Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 24

37 Mantra
6/24
Devata- लिङ्गोक्ता देवताः Rishi- मेधातिथिर्ऋषिः Chhand- आर्षी त्रिष्टुप्,त्रिपाद गायत्री, Swara- धैवतः, षड्जः
Mantra with Swara
अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामीन्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ॒ विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ। अ॒मूर्याऽउप॒ सूर्ये॒ याभि॒॑र्वा॒ सूर्यः॑ स॒ह। ता नो॑ हिन्वन्त्वध्व॒रम्॥२४॥

अ॒ग्नेः। वः। अप॑न्नगृह॒स्येत्यप॑न्नऽगृहस्य। सद॑सि। सा॒द॒या॒मि॒। इ॒न्द्रा॒ग्न्योः। भा॒ग॒धेयी॒रिति॑ भाग॒ऽधेयीः॑। स्थ॒। मि॒त्रावरु॑णयोः। भा॒ग॒धेयी॒रिति॑ भाग॒ऽधेयीः॑। विश्वे॑षाम्। दे॒वाना॑म्। भा॒ग॒धेयी॒रिति॑ भाग॒ऽधेयीः॑। स्थ॒। अ॒मूः। याः। उप॑। सूर्य्ये॑। याभिः॑। वा॒। सूर्य्यः॑। स॒ह। ताः। नः। हि॒न्व॒न्तु॒। अ॒ध्व॒रम् ॥२४॥

Mantra without Swara
अग्नेर्वापन्नगृहस्य सदसि सादयामीइन्द्राग्न्योर्भागधेयी स्थ मित्रावरुण्योर्भागधेयी स्थ विश्वेषान्देवानाम्भागधेयी स्थ । अमूर्याऽउप सूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वन्त्वध्वरम् ॥

अग्नेः। वः। अपन्नगृहस्येत्यपन्नऽगृहस्य। सदसि। सादयामि। इन्द्राग्न्योः। भागधेयीरिति भागऽधेयीः। स्थ। मित्रावरुणयोः। भागधेयीरिति भागऽधेयीः। विश्वेषाम्। देवानाम्। भागधेयीरिति भागऽधेयीः। स्थ। अमूः। याः। उप। सूर्य्ये। याभिः। वा। सूर्य्यः। सह। ताः। नः। हिन्वन्तु। अध्वरम्॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने:) विद्यादिगुणप्रकाशितस्य सभ्यजनस्य (व:) युष्मान् युष्माकं वा (अपन्नगृहस्य) अप्राप्तगृहस्य कुमारब्रह्मचारिणः (सदसि) सीदन्ति बुद्धिविषया यस्मिन्निति सदः अध्ययनाध्यापननिमित्ता सभा, तत्र (सादयामि) स्थापयामि (इन्द्राग्न्योः) सूर्यविद्युतोर्गुणानाम् (भागधेयीः) विभागविज्ञानयुक्ताः। नामरूपभागेभ्य: स्वार्थे घेय: प्रत्ययः। अ० ५ । ४ । ३६ भा० वा०॥केवलमामक० ॥ [अ० ४ । १ । ३० ॥ इत्यादिना ङीष् (स्थ) भवथ (मित्रावरुणयोः) प्राणोदानयोः (भागधेयी) (स्थ) (विश्वेषाम् ) सर्वेषाम् (देवानाम्) विदुषां पृथिव्यादीनां वा (भागधेयी) (स्थ) (अमू:) प्रत्यक्षा: (याः) (उप) (सूर्ये) सवितृलोके (याभिः) (वा) पक्षान्तरे (सूर्यः) सूर्यलोकः (सह) (ताः) (नः) अस्माकम् (हिन्वन्तु) प्रीणन्तु (अध्वरम्) गृहाश्रमक्रियासिद्धिकरं यज्ञम् ॥ २४॥
Essence
ब्रह्मचर्यधर्ममनुवर्त्तिनीनां कन्यानामविवाहितैः स्वतुल्यगुणकर्मस्वभावैः पुरुषैः सहैव विवाहकरणयोग्यताऽस्तीति हेतोर्गुरुपत्न्यो ब्रह्मचारिणी: कन्यास्तादृशमेवोपदिशन्तु खल्वापत्काले कृतविवाहयोर्नियोगो भवितुमर्हति नान्यथेति ॥ ६ । २४ ।।
Subject
अथ गुरुपत्न्यो ब्रह्मचर्यमनुवर्त्तिनीः कन्याः किं किमुपदिशेयुरित्याह।।
Meaning of Anvay
हे ब्रह्मचारिण्यः! यूयं याः अमू: प्रत्यक्षाः स्वयंवरविवाहं कृतवत्यः सन्ति, यूयम् इन्द्राऽग्न्योः सूर्य्यविद्युतोर्गुणानां भागधेयीः विभागविज्ञानयुक्ताः स्थ भवथ, मित्रावरुणयोः प्राणोदानयोः भागधेयीः विभागविज्ञानयुक्ताः स्थ भवथ। विश्वेषां सर्वेषां देवानां विदुषां पृथिव्यादीनां वा भागधेयीः विभागविज्ञानयुक्ताः स्थभवथ ता वः=युष्मान् युष्मान् अपन्नगृहस्य अप्राप्तगृहस्य कुमारब्रह्मचारिणो अग्नेः विद्यादिगुणप्रकाशितस्य सभ्यजनस्य सदसि सीदन्ति बुद्धिविषया यस्मिन्निति सदः, अध्ययनाऽध्यापननिमित्ता सभा तत्र अहं सादयामि स्थापयामि। या उप सूर्य्ये=सूर्य्यगुणेषु सवितृलोके तिष्ठन्ति वा पक्षान्तरे याभिः सह सूर्य्यः सूर्य्यलोको वर्त्तते ताः नः=अस्माकम् अध्वरं=विवाहं गृहाऽऽश्रमक्रियासिद्धिकरं यज्ञे कृत्वा हिन्वन्तु प्रीणन्तु ॥६ । २४॥
[हे ब्रह्मचारिण्यः! यूयं या अमूः स्वयंवरविवाहं कृतवत्यः सन्ति......ता वः=युष्मानपन्नगृहस्याग्नेःसदस्यहं सादयामि]
Special
मेधातिथिः। आपः=गुरुपत्न्यः॥ आर्षी त्रिष्टुप्। धैवतः। अमूर्य्येत्यस्य त्रिपाद् गायत्री। षड्जः॥