Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 17

37 Mantra
6/17
Devata- आपो देवताः Rishi- दीर्घतमा ऋषिः Chhand- निचृत् ब्राह्मी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
इ॒दमा॑पः॒ प्रव॑हताव॒द्यं च॒ मलं॑ च॒ यत्। यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पेऽअ॑भी॒रुण॑म्। आपो॑ मा॒ तस्मा॒देन॑सः॒ पव॑मानश्च मुञ्चतु॥१७॥

इ॒दम्। आ॒पः॒। प्र। व॒ह॒त॒। अ॒व॒द्यम्। च॒ मल॑म्। च॒। यत्। यत्। च॒। अ॒भि॒दु॒द्रोहेत्य॑भिऽदु॒द्रोह॑। अनृ॑तम्। यत्। च॒। शे॒पे। अभी॒रुण॑म्। आपः॑। मा॒। तस्मा॑त्। एन॑सः। पव॑मानः। च॒। मु॒ञ्च॒तु॒ ॥१७॥

Mantra without Swara
इदमापः प्रवहतावद्यञ्च मलञ्च यत् । यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् । आपो मा तस्मादेनसः पवमानश्च मुञ्चतु ॥

इदम्। आपः। प्र। वहत। अवद्यम्। च मलम्। च। यत्। यत्। च। अभिदुद्रोहेत्यभिऽदुद्रोह। अनृतम्। यत्। च। शेपे। अभीरुणम्। आपः। मा। तस्मात्। एनसः। पवमानः। च। मुञ्चतु॥१७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
( इदम्) वक्ष्यमाणम् (आपः) प्राप्नुवन्तीत्यापः (प्र) (वहत) अत्र लडर्थे लोट् (अवद्यम्) निंद्यम् (च) विकारिसमुच्चये (मलम्) अशुद्धिकरम् (यत्) (च) प्रकृतिविरुद्धग्रहणे (यत्) (च) लोकविप्रुष्टसमुच्चये (अभिदुद्रोह) यथाभिद्रुह्यति तथा (अनृतम्) असत्यम् (यत्) (च) परुषवच: समुच्चये (शेपे) आक्रुश्यामि (अभीरुणम्) निर्भयम् (आपः) (मा) माम् (तस्मात्) (एनसः) धर्मविरुद्धाचरणात् (पवमानः) पवित्रीकरो व्यवहारः (च) शुद्धोपदेशसमुच्चये (मुञ्चतु) पृथक् करोतु ।। १७।।
Essence
अत्र वाचकलुप्तोपमालङ्कार उपमालङ्कारश्च॥ विद्वान् जलमिव सांसारिकपदार्थानां शोधको भूत्वा धर्म्यं कर्माचरेत्।
[तस्मात्=पूर्वोक्तादेनसो मा=मां पृथक् रक्षतु, यथा पवमानः [च] मालिन्यान्मां सद्यो दूरी करोतु]
मनुष्यैरीश्वरप्रार्थनया दुष्टाचारात् पृथक् भूत्वा निर्मलेषु विद्यादिग्रहणकर्मसु सदा प्रवर्तितव्यमिति ।। ६ । १७ ।।
Subject
शुद्धेन जलेन कि भावनीयमित्युपदिश्यते॥
Meaning of Anvay
[हे] आपः=सर्वविद्याव्यापिनो विपश्चितः! प्राप्नुवन्तीत्यापः,यूयं यथाऽऽपः शुद्धकरास्तथा मम यदवद्यं=निन्द्यं कर्म निन्द्यं, यच्च विकारि मलम्=अविद्यारूपम् अशुद्धिकरं तदिदं=वक्ष्यमाणं प्र+वहत=अपनयत, च प्रकृतिविरुद्धग्रहणं पुनः यदहमनृतम् असत्यं कं च लोकविप्रष्टं[अभि]+दुद्रोह यथाऽभिद्रह्यति तथा च परुषवचः यत् अभीरुणं=निरपराधिनं पुरुषं निर्भयं शेपे आक्रुश्यामि,तस्मात्=पूर्वोक्तादेनसः धर्मविरुद्धाचरणाद् मा=मां पृथक् रक्षतु, यथा पवमानः पवित्रीकरो व्यवहारः [च] शुद्धोपदेशश्च मालिन्यान्मां सद्यो दूरीकरोतु तथाऽन्यानपि मुञ्चतु=पृथक् करोतु ।। ६ । १७ ।।
[[हे] [आप:=सर्वविद्याव्यापिनो विपश्चितः! यूयं यथाऽऽपः शुद्धिकरास्तथा मम यदवद्यं=निन्द्यं कर्म....प्रवहत=अपनयत]
Meaning of Essence
एनस:=दृष्टाचारात् ॥ पवमानः=निर्मलं विद्यादिग्रहणकर्म।।
Special
दीर्घतमाः। आपः=जलानि॥ निचृद्ब्राह्म्युनुष्टुप्। गान्धारः॥