Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 26

37 Mantra
6/26
Devata- सोमो देवता Rishi- मेधातिथिर्ऋषिः Chhand- भूरिक् गायत्री,आर्षी गायत्री, Swara- धैवतः
Mantra with Swara
सोम॑ राज॒न् विश्वा॒स्त्वं प्र॒जाऽउ॒पाव॑रोह॒ विश्वा॒स्त्वां प्र॒जाऽउ॒पाव॑रोहन्तु। शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः। श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञꣳ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑॥२६॥

सोम॑। रा॒ज॒न्। विश्वाः॑। त्वम्। प्रजा॒ इति॑ प्र॒ऽजाः। उ॒पाव॑रो॒हेत्यु॑प॒ऽअव॑रोह। विश्वाः॑। त्वाम्। प्र॒जा इति॑ प्र॒ऽजाः। उपाव॑रोह॒न्त्वित्यु॑प॒ऽअव॑रोहन्तु। शृ॒णोतु॑। अ॒ग्निः। स॒मिधेति॑ स॒म्ऽइधा॑। हव॑म्। मे॒। शृ॒ण्वन्तु॑। आपः॑। धि॒षणाः॑। च॒। दे॒वीः। श्रोत॑। ग्रा॒वा॒णः॒। वि॒दुषः॑। न। य॒ज्ञम्। शृ॒णोतु॑। दे॒वः। स॒वि॒ता। हव॑म्। मे॒। स्वाहा॑ ॥२६॥

Mantra without Swara
सोम राजन्विश्वास्त्वम्प्रजा उपाव रोह विश्वास्त्वाम्प्रजाऽउपाव रोहन्तु । शृणोत्वग्निः समिधा हवम्मे शृण्वन्त्वापो धिषणाश्च देवीः श्रोता ग्रावाणो विदुषो न यज्ञँ शृणोतु देवः सविता हवम्मे स्वाहा ॥

सोम। राजन्। विश्वाः। त्वम्। प्रजा इति प्रऽजाः। उपावरोहेत्युपऽअवरोह। विश्वाः। त्वाम्। प्रजा इति प्रऽजाः। उपावरोहन्त्वित्युपऽअवरोहन्तु। शृणोतु। अग्निः। समिधेति सम्ऽइधा। हवम्। मे। शृण्वन्तु। आपः। धिषणाः। च। देवीः। श्रोत। ग्रावाणः। विदुषः। न। यज्ञम्। शृणोतु। देवः। सविता। हवम्। मे। स्वाहा॥२६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सोम) प्रशस्तैश्वर्थ्ययुक्त (राजन्) सर्वोत्कृष्टगुणै: प्रकाशमान! (विश्वाः) सर्वा: (त्वम्) (प्रजाः) पालनीया: (उपावरोह) उपवर्तस्व (विश्वाः) सर्वाः (त्वाम्) पितरमपत्यानीव सुखाय (प्रजाः) प्रजननीयाः (उपावरोहन्तु) समुपाश्रयन्तु (शृणोतु) (अग्निः) पावकः (समिधा) समिधेव (हवम्) अर्चनम् (मे) मम (शृण्वन्तु) (आपः) शुभगुणकर्मव्याप्ताः (धिषणाः) धृष्टा वाचो यासां ताः। धिषणैति वाङ् ना०॥ निघं० १।११॥ (च) पक्षान्तरे (देवी) विदुष्यः (श्रोत) शृणुत। अत्र तस्य स्थाने तप्तनप्तनथनाश्च॥ अ० ७ । १ । ४५ ॥अनेन तवादेशः। द्व्यचोतस्तिङः अ० ६।३।१३५ ॥ इति दीर्घः। बहुलं छन्दसि ॥ अ० २ । ४ । ७३।। इति श्नुलोपश्च (ग्रावाणः) सदसद्विवेचका विद्वांसः। ग्रावाण इति पदनामसु पठितम् ॥ नि० ५ । ३।। (विदुषः) (न) इव (यज्ञम्) (शृणोतु) (देवः) विद्याप्रकाशितः (सविता)ऐश्वर्य्यवान् (हवम्) (मे) मम (स्वाहा) स्तुतियुक्ता वाग्यथा तथा॥ अयं मंत्रः शत० ३। ९। ३। ६-२४व्याख्यातः॥ २६॥
Essence
राजा प्रजाश्च परस्परानुमत्या सर्वान् राज्यव्यवहारान् पालयेयुरिति ॥ ६ । २६ ॥
Subject
अथ गुरुजनः क्षत्रियं शिष्यं प्रजाजनांश्च प्रत्युपदिशति॥
Meaning of Anvay
हे सोम! प्रशस्तैश्वर्य्ययुक्त! राजन्! सर्वोत्कृष्टगुणैः प्रकाशमान! त्वं पितेव विश्वाः सर्वाः प्रजाः पालनीया उप+ अव+रोह उपवर्त्तस्व।त्वां पितरमपत्यानीव सुखाय विश्वाः सर्वाः प्रजाः प्रजननीया अपत्यानीव उप+अव+रोहन्तु समुपाशयन्तु । भवान् समिधा समिधेव अग्निः पावकः इव मे= मम प्रजाजनस्य हवम् अर्चनं शृणोतु। या आपः शुभगुणकर्मव्याप्ताः धिषणाःधृष्टा वाचो यासां ताः, देवीः=देव्यः विदुष्य: पत्न्यश्च मातरमिव स्त्रीन्यायं शृण्वन्तु।
हे ग्रावाणः=स्तावका विद्वांसः सभासदः! सदसद्विवेचका विद्वांसः! यूयं मम हवम् अर्चनं श्रोत शृणुत। देवः विद्याप्रकाशितः सविता ऐश्वर्य्यवान् भवान् विदुषः यज्ञं न=इव मे=मम हवम् अर्चनं स्वाहा स्तुतियुक्ता वाग्यथा तथा शृणोतु॥ २६॥
[हे......राजन्! त्वं पितेव विश्वाः प्रजा उपावरोह......]
Special
मेधातिथिः॥ सोमादयोलिङ्गोक्ताः=राजादयः॥ भुरिक् गायत्री। षड्जः। शृणोत्वित्यस्यार्षी त्रिष्टुप्। धैवतः॥