Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 23

37 Mantra
6/23
Devata- अब्यज्ञसूर्या देवताः Rishi- दीर्घतमा ऋषिः Chhand- निचृत् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
ह॒विष्म॑तीरि॒माऽआपो॑ ह॒विष्माँ॒२ऽआवि॑वासति। ह॒विष्मा॑न् दे॒वोऽअ॑ध्व॒रो ह॒विष्माँ॑२ऽअस्तु॒ सूर्यः॑॥२३॥

ह॒विष्म॑तीः। इ॒माः। आपः॑। ह॒विष्मा॑न्। आ। वि॒वा॒स॒ति॒। ह॒विष्मा॑न्। दे॒वः। अ॒ध्व॒रः। ह॒विष्मा॑न्। अ॒स्तु॒। सूर्यः॑ ॥२३॥

Mantra without Swara
हविष्मतीरिमा आपो हविष्माँ आ विवासति । हविष्मान्देवो अध्वरो हविष्माँ अस्तु सूर्यः ॥

हविष्मतीः। इमाः। आपः। हविष्मान्। आ। विवासति। हविष्मान्। देवः। अध्वरः। हविष्मान्। अस्तु। सूर्यः॥२३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(हविष्मतीः) प्रशस्तानि हवींषि विद्यन्ते यासु ताः (इमाः) प्रत्यक्षा: (आपः) जलानि (हविष्मान्) प्रशस्तानि हवींषि विद्यन्ते यस्य वायोः सः। दीर्घादटि समानपदि ॥ अ०। ८।३।९॥ इति रुः। अतोऽटि नित्यम् ॥ अ० ८ । ३ । ३।। इति सानुनासिकत्वम् (आ) समन्तात् (विवासति) सेवते । विवासतीति परिचरणकर्मसु पठितम् ॥ निघं० ३ । ५ ।।(हविष्मान्) (देव:) सुखयिता। (अध्वरः) यज्ञः (हविष्मान्) (अस्तु) (सूर्य:)।। अयं मन्त्रः शत० ३ । ९ ।२।१० व्याख्यातः॥ २३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ येन वायुजलसंयोगेनानेकानि सुखानि साध्यन्ते, यैर्विविधदेशदेशान्तरगमनेन वस्तुप्रापणं भवति। तैरेतत्कर्म क्रियाविचक्षण एव कर्तुं शक्नोति।
[देवोऽध्वरो हविष्मान् स्यात्, सूर्यो हविष्मानस्तु=भवेत्, तथा भवन्तो यज्ञेनैतान् शुद्धान् कुर्वन्तु]
यो विविधक्रियाप्रकाशकोऽस्ति, स यज्ञो वृष्ट्यादिसुखकरो भवति ॥ ६। २३॥
[हे विद्वांसः! यथेमा आप हविष्मतीः=हविष्मत्यः स्युरयं वायुर्हविष्मानेवाविवासति=सर्वान्परिचरति]
Subject
पुनरन्योऽन्यं मिलित्वा राजप्रजे केन किं किं कुर्यातामित्याह ।।
Meaning of Anvay
हे विद्वांसः! यथा इमाः प्रत्यक्षा आपः जलानि हविष्मतीः=हविष्मत्यः प्रशस्तानि हवींषि विद्यन्ते यासु ताः, स्युरयं वायुर्हविष्मान् प्रशस्तानि हवींषि विद्यन्ते यस्य वायोः सः,एव आ+विवासति=सर्वान् परिचरति समन्तात् सेवते। देवः सुखयिता अध्वरः यज्ञो हविष्मान् प्रशस्तानि हवींषि विद्यन्ते यस्य सः, स्यात्। सूर्य्यः हविष्मान् प्रशस्तानि हवींषि विद्यन्ते यस्य सः, अस्तु=भवेत्, तथा भवन्तो यज्ञेनैतान् शुद्धान् कुर्वन्तु।। ६।२३ ।।
[हे विद्वांसः! यथेमा आप हविष्मतीः=हविष्मत्यः स्युरयं वायुर्हविष्मानेवाविवासति=सर्वान्परिचरति]
Special
दीर्घतमाः। अब्यज्ञसूर्या:=जलयज्ञसूर्याः। निचृदार्ष्यनुष्टुप्। गान्धारः॥