भा० वा०॥ इतीञ् (असि) (समुद्रस्य) अन्तरिक्षस्य। समुद्र इत्यन्तरिक्षनामसु पठितम् ॥ निघं० १ । ३ ॥ (त्वा) त्वाम् (अक्षित्यै) (उत्) उत्कृष्टे (नयामि) (सम्) (आपः) जलानि (अद्भिः) जलैरेव (अग्मत) प्राप्नुत लोडर्थे लुङ् (सम्) (ओषधीभिः) सोमादिभिः (ओषधी:) अयं मन्त्रः शत० ३। ९। ३। २६-३१ व्याख्यातः ॥ २८॥
Essence
क्षेत्रादिभूमिषु नानौषधयो जायन्त,ओषधीभिरग्निहोत्रादयो यज्ञा, यज्ञैरन्तरिक्षं जलपरमाणुभिः पूर्णं भवतीति हेतोः--

[हे वैश्यजन! त्वं कार्षिरसि, [त्वा]=त्वां समुद्रस्याक्षित्यै समुन्नयामि]
विद्वांसो निर्बुद्धिजनान् क्षेत्रादिषु नयन्ति, कुतस्ते विद्यामभ्यसितुं समर्था एव न भवन्तीति ।। ६। २८।।
Subject
अथाध्यापको जनः प्रतिजनं किं किमुपदिशेदित्युच्यते॥
Meaning of Anvay
हे वैश्यजन! त्वं कार्षिः कर्षति हलेन भूमिमिति असि। [त्वा]=त्वां समुद्रस्य अन्तरिक्षस्य अक्षित्यै सम्+उत्+नयामि उत्कृष्टतया नयामि। सर्वे यूयं यज्ञशोधिताभिः अद्भिः जलैः एव आपः जलानि ओषधीभिः सोमादिभि: औषधीः सोमादीन् सम्+अग्मत प्राप्नुत ।। ६। २८।।
[सर्वे यूयं यज्ञशोधिताभिरद्भिरेवाप, ओषधीभिरोषधी: समग्मत]
Special
मेधातिथि:। प्रजाः=स्पष्टम्।।निचृदार्ष्यनुष्टुप्। गान्धारः।।