Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 13

37 Mantra
6/13
Devata- आपो देवताः Rishi- मेधातिथिर्ऋषिः Chhand- निचृत् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
देवी॑रापः शु॒द्धा वो॑ढ्व॒ꣳ सुप॑रिविष्टा दे॒वषु॒ सुप॑रिविष्टा व॒यं प॑रि॒वे॒ष्टारो॑ भूयास्म॥१३॥

देवीः॑। आ॒पः॒। शु॒द्धाः। वो॒ढ्व॒म्। सुप॑रिविष्टा॒ इति॑ सुऽप॑रिविष्टाः॒। दे॒वेषु॑। सुप॑रिविष्टा॒ इति॒ सुऽप॑रिविष्टाः॒। व॒यम्। प॒रि॒वे॒ष्टार॒ इति॑ परिऽवे॒ष्टारः॑। भू॒या॒स्म॒ ॥१३॥

Mantra without Swara
देवीरापः शुद्धा वोढ्वँ सुपरिविष्टा देवेषु सुपरिविष्टा वयम्परिवेष्टारो भूयास्म ॥

देवीः। आपः। शुद्धाः। वोढ्वम्। सुपरिविष्टा इति सुऽपरिविष्टाः। देवेषु। सुपरिविष्टा इति सुऽपरिविष्टाः। वयम्। परिवेष्टार इति परिऽवेष्टारः। भूयास्म॥१३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवीः) सद्विद्याप्रकाशवत्यः (आप) आप्तवन्ति सद्गुणान् यास्ता: (शुद्धाः) सत्कर्म्मानुष्ठानपूताः (वोड्ढवम्) स्वयंवरविवाहविधिं प्राप्नुत। अत्र वह प्रापण इत्यस्माल्लोटि मध्यमबहुवचने। 'बहुलं छन्दसि' इति शपो लुकि कृते, 'सहिवहोरोदवर्णस्य॥ अ० ६ । ३ । ११२॥इत्यनेनौकारः अत्र वर्त्तमाने लोट्। (सुपरिविष्टाः) तत्तत्सेवासन्मुख्य एव। (देवेषु) सद्विद्यादिदिव्यगुणेषु विद्वत्सु (सुपरिविष्टाः) तथा भूता एव (वयम्) (परिवेष्टार:) परितो व्याप्ताः (भूयास्म)॥ अत्र मन्त्रः शत० ३। ८। २। ३ व्याख्यातः ॥ १३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ यथा विदुष्यो विदुषां स्त्रियः पातिव्रत्यधर्मतत्परा भवन्ति, तथा ब्रह्मचारिण्यः कन्यास्तद्गुणस्वभावा भवेयुर्ब्रह्मचारिण्यो गुरुजनस्वभावाः स्युः, यतः सुशिक्षया स्त्रीपुत्रादिरक्षणशीला भवेयुरिति ।। ६ । १३ ।।
Subject
अथ वटुभिर्ब्रह्मचारिणीभिश्च गुरुपत्न्यः कथं सम्माननीया इत्युपदिश्यते॥
Meaning of Anvay
हे कुमार्यः। यथाऽप:=सद्गुणेषु व्याप्ताः प्राप्नुवन्ति सद्गुणान् यास्ताः, शुद्धाः सत्कर्माऽनुष्ठानपूताः, देवीः=विदुष्य: सत्स्त्रियः सद्विद्याप्रकाशवत्यो, देवेषु=सद्विद्यादिदिव्यगुणेषु विद्वत्सु स्वपतिषु सद्विद्यादिदिव्यगुणेषु विद्वत्सु सुपरिविष्टाः तत्तत्सेवासम्मुख्य एव,कृतब्रह्मचर्य्या: स्वसमान्वरान् स्वीकृतवत्यो; यथा च ते विद्वांसस्ता विदुषी: प्राप्तास्तथा यूयं स्त्रीभावेनाऽस्मान् [वोड्ढवम्]=प्राप्नुत, स्वयंवरविवाहविधिं प्राप्नुत। एवं [सुपरिविष्टाः] तथा भूता एव वयमपि परिवेष्टारः परितो व्याप्ताः भूयास्म ।। ६ । १३।।
[हे कुमार्यः! यथा......देवीः=विदुष्यः सस्त्रियो देवेषु=.....विद्वत्सु सुपरिविष्टाः कृतब्रह्मचर्याः स्वसमान्वरान् स्वीकृतवत्यो, यथा च ते विद्वांसस्ता विदुषीःप्राप्तास्तथा यूयं स्त्रीभावेनास्मान् [वोड्ढवम्]प्राप्नुत, एवं [सुपरिविष्टाः] वयमपि परिवेष्टारो भूयास्म]
Special
मेधातिथिः। आपः=सद्गुणेषु व्याप्ताः स्त्रियः॥ निचृदार्ष्यनुष्टुप्। गान्धारः॥