Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 25

37 Mantra
6/25
Devata- सोमो देवता Rishi- मेधातिथिर्ऋषिः Chhand- आर्षी विराट अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
हृ॒दे त्वा॒ मन॑से त्वा॒ दि॒वे त्वा॒ सूर्या॑य त्वा। ऊ॒र्ध्वमि॒मम॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ॥२५॥

हृ॒दे। त्वा॒। मन॑से। त्वा॒। दि॒वे। त्वा॒। सूर्य्या॑य। त्वा॒। ऊ॒र्ध्वम्। इ॒मम्। अ॒ध्व॒रम्। दि॒वि। दे॒वेषु॑। होत्राः॑। य॒च्छ॒ ॥२५॥

Mantra without Swara
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा । ऊर्ध्वमिममध्वरन्दिवि देवेषु होत्रा यच्छ ॥

हृदे। त्वा। मनसे। त्वा। दिवे। त्वा। सूर्य्याय। त्वा। ऊर्ध्वम्। इमम्। अध्वरम्। दिवि। देवेषु। होत्राः। यच्छ॥२५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(हृदे) हृत्सुखाय (त्वा) त्वाम् (मनसे) सदसन्मननाय (त्वा) त्वाम् (दिवे) सर्वसुखद्योतनाय (त्वा) त्वाम् (सूर्य्याय) सूर्यगुणाय (त्वा) स्वाम् (ऊर्ध्वम्) उत्कृष्टम् (इमम्) प्रत्यक्षम् (अध्वरम्) अविनश्वरं यज्ञम् (दिवि ) शुभगुणप्रकाशे (देवेषु) विद्वत्सु (होत्राः) हवनकर्मानुष्ठात्र्य: (यच्छ) उपगृह्णीहि ॥ अयं मंत्रः शत. ३। ९। ३। ४-५ व्याख्यातः ॥ २५॥
Essence
यथा पतिव्रताः स्वपतिषु तत्प्रियमाचरन्त्योऽग्निहोत्रादिकर्मसु निरताः स्युस्तथा विवाहानन्तरं ब्रह्मचारिणीभिरपि परस्परमनुवर्त्तितव्यमिति ॥ ६ । २५ ॥
Subject
पुनस्ताः किं किमुपदिशेयुरित्याह ॥
Meaning of Anvay
हे ब्रह्मचारिणि कन्ये! त्वं यथा वयं सर्वा देवेषु-स्वपतिषु विद्वत्सु समीपवर्त्तिन्यो होत्राः=हवनकर्माऽनुष्ठात्र्यः स्मस्तथा भव ।
यथा वयं हृदे हृत्सुखाय त्वा त्वां, मनसे सदसन्मननाय त्वा त्वां, दिवे सर्वसुखद्योतनाय त्वा त्वां, सूर्य्याय सूर्य्यगुणाय त्वा त्वाम् अनुशास्मस्तथा दिवि शुभगुणप्रकाशे इमं प्रत्यक्षम् अध्वरम् अविनश्वरं यज्ञम् ऊर्ध्वम् उत्कृष्टं यच्छ उपगृह्णीहि ॥ ६। २५ ॥
[हे ब्रह्मचारिणि कन्ये ! त्वं यथा वयं सर्वा देवेषु=स्वपतिषु समीपवर्त्तिन्यो होत्राः=हवनकर्माऽनुष्ठात्र्यः स्मस्तथा भव]
Meaning of Essence
होत्राः=अग्निहोत्रादिकर्मसु निरताः।।
Special
मेधातिथिः। सोमः=उपदेशः॥ विराडार्ष्यनुष्टुप्। गान्धारः।।