Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 15

37 Mantra
6/15
Devata- विद्वांसो देवता Rishi- मेधातिथिर्ऋषिः Chhand- स्वराट् धृति, Swara- पञ्चमः
Mantra with Swara
मन॑स्त॒ऽआप्या॑यतां॒ वाक् त॒ऽआप्या॑यतां प्रा॒णस्त॒ऽआप्या॑यतां॒ चक्षु॑स्त॒ऽआप्या॑यता॒ श्रोत्रं॑ त॒ऽआप्या॑यताम्। यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ऽआप्या॑यतां॒ निष्ट्या॑यतां॒ तत्ते॑ शुध्यतु॒ शमहो॑भ्यः। ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ꣳ हिꣳसीः॥१५॥

मनः॑। ते॒। आ। प्या॒य॒ता॒म्। वाक्। ते॒। आ। प्या॒य॒ता॒म्। प्रा॒णः। ते॒। आ। प्या॒य॒ता॒म्। चक्षुः॑। ते॒। आ। प्या॒य॒ता॒म्। श्रोत्र॑म्। ते॒। आ। प्या॒य॒ता॒म्। यत्। ते॒। क्रू॒रम्। यत्। आस्थि॑त॒मित्याऽस्थि॑तम्। तत्। ते॒। आ। प्या॒य॒ता॒म्। निः। स्त्या॒य॒ता॒म्। तत्। ते॒। शु॒ध्य॒तु। शम्। अहो॑भ्य॒ इत्यहः॑ऽभ्यः। ओष॑धे। त्राय॑स्व। स्वधि॑त॒ इति॒ स्वऽधि॑ते। मा। ए॒न॒म्। हि॒ꣳसीः॒ ॥१५॥

Mantra without Swara
मनस्तऽआप्यायताँवाक्त आप्यायताम्प्राणस्त आप्यायताञ्चक्षुस्त आप्यायताँश्रोत्रन्त आ प्यायताम् । यत्ते क्रूरँ यदास्थितन्तत्त आप्यायतान्निष्प्यायतान्तत्ते शुध्यतु शमहोभ्यः । ओषधे त्रायस्व स्वधिते मैनँ हिँसीः ॥

