Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 11

37 Mantra
6/11
Devata- वातो देवता Rishi- मेधातिथिर्ऋषिः Chhand- स्वराट् प्राजापत्या बृहती,भूरिक् आर्षी उष्णिक्,निचृत् गायत्री, Swara- ऋषभः
Mantra with Swara
घृ॒तेना॒क्तौ प॒शूँस्त्रा॑येथा॒ रेव॑ति॒ यज॑माने प्रि॒यं धाऽआवि॑श। उ॒रोर॒न्तरि॑क्षात् स॒जूर्दे॒वेन॒ वाते॑ना॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा भव। वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः॒ स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑॥११॥

घृ॒तेन॑। अ॒क्तौ। प॒शून्। त्रा॒ये॒था॒म्। रेव॑ति। यज॑माने। प्रि॒यम्। धाः॒। आ। वि॒श॒। उ॒रोः। अ॒न्तरि॑क्षात्। स॒जूरिति॑ स॒ऽजूः। दे॒वेन॑। वाते॑न। अ॒स्य। ह॒विषः॑। त्मना॑। य॒ज॒। सम्। अ॒स्य॒। त॒न्वा᳖। भ॒व॒। वर्षो॒ऽइति॒ वर्षो॒। वर्षीय॑सि। य॒ज्ञे। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। धाः॒। स्वाहा॑। दे॒वेभ्यः॑। दे॒वेभ्यः॑। स्वाहा॑ ॥११॥

Mantra without Swara
घृतेनाक्तौ पशूँस्त्रायेथाँ रेवति यजमाने प्रियन्धाऽआविश । उरोरन्तरिक्षात्सजूर्देवेन वातेनास्य हविषस्त्मना यज समस्य तन्वा भव । वर्षा वर्षीयसि यज्ञे यज्ञप्तिन्धाः स्वाहा देवेभ्यो देवेभ्यः स्वाहा ॥

घृतेन। अक्तौ। पशून्। त्रायेथाम्। रेवति। यजमाने। प्रियम्। धाः। आ। विश। उरोः। अन्तरिक्षात्। सजूरिति सऽजूः। देवेन। वातेन। अस्य। हविषः। त्मना। यज। सम्। अस्य। तन्वा। भव। वर्षोऽइति वर्षो। वर्षीयसि। यज्ञे। यज्ञपतिमिति यज्ञऽपतिम्। धाः। स्वाहा। देवेभ्यः। देवेभ्यः। स्वाहा॥११॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(घृतेन) (अक्तौ) घृतेनासक्तचित्तौ यज्ञकर्त्ता यज्ञकारयिता च (पशून्) गवादीन् (त्रायेथाम्) रक्षेताम् (रेवति) प्रशस्तैश्वर्ययुक्ते (यजमाने) यज्ञानुष्ठातरि (प्रियम्) प्रसन्नतासम्पादि सुखम् (धाः) धेहि। अत्र लोडर्थे लुङ् अडभावश्च (आ) समन्तात् (विश) (उरोः) बहोः (अन्तरिक्षात्) (सजूः) मित्रमिव (देवेन) सर्वगतेन (वातेन) वायुना सह (अस्य) (हविषः) होतव्यस्य।कर्मणि षष्ठी (त्मना) आत्मना (यज) संगच्छस्व=एकीभव (सम्) (अस्य) (तन्वा) (भव) (वर्षो) यज्ञकर्म्मणा सर्वसुखसेचक! (वर्षीयसि) सर्वसुखमभिवर्षति [यज्ञे] (यज्ञपतिम्) यज्ञपालकम् (धाः) धेहि (स्वाहा) सत्कृत्यानुकूलाम् (देवेभ्यः) दीव्यन्ति=प्रकाशन्ते सत्कर्म्मानुष्ठानेन ये तेभ्यो धर्मिष्ठेभ्यो विद्वद्भयः (देवेभ्यः) शुभेभ्यो गुणेभ्यः (स्वाहा) सत्कृत्यनुरूपाम् ॥ अयं मंत्र: शत० ३।८।१।५-१६ व्याख्यातः ॥ ११।।
Essence
यज्ञार्थं घृतादिमभीप्सुभिर्मनुष्यैः पशवो रक्षणीया, घृतादिसद्द्रव्येणाग्निहोत्रादियज्ञान् संपाद्य तैर्जलवायू संशोध्य सर्वेषां प्राणिनामभीष्टं संसाध्यम्।। ६ । ११।।
Subject
अथ यज्ञकर्तृकारयित्रोः कर्त्तव्यमुपदिश्यते।।
Meaning of Anvay
हे यज्ञकर्तृकारयितारौ! घृतेनाक्तौ=घृतमनस्कौ घृतेनाऽऽसक्तचितौ यज्ञकर्त्ता यज्ञकारयिता च युवां पशून् गवादीन् त्रायेथांरक्षेताम्। त्वमेकैकोदेवेन सर्वगतेन वातेन वायुना सह सजूः मित्रमिव उरोः वहोः अन्तरिक्षात् प्रियं= प्रेमोत्पादकं सुखं प्रसन्नतासंपादि सुखं रेवति प्रशस्तैवर्य्ययुक्तेयजमाने यज्ञाऽनुष्ठातरि धाः धेहि आ+विश=तत्स्वान्तवृत्तिमाप्नुहि समन्ताद् विश।अस्य हविषः होतव्यस्य त्मना=आत्मना यज संगच्छस्व=एकीभव। अस्य तन्वा सम्+भव=एकीभव न द्वैधमाचर।
हे वर्षो यज्ञकर्मणा सर्वसुखसेचक! त्वं देवेभ्यः दीव्यन्ति=प्रकाशन्ते सत्कर्माऽनुष्ठानेन ये तेभ्यो धर्मिष्ठेभ्यो विद्वद्भयः स्वाहा सत्कृत्यनुकूलां देवेभ्यः शुभेभ्यो गुणेभ्यः स्वाहा सत्कृत्यनुरूपां तद्यज्ञंदिदृक्षुभ्यः पुनः पुनरागतेभ्यो विद्वद्भ्योऽसकृत् सत्कृत्यनुरूपां वाचमुदीरयन् वर्षीयसि सर्वसुखमभिवर्षति यज्ञे यज्ञपतिं यज्ञपालकंधाःधेहि ।। ६ । ११ ।।
[हे यज्ञकर्तृ कारयितारौ!...युवां पशून् त्रायेथाम्, त्वमेकैको देवेन वातेन.....प्रियम्=प्रेमोत्पादकं सुखं........यजमाने धाः]
Special
मेधातिथिः। वातः=वायुः। भुरिगार्च्युष्णिक्। ऋषभः। उरोरित्यस्य भुरिगार्ष्युष्णिक्। वर्षो इत्यस्य स्वराडार्च्युष्णिक्। ऋषभः।।