Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 22

37 Mantra
6/22
Devata- वरुणो देवता Rishi- दीर्घतमा ऋषिः Chhand- ब्राह्मी स्वराट् उष्णिक्,निचृत् अनुष्टुप्, Swara- ऋषभः, षड्जः
Mantra with Swara
मापो मौष॑धीर्हिꣳसी॒र्धाम्नो॑ धाम्नो राजँ॒स्ततो॑ वरुण नो मुञ्च। यदा॒हुर॒घ्न्याऽइति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च। सु॒मि॒त्रि॒या न॒ऽआप॒ऽओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः॥२२॥

मा। अ॒पः। मा। ओष॑धीः। हि॒ꣳसीः॒। धाम्नो॑धाम्न॒ इति॑ धाम्नः॑ऽधाम्नः। रा॒ज॒न्। ततः॑। व॒रु॒ण। नः॒। मु॒ञ्च॒। यत्। आ॒हुः॒। अ॒घ्न्याः। इति॑। वरु॑ण। इति॑। शपा॑महे। ततः॑। व॒रु॒ण॒। नः॒। मु॒ञ्च॒। सु॒मि॒त्रि॒या इति॑ सु॑ऽमि॒त्रि॒याः। नः॒। आपः॑। ओष॑धयः। स॒न्तु॒। दु॒र्मि॒त्रि॒या इति॑ दुःऽमित्रि॒याः। तस्मै॑। स॒न्तु॒। यः। अस्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः ॥२२॥

Mantra without Swara
मापो मौषधीर्हिँसीः धाम्नोधाम्नो राजँस्ततो वरुण नो मुञ्च । यदाहुरघ्न्याऽइति वरुणेति शपामहे ततो वरुण नो मुञ्च । सुमित्रिया नऽआप ओषधयः सन्तु दुर्मित्रियासस्तस्मै सन्तु योस्मान्द्वेष्टि यञ्च वयन्द्विष्मः ॥

मा। अपः। मा। ओषधीः। हिꣳसीः। धाम्नोधाम्न इति धाम्नःऽधाम्नः। राजन्। ततः। वरुण। नः। मुञ्च। यत्। आहुः। अघ्न्याः। इति। वरुण। इति। शपामहे। ततः। वरुण। नः। मुञ्च। सुमित्रिया इति सुऽमित्रियाः। नः। आपः। ओषधयः। सन्तु। दुर्मित्रिया इति दुःऽमित्रियाः। तस्मै। सन्तु। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः॥२२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मा) निषेधे (अपः) जलानि (मा) निषेधे (ओषधी:) यवादीन् (हिंसी:) (धाम्नो धाम्नः) स्थानात् स्थानात् (राजन्) सभापते! (ततः) तस्मात् (वरुण) प्रशस्त (नः) अस्मान् (मुञ्च) (यत्) (आहुः) (अघ्न्याः) हन्तुमयोग्या गावस्ताः। अघ्न्याः इति गोनामसु पठितम् ॥ निघं० २। ११ ॥ (इति) अनेन प्रकारेण (वरुण) न्यायकारिन्! (इति) प्रकारान्तरे (शपामहे) (ततोवरण नो मुञ्च) ( सुमित्रियाः) सुमित्राणीव (नः) अस्मभ्यम् (आपः) (ओषधयः) ( सन्तु) (दुर्मित्रियाः) दुर्मित्राणीव (तस्मै) द्विषते (सन्तु) (यः) अमित्र: (अस्मान्) (द्वेष्टि) (यम्) (च) (वयम्) (द्विष्मः)।। अयं मन्त्रः शत० ३।८। ५।९-११ व्याख्यातः ॥ २२॥
Essence
राजपुरुषाः प्रजाभ्योऽनीत्या धनं न गृह्णीयुः। राजरक्षणाय प्रतिज्ञां कुर्युरन्यायं वयं न करिष्याम इति दुष्टान् सततं दण्डयेयुरिति।। ६ । २२ ।।
Subject
अथ वाणिज्यार्थं राजप्रबन्धमाह।।
Meaning of Anvay
हे राजन्! सभापते! त्वम् अपः जलानि ओषधीः यवादीन् च मा न हिंसीः । न केवलमिदमेव कुर्य्याः किन्तु ततः तस्माद् धाम्नो धाम्नः स्थानात् स्थानात् [नः]=अस्मान् मान मुञ्च।
हे वरुण प्रशस्त ! अघ्न्याः हन्तुमयोग्या गावस्ताः, इति अनेन प्रकारेण यद् भवन्त आहुः वयं चेत्थं शपामहे। ततः तस्मात् त्वं [नः] अस्मभ्यं मा मुञ्च वयमपि न मुञ्चाम:।
हे वरुण न्यायकारिन्। [इति] प्रकाशान्तरे नः अस्मभ्यम्औषधयश्च सुमित्रियाः=सुमित्रवत् सुमित्राणीव सन्तु। वः अमित्रः अस्मान् द्वेष्टि यम्अमित्रं च वयं द्विष्मः, तस्मै द्विषते दुर्मित्रिया:=(सन्तु) शत्रुवद् दुर्मित्राणीव सन्तु ॥ ६ । २२ ॥
[हे वरुण [इति] न आप ओषधयश्च सुमित्रिया:=सुमित्रवत् सन्तु, योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्मै दुमित्रिया:=शत्रुवत् सन्तु]
Special
दीर्घतमाः। वरूण:=सभापतिः।। स्वाराड् ब्राह्म उष्णिक्। ऋषभः। सुमित्रिया न इत्यस्य त्रिपाट् विराड् गायत्री। षड्जः॥