Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 16

37 Mantra
6/16
Devata- द्यावापृथिव्यौ देवते Rishi- मेधातिथिर्ऋषिः Chhand- निचृत् आर्षी त्रिष्टुप्,ब्राह्मी उष्णिक्, Swara- ऋषभः
Mantra with Swara
रक्ष॑सां भागोऽसि॒ निर॑स्त॒ꣳ रक्ष॑ऽइ॒दम॒हꣳ रक्षो॒ऽभिति॑ष्ठामी॒दम॒हꣳ रक्षोऽव॑बाधऽइ॒दम॒हꣳ रक्षो॑ऽध॒मं तमो॑ नयामि। घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्णु॑वाथां॒ वायो॒ वे स्तो॒काना॑म॒ग्निराज्य॑स्य वेतु॒ स्वाहा॒ स्वाहा॑कृतेऽऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम्॥१६॥

रक्षसा॒म्। भा॑गः॒। अ॒सि॒। निर॑स्त॒मिति॒ निःऽअ॑स्तम्। रक्षः॑ इ॒दम्। अ॒हम्। रक्षः॑। अ॒भि। ति॒ष्ठा॒मि॒। इ॒दम्। अ॒हम्। रक्षः॑। अव॑बा॒धे॒। इ॒दम्। अ॒हम्। रक्षः॑। अ॒ध॒मम्। तमः॑। न॒या॒मि॒। घृ॒तेन॑। द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावापृथिवी। प्र। ऊ॒र्णु॒वा॒था॒म्। वायो॒ऽइति॒ वायो॑। वेः। स्तो॒काना॑म्। अ॒ग्निः। आज्य॑स्य। वे॒तु॒। स्वाहा॑। स्वाहा॑कृत॒ऽइति॒ स्वाहा॑ऽकृते। ऊ॒र्ध्वन॑भस॒मित्यू॒र्ध्वन॑भसम्। मा॒रु॒तम्। ग॒च्छ॒त॒म् ॥१६॥

Mantra without Swara
रक्षसाम्भागो सि निरस्तँ रक्षः इदमहँ रक्षो भि तिष्ठामीदमहँ रक्षो व बाधऽइदमहँ रक्षो धमन्तमो नयामि । घृतेन द्यावापृथिवी प्रोर्णुवाथाँ वायो वे स्तोकानामग्निराज्यस्य वेतु स्वाहा स्वाहाकृते ऊर्ध्वनभसम्मारुतङ्गच्छतम् ॥

