Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 27

37 Mantra
6/27
Devata- आपो देवताः Rishi- मेधातिथिर्ऋषिः Chhand- निचृत् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
देवी॑रापोऽअपां नपा॒द्यो व॑ऽऊ॒र्मिर्ह॑वि॒ष्यऽइन्द्रि॒यावा॑न् म॒दिन्त॑मः। तं दे॒वेभ्यो॑ देव॒त्रा द॑त्त शुक्र॒पेभ्यो॒ येषां॑ भा॒ग स्थ॒ स्वाहा॑॥२७॥

देवीः॑। आ॒पः। अ॒पा॒म्। नपा॒त्। यः। वः॒। ऊ॒र्म्मिः। ह॒वि॒ष्यः॒। इ॒न्द्रि॒यावा॑न्। इ॒न्द्रि॒यवा॒निती॑न्द्रिय॒ऽवा॑न्। म॒दिन्त॑म॒ इति॑ म॒दिन्ऽत॑मः। तम्। दे॒वेभ्यः॑। दे॒व॒त्रेति॑ देव॒ऽत्रा। द॒त्त॒। शु॒क्र॒पेभ्य इति॑ शुक्र॒ऽपेभ्यः॑। येषा॑म्। भा॒गः। स्थ। स्वाहा॑ ॥२७॥

Mantra without Swara
देवीरापो अपान्नपाद्यो व ऊर्मिर्विष्य इन्द्रियावान्मदिन्तमः । तन्देवेभ्यो देवत्रा दत्त शुक्रपेभ्यो येषाम्भाग स्थ स्वाहा ॥

देवीः। आपः। अपाम्। नपात्। यः। वः। ऊर्म्मिः। हविष्यः। इन्द्रियावान्। इन्द्रियवानितीन्द्रियऽवान्। मदिन्तम इति मदिन्ऽतमः। तम्। देवेभ्यः। देवत्रेति देवऽत्रा। दत्त। शुक्रपेभ्य इति शुक्रऽपेभ्यः। येषाम्। भागः। स्थ। स्वाहा॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवी) दिव्याः (आपः) आप्ताः प्रजाः (अपाम्) (नपात्) अविनश्वरः (यः) (वः) युष्माकम् (ऊर्मिः) जलतरङ्ग इव (हविष्यः) हविर्भ्यो हितः (इन्द्रियावान्) प्रशस्तानीन्द्रियाणि यस्मिन् सः (मदिन्तमः) मदयतीति मदी सोतिशयितः। नाद् घस्य अ०८। २ । १७ ।। इति मदिन् शब्दान्नुडागम: (तम्) (देवेभ्यः) विद्वद्भ्यः (देवत्रा) दिव्यान् गुणान् (दत्त) (शुक्रपेभ्यः) शुकं=वीर्यं रक्षन्ति तेभ्यः (येषाम्) (भागः) (स्थ) (स्वाहा) अयम्मन्त्रः शत० ३ । ९। ३। २५ व्याख्यातः ॥ २७ ॥
Essence
प्रजाजनानामिदमुचितमुत्कृष्टगुणं सभापतिं मत्वा राज्यपालनाय दत्त्वा न्यायं प्राप्नुयुरिति ॥ ६। २७ ।।
Subject
पुनरेते कथं वर्त्तेरन्नित्युपदिश्यते॥
Meaning of Anvay
हे आपःआप्ताः प्रजाः! देवीः=देव्यः प्रजाः दिव्याः! यूयं राजभक्ता स्थ=भवत। शुक्रपेभ्यः शुकं=वीर्य्यं रक्षन्ति तेभ्यो देवेभ्यः विद्वद्भ्यो येषां वः=युष्माकम् अपांनपात् अविनश्वरः ऊर्मि: जलतरङ्ग इव इन्द्रियावान् प्रशस्तानीन्द्रियाणि यस्मिन् सः, मदिन्तमः मदयतीति मदी सोऽतिशयितः हविष्यः हविर्भ्यो हितो भागः अस्ति, तं स्वाहा= सद्वाचा गृह्णीत। यथा राजादयः सभ्या जना देवत्रा=दिव्यान् भोगान् दिव्यान् गुणान् युष्मभ्यं प्रददति तथैतेभ्यो यूयमपि दत्त ।। २७ ।।
[हे आपो देवीः=देव्यः प्रजाः! यूयं राजभक्ता स्थ=भवत....यथा राजादयः सभ्या जना देवत्रा=दिव्यान्भोगान् युष्मभ्यं प्रददति तथैतेभ्यो यूयमपि दत्त]
Special
मेधातिथि:। आपः=आप्ताः प्रजाः॥ निचृदार्षी त्रिष्टुप्। धैवतः॥