Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 12

37 Mantra
6/12
Devata- विद्वांसो देवता Rishi- मेधातिथिर्ऋषिः Chhand- भूरिक् प्राजापत्या अनुष्टुप्,साम्नी उष्णिक्, Swara- गान्धारः
Mantra with Swara
माहि॑र्भू॒र्मा पृदा॑कु॒र्नम॑स्तऽआतानान॒र्वा प्रेहि॑। घृ॒तस्य॑ कु॒ल्याऽउप॑ऽऋ॒तस्य॒ पथ्या॒ऽअनु॑॥१२॥

मा। अहिः॑। भूः॒। मा। पृदा॑कुः। नमः॑। ते॒। आ॒ता॒नेतेत्या॑ऽतान। अ॒न॒र्वा। प्र। इ॒हि॒। घृ॒तस्य॑। कु॒ल्याः। उप॑। ऋ॒तस्य॑। पथ्याः॑। अनु॑ ॥१२॥

Mantra without Swara
माहिर्भूर्मा पृदाकुर्नमस्तऽआतानानर्वा प्रेहि । घृतस्य कुल्याऽउप ऋतस्य पथ्याऽअनु ॥

मा। अहिः। भूः। मा। पृदाकुः। नमः। ते। आतानेतेत्याऽतान। अनर्वा। प्र। इहि। घृतस्य। कुल्याः। उप। ऋतस्य। पथ्याः। अनु॥१२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मा) निषेधे (अहिः) सर्पवत् (भूः) भवे:। अत्र लिङर्थे लुङ् (पृदाकु:) मूढवदभिमानी व्याधवद्वा हिंसकः (नमः) अन्नम् । नम इत्यन्ननामसु पठितम् ॥ निघं० २ । ७ ॥ (ते) तुभ्यम् (आतान) समन्तात्सुखं तनित: (अनर्वा) अश्वहीनः। अर्वेत्यश्वनामसु पठितम् ॥ निघं० १ । १४ ॥ (प्र) प्रकृष्टार्थे (इहि) गच्छ (घृतस्य) उदकस्य (कुल्या:) घृतधारा: (उप) (ॠतस्य) सत्यस्य (पथ्याः) वीथी: (अनु) अयं मन्त्रः शत० ३ । ८।२।१-३ व्याख्यातः।। १२।।
Essence
केनापि मनुष्येण धर्म-मार्गे कुटिलमार्गगामिसर्पादिवत् कुटिलाचरणेन न भवितव्यं, किन्तु—सर्वदा सरलभावेनैव भवितव्यम् ।। ६ । १२।।
Subject
स विद्वान् कीदृग्भवेदित्युपदिश्यते॥
Meaning of Anvay
हे आतान! समन्तात् सुखं तनितः! त्वमहिः सर्पवत् मा न भूः भवे:। पृदाकु: मूढवदभिमानी व्याधवद्वा हिंसको मान भूः भवेः।ते=तुभ्यं नमः अन्नम् अस्तु,सर्वत्र त्वत्सुखायाऽन्नादि पदार्थः पुरत एव वर्त्तत इति भावः।
अनर्वा अश्वहीनो घृतस्य उदकस्य कुल्याः घृतधारा इव ऋतस्य सत्यस्य पथ्याः वीथी: [अनु]प्र+उप+इहि प्रकृष्टतया गच्छ।।६ । १२ ।।
[हे आतान! त्वमहिर्मा भूः, पृदाकुर्मा भूः।.....धृतस्य कुल्या इवर्तस्य पथ्या [अनु] प्र+उप+इहि]
Special
मेधातिथिः। विद्वांसः=स्पष्टम्॥ भुरिक् प्राजापत्यानुष्टुप्। गान्धारः। घृतस्येत्यस्य भुरिगासुर्यनुष्टुप्।।