Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 6 / Mantra 10

37 Mantra
6/10
Devata- आपो देवता Rishi- मेधातिथिर्ऋषिः Chhand- प्राजापत्या बृहती,भूरिक् आर्षी गायत्री Swara- मध्यमः
Mantra with Swara
अ॒पां पे॒रुर॒स्यापो॑ दे॒वीः स्व॑दन्तु स्वा॒त्तं चि॒त्सद्दे॑वह॒विः। सं ते॑ प्रा॒णो वाते॑न गच्छता॒ꣳ समङ्गा॑नि॒ यज॑त्रैः॒ सं य॒ज्ञप॑तिरा॒शिषा॑॥१०॥

अ॒पाम्। पे॒रुः। अ॒सि॒। आपः॑। दे॒वीः। स्व॒द॒न्तु॒। स्वा॒त्तम्। चि॒त्। सत्। दे॒व॒ह॒विरिति॑ देवऽह॒विः। सम्। ते॒। प्रा॒णः। वाते॑न। ग॒च्छ॒ता॒म्। अङ्गा॑नि। यज॑त्रैः। यज्ञप॑तिरिति॑ य॒ज्ञऽपतिः। आ॒शिषेत्या॒ऽशिषा॑ ॥१०॥

Mantra without Swara
अपाम्पेरुरस्यापो देवीः स्वदन्तु स्वात्तञ्चित्सद्देवहविः । सन्ते प्राणो वातेन गच्छताँ समङ्गानि यजत्रैः सँयज्ञपतिराशिषा ॥

अपाम्। पेरुः। असि। आपः। देवीः। स्वदन्तु। स्वात्तम्। चित्। सत्। देवहविरिति देवऽहविः। सम्। ते। प्राणः। वातेन। गच्छताम्। अङ्गानि। यजत्रैः। यज्ञपतिरिति यज्ञऽपतिः। आशिषेत्याऽशिषा॥१०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अपाम्) जलानाम् (पेरुः) रक्षकः (असि) (आपः) (देवीः) शुद्धा दिव्यसुखप्रदाः (स्वदन्तु) (स्वात्तम्) स्वेन समन्तात् गृहीतम् (चित्) अपि (सत्) (देवहविः) देवेभ्यो हविरिव (सम्) (ते) तव (प्राण:) (वातेन) पवनेन सह (गच्छताम्) (अङ्गानि) शिर आदीनि (यजत्रै:) यज्ञसाधकैर्विद्वद्भिः सह (यज्ञपतिः) यज्ञस्य पालकः (आशिषा) अयं मंत्र: शत० ३ । ७ । ४ । ६-९ व्याख्यातः ।। १०।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ या यज्ञे प्रास्ताहुतयस्ता आदित्यमुपतिष्ठन्ते, आदित्याकर्षणशक्त्या पृथिवीजलाकर्षणेन वृष्टिर्भवति, ततोऽन्नमन्नाद् भूतानीति परम्परसम्बन्धेन यज्ञशोधिता अपो, हुतद्रव्यं च सर्वे जीवा भुञ्जते ।। ६ । १०।।
Subject
अथोपनीतेन शिष्येण विद्यासुशिक्षाग्रहणाग्निहोत्रादियज्ञोऽवश्यमनुष्ठातव्य इति गुरूरुपदिशेत्।।
Meaning of Anvay
हे शिष्य ! त्वमपां जलानां पेरुः रक्षकः असि । संसारस्थाः प्राणिनस्त्वद्यज्ञशोधिता देवीः शुद्धाः दिव्यसुखप्रदाः आपश्चित् अपि स्वात्तं=धर्माऽनुष्ठानस्वीकृतं स्वेन समन्ताद् गृहीतं [सद्] देवहविः देवेभ्यो हविरिव इव सं+स्वदन्तु।
मदाशिषा [ते]=तव अङ्गानि शिर आदीनि यजत्रैः यज्ञसाधकैर्विद्वद्भिः (सह) सह [सम्]गच्छन्ताम्, प्राणो वातेन पवनेन सह सं+गच्छन्ताम्। त्वं यज्ञपतिः यज्ञस्य पालको भव ।। १० ।।
[हे शिष्य! त्वमपां पेरुरसि, संसारस्था: प्राणिनस्त्त्वद्यज्ञसंशोधिता देवीरपश्चित् स्वात्तं=धर्मानुष्ठानस्वीकृतं देवहतिरिव सं- स्वदन्ताम्]
Special
मेधातिथि:। आपः=जलानि॥ प्राजापत्या बृहती। मध्यमः। सन्त इत्यस्य विराडार्ची बृहती। मध्यमः।।