Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 14

37 Mantra
6/14
Devata- विद्वांसो देवता Rishi- मेधातिथिर्ऋषिः Chhand- भूरिक् आर्षी जगती, Swara- निषादः
Mantra with Swara
वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षुस्॑ते शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि॒ नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्राँ॑स्ते शुन्धामि॥१४॥

वाच॑म्। ते॒। शु॒न्धा॒मि॒। प्रा॒णम्। ते॒। शु॒न्धा॒मि॒। चक्षुः॑। ते॒। शु॒न्धा॒मि॒। श्रोत्र॑म्। ते॒। शु॒न्धा॒मि॒। नाभि॑म्। ते॒। शु॒न्धा॒मि॒। मेढ्र॑म्। ते॒। शु॒न्धा॒मि॒। पा॒युम्। ते॒। शु॒न्धा॒मि॒। च॒रित्रा॑न्। ते॒। शु॒न्धा॒मि॒ ॥१४॥

Mantra without Swara
वाचन्ते शुन्धामि प्राणन्ते शुन्धामि चक्षुस्ते शुन्धामि श्रोत्रन्ते शुन्धामि नाभिन्ते शुन्धामि मेढ्र्रन्ते शुन्धामि पायुन्ते शुन्धामि चरित्राँस्ते शुन्धामि ॥

वाचम्। ते। शुन्धामि। प्राणम्। ते। शुन्धामि। चक्षुः। ते। शुन्धामि। श्रोत्रम्। ते। शुन्धामि। नाभिम्। ते। शुन्धामि। मेढ्रम्। ते। शुन्धामि। पायुम्। ते। शुन्धामि। चरित्रान्। ते। शुन्धामि॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वाचम्) वक्त्यनया तां वाणीम् (ते) तव (शुन्धामि) निर्मलीकरोमि (प्राणम्) प्राणिति येन तं जीवनहेतुम् (ते) (शुन्धामि ) (चक्षुः) चष्टेऽनेन तन्नेत्रम् (ते) (शुन्धामि) (श्रोत्रम्) शृणोति येन तत् (ते) (शुन्धामि) (नाभिम्) नह्यते=बध्यते यथा ताम् (ते) (शुन्धामि) (मेढ्रम्) मेहत्यनेन तदुपस्थेन्द्रियम् (ते) (शुन्धामि) (पायुम्) पात्यनेन तं गुह्येन्द्रियम् (ते) (शुन्धामि) (चरित्रान्) व्यवहारान् (ते) (शुन्धामि)॥अयं मंत्र: शत० ३।८।२।६ व्याख्यातः॥ १४॥
Essence
गुरुभिर्गुरूपत्नीभिश्च वेदोपवेदवेदाङ्गोपाङ्गशिक्षया देहेन्द्रियान्तःकरणात्मनःशुद्धिशरीरपुष्टिप्राणसन्तुष्टीः प्रदाय, सर्वे कुमारा: सर्वा: कन्याश्च सद्गुणेषु प्रवर्त्तयितव्या इति ।।६ । १४।।
Subject
अथ कथं ना गुरुपत्न्यो गुत्वश्च यथायोग्यशिक्षया स्वस्वान्तेवासिनः सद्गुणेषु प्रकाशयन्तीत्युपदिश्यते॥
Meaning of Anvay
हे शिष्य ! विविधशिक्षाभिस्ते तव अहं वाचं वक्त्यनया तां वाणीं शुन्धामि निर्मलीकरोमि,ते तव प्राणं प्राणिति येन तं जीवनहेतुंशुन्धामि निर्मलीकरोमि,ते तव चक्षुः चष्टेऽनेन तन्नेत्रं शुन्धामि निर्मलीकरोमि,ते तव श्रोत्रं शृणोति येन तत् शुन्धामि निर्मलीकरोमि, ते तव नाभिं नह्यते=बध्यते यथा तां शुन्धामि निर्मलीकरोमि, ते तव मेढ्रं मेहत्यनेन तदुपस्थेन्द्रियं शुन्धामि निर्मलीकरोमि,ते तव पायुं पात्यनेन तं गुह्येन्द्रियं शुन्धामि निर्मलीकरोमि,ते तव चरित्रान् व्यवहारान् शुन्धामि निर्मलीकरोमि ॥ ६ । १४।।
[हे शिष्य! विविधशिक्षाभिस्तेऽहं वाचं, प्राणं, चक्षुः, श्रोत्रं, नाभिं, मेढ्रं, पायुं, चरित्रान् शुन्धामि]
Special
मेधातिथि:। विद्वांसः=स्पष्टम् ॥ भुरिगार्षी जगती। निषादः ॥