Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 2

37 Mantra
6/2
Devata- सविता देवता Rishi- शाकल्य ऋषिः Chhand- निचृत् गायत्री,स्वराट् पङ्क्ति, Swara- षड्जः, धैवतः
Mantra with Swara
अ॒ग्रे॒णीर॑सि स्वावे॒शऽउ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः। द्यामग्रे॑णास्पृक्ष॒ऽआन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृꣳहीः॥२॥

अ॒ग्रे॒णीः। अ॒ग्रे॒नीरित्य॑ग्रे॒ऽनीः। अ॒सि॒। स्वा॒वे॒श इति॑ सुऽआवे॒शः। उ॒न्ने॒तॄ॒णामित्यु॑त्ऽनेतॄ॒णाम्। ए॒तन्य॑। वि॒त्ता॒त्। अधि॑। त्वा॒। स्था॒स्य॒ति॒। दे॒वः। त्वा॒। स॒वि॒ता। मध्वा॑। अ॒न॒क्तु॒। सु॒पि॒प्प॒लाभ्य॒ इति॑ सुऽपिप्प॒लाभ्यः॑। त्वा॒। ओष॑धीभ्यः। द्याम्। अग्रे॑ण। अ॒स्पृ॒क्षः॒। आ। अ॒न्तरि॑क्षम्। मध्ये॑न। अ॒प्राः॒। पृ॒थि॒वीम्। उ॑परेण। अ॒दृ॒ꣳहीः॒ ॥२॥

Mantra without Swara
अग्रेणीरसि स्वावेशऽउन्नेतऋृणामेतस्य वित्तादधि त्वा स्थास्यति देवस्त्वा सविता मध्वनक्तु सुपिप्पलाभ्यस्त्वौषधीभ्यः । द्यामग्रेणास्पृक्ष आन्तरिक्षम्मध्येनाप्राः पृथिवीमुपरेणादृँहीः ॥

अग्रेणीः। अग्रेनीरित्यग्रेऽनीः। असि। स्वावेश इति सुऽआवेशः। उन्नेतॄणामित्युत्ऽनेतॄणाम्। एतन्य। वित्तात्। अधि। त्वा। स्थास्यति। देवः। त्वा। सविता। मध्वा। अनक्तु। सुपिप्पलाभ्य इति सुऽपिप्पलाभ्यः। त्वा। ओषधीभ्यः। द्याम्। अग्रेण। अस्पृक्षः। आ। अन्तरिक्षम्। मध्येन। अप्राः। पृथिवीम्। उपरेण। अदृꣳहीः॥२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्रेणी:) यथाध्यापकाः शिष्यान् पिता स्वसन्तानान् वा पुरस्तादेव सुशिक्षया विद्यां प्रापयति तथा (असि) (स्वावेश:) यथाप्तः शोभनं धर्ममाविशति तथा नेता (उन्नेतृणाम्) यथोन्नेतृणां=उत्कर्षप्रापयितॄणां राज्यं तथा (एतस्य) प्रकृतं राज्यं पालयितुम् (वित्तात्) विजानीहि (अधि) उपरिभावे (त्वा) त्वाम् (स्थास्यति) (देव:) अखिलराज्येश्वरः (त्वा) त्वाम् (सविता) सर्वस्य विश्वस्य जनिता (मध्वा) मधुरगुणेन (अनक्तु) सिंचतु (सुपिप्पलाभ्यः) यथा सुष्ठुफलाभ्यः (त्वा) त्वाम् (औषधीभ्यः) प्रसिद्धाभ्यः (द्याम्) विद्यान्यायप्रकाशम् (अग्रेण) पुरस्तात् (अस्पृक्षः) स्पृश। अत्र सर्वत्रलडर्थे लुङ् (आ) समन्तात् (अन्तरिक्षम्) धर्मप्रचारस्यावकाशम् (मध्यमेन) मध्यमावस्थाविशेषेण (अप्राः) पिपृहि (पृथिवीम्) भूमिराज्यम् (उपरेण) उत्कृष्टनियमेन (अदृँहीः) प्राप्य वर्द्धस्व ॥ अयं मंत्रः शत० ३ । ७ । १ । ९ व्याख्यातः ॥ २॥
Essence
न हि कश्चिज्जनो राजप्रजापुरुषरस्वीकृतो राज्यमर्हति,
[त्वमग्रेण यशसा द्यामस्पृक्षः, मध्यमेनान्तरिक्षमाप्राः, उपरेण पृथिवीं प्राप्येवादृँहीः]
न चापि राज्ञानादृतः साम्राज्यं कीर्त्यनुक्रमेण विना सैन्यापत्यं, दण्डनेतृत्वं, सर्वलोकाधिपतित्वं च ।। ६।२ ॥
Subject
पुनः सोऽभिषिक्तः सभाध्यक्षः कथं प्रवर्त्तेतेत्युपदिश्यते॥
Meaning of Anvay
हे सभाध्यक्ष! यथाऽग्रेणी: यथाऽध्यापकाः शिष्यान् पिता स्वसन्तानान् वा पुरस्तादेव सुशिक्षया विद्यां प्रापयति तथा अस्ति, तथा त्वमसि।
उन्नेतॄणां यथोन्नेतृणाम्=उत्कर्षप्रापयितृणां राज्यं तथा स्वावेश: यथाऽऽप्तः शोभनं धर्ममाविशति तथा नेता सन् एतस्य=एतं राज्यं प्रकृतं राज्यं पालयितुं वित्तात् विजानीहि।
हे राजन्! यथा ते [त्वा]=त्वां राजपुरुषसमूहः सुपिप्पलाभ्यः यथा सुष्ठुफलाभ्यः औषधीभ्यः प्रसिद्धाभ्यो मध्वा मधुरगुणेन अनक्तु सिञ्चतु एवं प्रजापुरुषसमूहोऽपि [त्वा]=त्वां च अनक्तु सिञ्चतु।
त्वमग्रेण पुरस्ताद् यशसा द्यां विद्यान्यायप्रकाशम् अस्पृक्षः स्पृश। मध्यमेन मध्यमाऽवस्थाविशेषेण अन्तरिक्षं धर्मप्रचारस्याऽवकाशम् आ+अप्राः समन्तात् पिपृहि,उपरेण उत्कृष्टनियमेन पृथिवीं भूमिराज्यं प्राप्येव अहँहीः प्राप्य वर्द्धस्व ।
देव: अखिलराज्येश्वरः सविता=सर्वप्रेरको जगदीश्वरः सर्वस्य विश्वस्य जनिता त्वा त्वाम् अधि+स्थास्यति उपरि स्थास्यति॥ ६ । २॥
[हे राजन्! यथा ते [त्वा]=त्वां राजपुरुषसमूहःअनक्तु, एवं प्रजापुरुषसमूहोऽपि [त्वा]=त्वां चानक्तु]
Meaning of Essence
यशसा कीर्त्यनुक्रमेण।
Special
शाकल्यः। सविता=ईश्वर:।। निचृद्गायत्री षड्जः। देवस्त्वेत्यस्य स्वराट् पंक्तिश्छन्द। पञ्चमः स्वरः ॥