Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 8

43 Mantra
5/8
Devata- अग्निर्देवता Rishi- गोतम ऋषिः Chhand- विराट् आर्षी बृहती,निचृत् आर्षी बृहती, Swara- मध्यमः
Mantra with Swara
या ते॑ऽअग्नेऽयःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा। उ॒ग्रं वचो॒ऽअपा॑वधीत्त्वे॒षं वचो॒ऽअपा॑वधी॒त् स्वाहा॑। या ते॑ऽअग्ने रजःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा। उ॒ग्रं वचो॒ऽअपा॑वधीत्त्वे॒षं वचो॒ऽअपा॑वधी॒त् स्वाहा॑। या ते॑ऽअग्ने हरिश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा। उ॒ग्रं वचो॒ऽअपा॑वधीत्त्वे॒षं वचो॒ऽअपा॑वधी॒त् स्वाहा॑॥८॥

या। ते॒। अ॒ग्ने॒। अ॒यःशये॒त्य॑यःऽश॒या। त॒नूः। वर्षि॑ष्ठा। ग॒ह्व॒रे॒ष्ठा। ग॒ह्व॒रे॒स्थेति॑ गह्वरे॒ऽस्था। उ॒ग्रम्। वचः॑। अप॑। अ॒व॒धी॒त्। त्वे॒षम्। वचः॑। अप॑। अ॒व॒ऽधी॒त्। स्वाहा॑। या। ते॒। अ॒ग्ने॒। र॒जः॒श॒येति॑ रजःश॒या। त॒नूः। वर्षि॑ष्ठा। ग॒ह्व॒रे॒ष्ठा। ग॒ह्व॒रे॒स्थेति॑ गह्वरे॒ऽस्था। उ॒ग्रम्। वचः॑। अप॑। अ॒व॒धी॒त्। त्वे॒षम्। वचः॑। अप॑। अ॒व॒धी॒त्। स्वाहा॑ ॥८॥

Mantra without Swara
या तेऽअग्ने यःशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रँ वचो अपावधीत्त्वेषँ वचो अपावधीत्स्वाहा । या ते अग्ने रजः शया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रँ वचो अपावधीत्त्वेषँ वचो अपावधीत्स्वाहा । या ते अग्ने हरिशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रँ वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहा ॥

या। ते। अग्ने। अयःशयेत्ययःऽशया। तनूः। वर्षिष्ठा। गह्वरेष्ठा। गह्वरेस्थेति गह्वरेऽस्था। उग्रम्। वचः। अप। अवधीत्। त्वेषम्। वचः। अप। अवऽधीत्। स्वाहा। या। ते। अग्ने। रजःशयेति रजःशया। तनूः। वर्षिष्ठा। गह्वरेष्ठा। गह्वरेस्थेति गह्वरेऽस्था। उग्रम्। वचः। अप। अवधीत्। त्वेषम्। वचः। अप। अवधीत्। स्वाहा॥८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(या) वक्ष्यमाणा (ते) अस्याः (अग्ने) विद्युतः (अयःशया) याऽयस्सु=सुवर्णादिषु शेते सा। अय इति हिरण्यनामसु पठितम् ॥ निघं० १। २ ॥ (तनूः) व्याप्तं=विस्तृतं शरीरम् (वर्षिष्ठा) अतिशयेन वृद्धा (गह्वरेष्ठा) गह्वरे=गहने गभीर आभ्यन्तरे तिष्ठतीति (उग्रम्) क्रूरं=भयङ्करम् (वचः) वचनम् (अप) व्यपेत्येतस्य प्रातिलोम्यम् ॥ निरु० १। ३॥(अवधीत्) हन्ति। अत्र सर्वत्र लडर्थे लुङ् (त्वेषम्) प्रदीप्तम् (वचः) परिभाषणम् (अप) पृथक्करणे (अवधीत्) हन्ति (स्वाहा) सुहुतं हविरन्नम् (या) (ते) (अग्ने) (रजःशया) या रजःसु=सूर्य्यादिलोकेषु शेते सा (तनूः) व्याप्तिः (वर्षिष्ठा) (गह्वरेष्ठा) (उग्रम्) दुःसहम् (वचः) परिभाषणम् (अप) पृथक्करणे (अवधीत्) (त्वेषम्) प्रकाशितम् (वचः) वचनम् (अप) पृथक्ककरणे (अवधीत्) हन्ति (स्वाहा) सुहुतां वाचम् (या) (ते) (अग्ने) इत्युक्तार्थ: (हरिशया) हरिषु=सूर्यादिष्वश्वादिषु वा शेते सा (तनूः) (वर्षिष्ठा) (गह्वरेष्ठा) इत्युक्तार्थः (उग्रं) तीव्रम् (वचः) वचनम् (अप) (अवधीत्) (त्वेषम्) प्रकाशकम् (वचः) शब्दनम् (अप) (अवधीत्) (स्वाहा) स्वा= स्वकीया वागाहेति ॥ अयं मंत्र: शत० ३ । ४ । ४ । २३-२५ व्याख्यातः ