Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 19

37 Mantra
6/19
Devata- विश्वेदेवा देवताः Rishi- दीर्घतमा ऋषिः Chhand- ब्राह्मी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
घृ॒तं घृ॒॑तपावानः पिबत॒ वसां॑ वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑। दिशः॑ प्र॒दिश॑ऽआ॒दिशो॑ वि॒दिश॑ऽउ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑॥१९॥

घृ॒तम्। घृ॒त॒पा॒वा॒न॒ इति॑ घृतऽपावानः। पि॒ब॒त॒। वसा॑म्। व॒सा॒पा॒वा॒न॒ इति॑ वसाऽपावानः। पि॒ब॒त॒। अ॒न्तरि॑क्षस्य। ह॒विः। अ॒सि॒। स्वाहा॑। दिशः॑। प्र॒दिश॒ इति॑ प्र॒ऽदिशः॑। आ॒दिश॒ इत्या॒ऽदिशः॑। वि॒दिश॒ इति॑ वि॒ऽदिशः॑। उ॒द्दिश॒इत्यु॒त्ऽ दिशः॑। दि॒ग्भ्य इति॑ दिक्ऽभ्यः। स्वाहा॑ ॥१९॥

Mantra without Swara
घृतङ्घृतपावानः पिबत वसाँ वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा । दिशः प्रदिशऽआदिशो विदिशऽउद्दिशो दिग्भ्यः स्वाहा ॥

घृतम्। घृतपावान इति घृतऽपावानः। पिबत। वसाम्। वसापावान इति वसाऽपावानः। पिबत। अन्तरिक्षस्य। हविः। असि। स्वाहा। दिशः। प्रदिश इति प्रऽदिशः। आदिश इत्याऽदिशः। विदिश इति विऽदिशः। उद्दिशइत्युत्ऽ दिशः। दिग्भ्य इति दिक्ऽभ्यः। स्वाहा॥१९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(घृतम्) उदकम् ॥ धृतमित्युदकनामसु पठितम् ॥ निघं० १।१२ ॥ (घृतपावानः) उदकपा वीराः (पिबत) (वसाम्) वीररसनीतम् (वसापावानः) वसां=निवासं पान्ति ते (पिबत) (अन्तरिक्षस्य) आकाशस्य (हवि:) आदीयत इति (असि) (स्वाहा) युद्धानुकूलां शोभनां वाचम् (दिशः) पूर्वाद्याः (प्रदिशः) अभ्यन्तरदिशः (आदिश:) आभिमुख्यदिश: (विदिशः) विरुद्धदिश: (उद्दिशः) या उद्दिश्यन्ते ताः (दिग्भ्यः) पूर्वप्रतिपादिताभ्यः सर्वाभ्यः (स्वाहा) तत्तत्स्थानानुकूलां शोभनां वाचम्॥ अयम्मन्त्रः शत० ३।८।३।३२-३६ व्याख्यातः ॥ १९॥
Essence
सेनाध्यक्षाणामुचितमस्ति--स्वसेनास्थान् वीरान् शरीरबलयुक्तान् युद्धविद्यासुशिक्षितान् सम्पाद्य युद्धे सर्वासु दिक्षु यथायोग्यान् स्वसेनाभागान् संस्थाप्य सर्वतः शत्रूनावृत्य विजित्यच न्यायेन प्रजां पालयेयुरिति ।। ६ । १९।।
Subject
पुनस्तत्र किं भवितुमर्हतीत्युपदिश्यते ॥
Meaning of Anvay
हे घृतपावानो=वीराः! उदकपा वीराः! यूयं घृतम् उदकं पिबत। हे वसापावानः वसां= निवासं पान्ति ते! यूयं वसां वीररसनीतिंपिबत।
हे सेनाध्यक्ष! चक्रव्यूहादिसेनारचक! त्वं प्रतिवीरमन्तरिक्षस्य आकाशस्य हवि आदीयते इति असि, इति स्वाहा=शोभनया वाचा युद्धाऽनुकूलां शोभनां वाचं, सर्वान् वीरान् या दिशः पूर्वाऽऽद्या:, प्रदिशः अभ्यन्तरदिशः, आदिश: आभिमुख्यदिशः, विदिशः विरुद्धदिशः, उद्दिशः या उद्दिश्यन्ते ताः, च सन्ति, ताभ्यः सर्वाभ्यो दिग्भ्यः पूर्वप्रतिपादिताभ्यः सर्वाभ्यः सर्वाः सेनाः[स्वाहा] तत्तत्स्थानाऽनुकूलां शोभनां वाचं विभज्य शत्रून् विजयध्वम् ॥ १९॥
[हे सेनाध्यक्ष! चक्रव्यूहादिसेनारक्षक! त्वं प्रतिवीरमन्तरिक्षस्य हविरसि, इति स्वाहा=शोभनया वाचा सर्वान् वीरान् या दिशः, प्रदिशः, आदिशः, विदिशः, उद्दिशः सन्ति ताभ्यः सर्वाभ्यो दिग्भ्यः सर्वाः सेनाः [स्वाहा] विभज्य शत्रून् विजयध्वम्]
Special
दीर्घतमाः। विश्वेदेवाः=विद्वांसः।। ब्राह्म्यनुष्टुप् । गान्धारः॥