रक्षसाम्। भागः। असि। निरस्तमिति निःऽअस्तम्। रक्षः इदम्। अहम्। रक्षः। अभि। तिष्ठामि। इदम्। अहम्। रक्षः। अवबाधे। इदम्। अहम्। रक्षः। अधमम्। तमः। नयामि। घृतेन। द्यावापृथिवी इति द्यावापृथिवी। प्र। ऊर्णुवाथाम्। वायोऽइति वायो। वेः। स्तोकानाम्। अग्निः। आज्यस्य। वेतु। स्वाहा। स्वाहाकृतऽइति स्वाहाऽकृते। ऊर्ध्वनभसमित्यूर्ध्वनभसम्। मारुतम्। गच्छतम्॥१६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(रक्षसाम्) रक्षन्ति परार्थहननेन स्वार्थमिति रक्षांसि तेषाम् (भागः) सेवनीयः (असि) (निरस्तम्) निःसृतम् (रक्षः) सर्वतः स्वार्थरक्षकः परार्थहन्ता (इदम्) (अहम्) (रक्षः) (अभि) सन्मुखे (तिष्ठामि) (इदम्) (अहम्) (रक्षः) रक्षति सर्वतः स्वार्थनिमित्तीभूतं कर्म (अव) अर्वागर्थे (बाधे) नाशयामि (इदम्) (अहम्) (रक्षः) (अधमम्) नीचम् (तमः) अन्धकारम् (नयामि) प्रापयामि (घृतेन) जलेन (द्यावापृथिवी) भूमिप्रकाशौ (प्र) प्रकृष्टार्थे (ऊर्णुवाथाम्) आच्छादयताम् (वायो) वाति =जानाति सूचयति सदसत्पदार्थानिति वा वायुस्तत्संबुद्धौ (वेः) विद्धि। अत्र लोडर्थे लङ् (स्तोकानाम्) स्वल्पानाम्। शेषविवक्षातः कर्मणि षष्ठी (अग्निः) सर्वविद्याप्राप्तो विद्वान् (आज्यस्य) स्नेहद्रव्यस्य (वेतु) (स्वाहा) (स्वाहाकृते) सत्यवाचामुपगते व्यवहारे (ऊर्ध्वनभसम्) ऊर्ध्वं नभो=जलं यस्मात्तम् ( मारुतम्) (गच्छतम्) ॥१६।।
Essence
बुद्धिमन्तः सदसद्विवेचका विद्वांसः शिष्येषु यथायोग्यशिक्षणमनुविदधति।
[त्वद्यज्ञशोधितेन घृतेन द्यावापृथिवी प्रोर्णवाथाम्.....द्यावापृथिव्यौ ऊर्ध्वनभसं=त्वद्यज्ञशोधितजलमूर्ध्वप्रापकं मारुतं गच्छतम्]
यज्ञकर्मणा जलवायुशुद्ध्या वृष्टिर्भवति, वृष्ट्यैव सर्वप्राणिभ्यः सुखं संपद्यते ॥ ६ । १६ ॥
Subject
अथ शिष्यवर्गेषु यथायोग्योपदेशकरणमाह।।
Meaning of Anvay
हे दुष्टकर्मकारिन् ! त्वं रक्षसां रक्षन्ति परार्थहननेन स्वार्थमिति रक्षांसि तेषां भागः सेवनीयो असि, अतो रक्षः सर्वतः स्वार्थरक्षकः पराऽर्थहन्ता निरस्तं निःसृतं भव, अहमिदं रक्षः सर्वतः स्वार्थरक्षकं परार्थहन्तारम् अभि+तिष्ठामि= तिरस्करणाय तत्सम्मुखमुपविशामि, न केवलमभितिष्ठामि, किन्तु अहमिदं रक्षः=दुष्टस्वभाविनं रक्षति सर्वतः स्वार्थनिमित्तीभूतं कर्म अव+बाधे=अर्वाचीनो यथा स्यात्तथा हन्मि अर्वाक्तया नाशयामि। यतो न पुनः सम्मुखो भूयादिति भावः। अहमिदं=रक्षः रक्षति सर्वतः स्वार्थनिमित्तीभूतं कर्म अधमं नीचं तमः अन्धकारंनयामि=दुःसहदुःखं प्रापयामि च।
हे वायो=गुणग्राहकसदसद्विवेचनशील शिष्य! वाति=जानाति सूचयति सदसत्पदार्थानिति वा वायुस्तत्सम्बुद्धौ! त्वं स्तोकानां स्वल्पानां स्तोकान्=सूक्ष्मव्यवहारान् वेः=विद्धि।त्वद्यज्ञशोधितेन घृतेन जलेनद्यावापृथिवीभूमिप्रकाशौ प्र+ऊर्णंवाथाम्=(प्रकृष्टम्) आच्छादयेताम्। अग्नि=समस्तविद्याऽऽपन्नो विद्वान् तवाज्यस्य स्नेहद्रव्यस्य स्नेहद्रव्यं स्वाहा वेतु=जानातु, तथा स्वाहाकृते सत्यवाचामुपगते व्यवहारे पूर्वोक्ते द्यावापृथिव्यौ ऊर्ध्वनभसम्=त्वद्यज्ञशोधितजलमूर्ध्वप्रापकम् ऊर्ध्वं नभो= जलं यस्मात्तंमारुत्तं गच्छतम्॥प्राप्तुम् ॥६ । १६ ॥
[हे वायो=गुणग्राहकसदसद्विवेचनशील शिष्य! त्वं स्तोकानां स्तोकान्=सूक्ष्मव्यवहारान् वेः=विद्धि]
Special
मेधातिथि: । द्यावापृथिव्यौ=भूमिप्रकाशौ॥ब्राह्म्युष्णिक्। ऋषभः॥ घृतेन इत्यस्यापि ब्राह्म्युष्णिक्॥