Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 18

37 Mantra
6/18
Devata- अग्निर्देवता Rishi- दीर्घतमा ऋषिः Chhand- प्राजापत्या अनुष्टुप्,आर्ची पङ्क्ति,दैवी पङ्क्ति, Swara- गान्धारः, पञ्चमः
Mantra with Swara
सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम्। रेड॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिण॒न् वात॑स्य त्वा ध्राज्यै॑ पू॒ष्णो रꣳह्या॑ऽऊ॒ष्मणो॑ व्यथिष॒त् प्रयु॑तं॒ द्वेषः॑॥१८॥

सम्। ते। मनः॑। मन॑सा। सम्। प्रा॒णः। प्रा॒णेन॑। ग॒च्छ॒ता॒म्। रे॒ट्। अ॒सि॒। अ॒ग्निः। त्वा॒। श्री॒णा॒तु॒। आपः॑। त्वा॒। सम्। अ॒रि॒ण॒न्। वातस्य। त्वा॒। ध्राज्यै॑। पू॒ष्णः। रह्यै॑। ऊ॒ष्मणः॑। व्य॒थि॒ष॒त्। प्रयु॑त॒मिति॒ प्रऽयु॑त॒म्। द्वेषः॑ ॥१८॥

Mantra without Swara
सन्ते मनो मनसा सम्प्राणः प्राणेन गच्छताम् । रेडस्यग्निष्ट्वा श्रीणात्वापस्त्वा समरिणन्वातस्य त्वा ध्राज्यै पूष्णो रँह्या ऊष्मणो व्यथिषत्प्रयुतं द्वेषः ॥

सम्। ते। मनः। मनसा। सम्। प्राणः। प्राणेन। गच्छताम्। रेट्। असि। अग्निः। त्वा। श्रीणातु। आपः। त्वा। सम्। अरिणन्। वातस्य। त्वा। ध्राज्यै। पूष्णः। रह्यै। ऊष्मणः। व्यथिषत्। प्रयुतमिति प्रऽयुतम्। द्वेषः॥१८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) (ते) तव (मनः) अन्तःकरणम् (मनसा) विज्ञानेन (सम्) (प्राणः) (प्राणेन) बलेन (गच्छताम्) (रेट्) शत्रुहिंसकः । अत्र रिषतेर्हिंसायात् कर्त्तरि विच (असि) (अग्निः) युद्धजन्यक्रोधाग्नि: (त्वा) त्वाम् (श्रीणातु) परिपचतु (त्वा) त्वाम् (आपः) जलानि (सम्) (अरिणन्) प्राप्नुवन्तु। रिणतीति गतिकर्म्मसु पठितम् ॥ निघं० २ । १४॥ (वातस्य) वायोः (ध्राज्यै) गत्यै। अत्र गत्यर्थाद् ध्रजधातोः ॥ इञ् वपादिभ्यः ॥ अ० ३।३।१०८ भा० वा०॥ इतीञ् प्रत्ययः (त्वा) (पूष्णः) पोषकरस्यादित्यस्य (रंह्यै ) गत्यै (ऊष्मणः) आातपात् (व्यथिषत्) व्यथते (प्रयुतम्) एतत्संख्याकम् (द्वेषः) द्वेष्टि येन सः॥ अयम्मन्त्रः शत० ३।८।३। ९-३१ व्याख्यातः ॥ १८ ॥
Essence
मनुष्यैः संग्रामे मनः समाधाय स्वबलवर्द्धकान्नपानशस्त्रादिपदार्थान् सम्पाद्यन् शत्रून् निहत्य संग्रामो विजेतव्य इति॥ ६।१८ ।।
Subject
अथ रणे योद्धा कीदृग्भवेदित्युपदिश्यते।।
Meaning of Anvay
हे योद्धः ! संग्रामे ते तवमनः अन्तःकरणं मनसा विज्ञानेन प्राण:प्राणेन बलेन च सम्+गच्छताम्।
हे वीर ! त्वं रेट् शत्रुहिंसको असि, त्वा=त्वाम् अग्नि:=युद्धजन्यक्रोधाऽग्निः श्रीणातु परिपचतु। त्वं प्रयुतम् एतत्सङ्ख्याकं शत्रुसैन्यं प्राप्य तज्जन्याद् ऊष्मणःआतपाद् द्वेषः द्वेष्टि येन सः, मा व्यथिषत् व्यथते। [त्वा]=त्वां वातस्य ध्राज्यै=वातस्य गतिभिर्युद्धकर्मणि गत्यै(वायोः गत्यै) यद्वा पूष्णो (पोषकस्याऽऽदित्यस्य) रंह्यै=सूर्यस्य गतिरिव युद्धभूमिषु गत्यै=यथार्थतया युद्धकर्मणि प्रवृत्त्यै (गत्यै) आपः जलानि [त्वा] त्वाम् सम्+अरिणन् प्राप्नुवन्तु ॥ ६ । १८॥
[हे योद्धः! संग्रामे ते मनो मनसा, प्राणः प्राणेनचसंगच्छताम्। हे वीर! त्वा=त्वां.....यथार्थतया युद्धकर्मणि प्रवृत्त्यैआपः[त्वा] समरिणन्]
Special
दीर्घतमाः । अग्निः=युद्धजन्यक्रोधाग्निः॥ प्राजापत्यानुष्टुप्। गान्धारः। रेडसीत्यस्य दैवीपङ्क्तिः। श्रीणात्वित्स्य आर्ची पंक्तिः। पञ्चमः ॥