Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 20

37 Mantra
6/20
Devata- त्वष्टा देवता Rishi- दीर्घतमा ऋषिः Chhand- ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
ऐ॒न्द्रः प्रा॒णोऽअङ्गे॑ऽअङ्गे॒ निदी॑ध्यदै॒न्द्रऽउ॑दा॒नोऽअङ्गे॑ऽअङ्गे॒ निधी॑तः। देव॑ त्वष्ट॒र्भूरि॑ ते॒ सꣳस॑मेतु॒ सल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति। दे॒व॒त्रा यन्त॒म॑वसे॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु॥२०॥

ऐ॒न्द्रः। प्रा॒णः। अङ्गे॑ऽअङ्ग॒ इत्यङ्गे॑ऽअङ्गे। नि। दी॒ध्य॒त्। ऐ॒न्द्रः। उ॒दा॒न इत्यु॑त्ऽआ॒नः। अङ्गे॑ऽअङ्ग॒ इत्यङ्गे॑ऽअङ्गे। निधी॑त॒ इति॒ निऽधीतः। देव॑। त्व॒ष्ट॒। भूरि॑। ते॒। सꣳस॒मिति॒ सम्ऽस॑म्। ए॒तु॒। सल॒क्ष्मेति॒ सऽल॑क्ष्म। यत्। विषु॑रूप॒मिति॒ वि॒षु॑ऽरूपम्। भवा॑ति। दे॒व॒त्रेति॑ देव॒ऽत्रा। यन्त॑म्। अव॑से। सखा॑यः। अनु॑। त्वा॒। मा॒ता॒। पि॒तरः॑। म॒द॒न्तु॒ ॥२०॥

Mantra without Swara
ऐन्द्रः प्राणोऽअङ्गेअङ्गे निदीध्यदैन्द्रऽउदानोऽअङ्गेअङ्गे निधीतः । देव त्वष्टर्भूरि ते सँसमेतु सलक्ष्मा यद्विषुरूपम्भवाति । देवत्रा यन्तमवसे सखायोनु त्वा माता पितरो मदन्तु ॥

ऐन्द्रः। प्राणः। अङ्गेऽअङ्ग इत्यङ्गेऽअङ्गे। नि। दीध्यत्। ऐन्द्रः। उदान इत्युत्ऽआनः। अङ्गेऽअङ्ग इत्यङ्गेऽअङ्गे। निधीत इति निऽधीतः। देव। त्वष्ट। भूरि। ते। सꣳसमिति सम्ऽसम्। एतु। सलक्ष्मेति सऽलक्ष्म। यत्। विषुरूपमिति विषुऽरूपम्। भवाति। देवत्रेति देवऽत्रा। यन्तम्। अवसे। सखायः। अनु। त्वा। माता। पितरः। मदन्तु॥२०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ऐन्द्रः) इन्द्रो=जीवो देवताऽस्य स ऐन्द्रः (प्राणः) शरीरस्थो वायुविशेषः (अङ्गे-अङ्गे) यथा प्रत्यङ्गं प्रकाशते (नि) नितराम् (दीध्यत्) युद्धे शत्रून् वञ्चित्वा स्वयं प्रकाशेत (ऐन्द्रः) विद्युद्देवताकः (उदानः) य ऊर्ध्वमनिति (अङ्गे-अङ्गे) प्रत्यङ्गम् (निधीतः) निहित इव (देव) दिव्यविद्यासम्पन्न सेनाध्यक्ष! (त्वष्ट:) शत्रुबलच्छेत्तः! (भूरि) बहु (ते) तव (सम् सम्) एकीभावे। अत्र प्रसमुपोदः पादपूरणे ॥ अ० ८ । १ । ६॥ इति समित्यस्य द्वित्वम् (एतु) प्राप्नोतु (सलक्ष्म) समानं लक्ष्म यस्य तत्। अत्र अन्येषामपि दृश्यते ॥ अ० ६ । ३ । १३७ ।। इति दीर्घः (यत्) (विषुरूपम्) व्यापकं विविधरूपं वा (भवाति) भवतु (देवत्रा) देवं देवमिति देवत्रा (यन्तम्) गच्छन्तम् (अवसे) रक्षणाद्याय (सखायः) सुहृदः सन्तः (अनु) (त्वा) त्वाम् (माता) जननी (पितरः) रक्षका जनका: ( मदन्तु) हर्षन्तु॥ अयं मन्त्रः शत० ३। ८ । ३ । ३७ व्याख्यातः ॥ २०॥
Essence
सेनापतिःसर्वमित्रोऽङ्गेऽङ्गे प्राण उदान इव संग्रामे विचरन् सेनास्थवीरान् प्रजास्थपुरुषांश्च हर्षयित्वा शत्रून् विजयेत।। ६।२०।।
Subject
पुनस्तत्रान्योन्यं कथं वर्त्तेरन्नित्युपदिश्यते।।
Meaning of Anvay
हे त्वष्ट: शत्रुबलच्छेत्तः! देव=सेनापते! भगवन् दिव्यविद्यासम्पन्न सेनाध्यक्ष! अङ्गेअङ्गेयथा प्रत्यङ्गं प्रकाशते ऐन्द्रः इन्द्रो=जीवो देवताऽस्य स ऐन्द्र: प्राणः शरीरस्थो वायुविशेषः इव अवसे रक्षणाद्याय संग्रामे नि+दीध्यत् नितरां युद्धे शत्रून् वञ्चित्वा स्वयं प्रकाशेत्, यद्वा अङ्गे अङ्गे प्रत्यङ्गम् [ऐन्द्रः]विद्युद्देवताक: उदानः य ऊर्ध्वमनिति इव संग्रामे नि+धीतः निहित इव भवति, यत् ते=तव विषुरूपं व्यापकं विविधरूपं वा सलक्ष्म समानं लक्ष्म यस्य तद्, भवाति भवतु तत्संग्रामे भूरि बहु यथा स्यात्तथा सम्+सम्+एतु एकीभूय प्राप्नोतु। सखायः सुहृदः सन्तो माता जननी पितरःरक्षका जनकाः च देवत्रा देवं देवमिति देवत्रा धर्म्यं युद्धं व्यवहारं वा यन्तं गच्छन्तं त्वा=त्वाम् अनु+मदन्तु हर्षन्तु ॥ २०।।
[हे...देव=सेनापते! भगवन्! अङ्गे अङ्गे ऐन्द्रः प्राण इवावसे संग्रामे निदीध्यत्,यद्वा.....उदान इव संग्रामे निधीतो भवति.... सखायो माता पितरश्च देवत्रा धर्म्यं युद्धं--यन्तं त्वा=त्वामनुमदन्तु]
Special
दीर्घतमाः। त्वष्टा=सेनापतिः॥ ब्राह्मी त्रिष्टुप् । धैवतः।।