मनः। ते। आ। प्यायताम्। वाक्। ते। आ। प्यायताम्। प्राणः। ते। आ। प्यायताम्। चक्षुः। ते। आ। प्यायताम्। श्रोत्रम्। ते। आ। प्यायताम्। यत्। ते। क्रूरम्। यत्। आस्थितमित्याऽस्थितम्। तत्। ते। आ। प्यायताम्। निः। स्त्यायताम्। तत्। ते। शुध्यतु। शम्। अहोभ्य इत्यहःऽभ्यः। ओषधे। त्रायस्व। स्वधित इति स्वऽधिते। मा। एनम्। हिꣳसीः॥१५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मनः) संकल्पविकल्पात्मकम् (ते) तव (आ) (प्यायताम्) सत्कर्म्मानुष्ठानेन वर्द्धताम् (वाक्) (ते) (आ) (प्यायताम्) (प्राण:) (ते) (आ) (प्यायताम्) (चक्षुः) (ते) (आ) (प्यायताम्) (श्रोत्रम्) (ते) (आ) (प्यायताम्) (यत्) (ते) तव (क्रूरम् ) दुश्चरित्रम् (यत्) (आस्थितम्) निश्चितम् (तत्) (ते) (आ) (प्यायताम्) (निः) पृथगर्थे (प्यायताम्) संहन्यताम् (तत्) (ते) (शुध्यतु ) (शम्) सुखम् (अहोभ्यः) कालविशेषेभ्य: (ओषधे) ओषो=विज्ञानं धीयते यस्मिँस्तत्संबुद्धो। अत्र ओष गतावित्यस्माद् गतिरत्र विज्ञानं गृह्यते (त्रायस्व) (स्वधिते) स्वेष्वात्मीयेषु धितिः=पोषणं यस्यास्तत्संबुद्धौ (मा) निषेधे (एनम्) पूर्वोक्तम् (हिंसीः) कुशिक्षया, लालनेन वा मा विनाशये:।। १५।।
Essence
सत्कर्मानुष्ठानेन सर्वस्योन्नतिर्भवत्यतः सर्वैर्मनुष्यैर्गुरुशिक्षया समस्तसत्कर्मानुष्ठेयम्। गुरवो गुणग्रहणायैव शिष्याणां ताडनं विदधति, ततस्तेषामिदमभ्युदयनिःश्रेयसकारि जायत एवेति बोध्यम् । दम्पती परस्परमेवमुपदिशेताम्--
[अथ स्वस्वामिनि शिष्यलालनपरं गुरुपत्नी वाक्यम्--हे ओषधे=विज्ञानवराऽध्यापक! त्वमेनंशिष्यं त्रायस्व मा हिंसी:]
हे पते ! भवानयं शिष्यो यथा सद्यो विद्वान् स्यात्तथा प्रयतताम् ।
[स च स्वपत्नीं प्रत्याह--हे स्वधिते=अध्यापिकेस्त्रि! त्वमेनां त्रायस्व, मा हिंसी:]
हे धर्मपत्नि! भवती यथेयं कन्या तूर्णं विदुषी भवेत्तथा विदधातु ॥ ६। १५।।
Subject
पुनरुक्तोर्थः प्रकारान्तरेण प्रकाश्यते ।।
Meaning of Anvay
हे शिष्य! मदीयशिक्षणेन ते=तव मनः संकल्पविकल्पाऽऽत्मकम् आ+प्यायतां सत्कर्माऽनुष्ठानेन वर्द्धताम्, ते तव वाग्आ+प्यायताम् सत्कर्माऽनुष्ठानेन वर्द्धताम् ते तव प्राणःआ+प्यायतां सत्कर्मानुष्ठानेन वर्द्धताम्,ते तव चक्षुः आ+प्यायतां सत्कर्माऽनुष्ठानेन वर्द्धताम्, ते तव श्रोत्रम् आ+प्यायतां सत्कर्म्माऽनुष्ठानेन वर्द्धताम्, ते तव यत् क्रूरं=दुश्चरित्रं तत् निष्+ट्पायतां=दूरीगच्छतु पृथक्तया संहन्यताम्,यत् ते=तव आस्थितं=निश्चितं तद् आ+प्यायतां सत्कर्मानुष्ठानेन वर्धताम्, इत्थं ते तव सर्वं शुद्धयतु, अहोभ्यः=दिनेभ्यः कालविशेषेभ्यः तुभ्यं शं सुखम् अस्तु।
अथ स्वस्वामिनि शिष्यलालनापरं गुरुपत्नीवाक्यम् हे ओषधे=विज्ञानवराऽध्यापक! ओषो=विज्ञानं धीयते यस्मिँस्तत्सम्बुद्धौ! त्वमेनं पूर्वोक्तं शिष्यं त्रायस्व, मान हिंसीः कुशिक्षया, लालनेन वा विनाशयेः।
सच स्वपत्नीं प्रत्याह हे स्वधिते=अध्यापिके स्त्रि! स्वेष्वात्मीयेषु धितिः=पोषणं यस्यास्तत्सम्बुद्धौ। त्वमेनां पूर्वोक्तां त्रायस्व, मा हिंसी: कुशिक्षया लालनेन वा मा विनाशयेः ।। ६ । १५ ।।
[हे शिष्य! मदीयशिक्षणेन ते=तव मनः, वाक्, प्राणः,चक्षुः, श्रोत्रम् आप्यायताम्, ते यत् क्रूरं=दुश्चरित्रंतन्निष्ट्यायताम्=दूरी गच्छतु]
Special
मेधातिथि: । विद्वांसो=स्पष्टम्।।भुरिगार्ची त्रिष्टुप्। यत्ते इत्यस्य आर्षी त्रिष्टुप्। धैवतः।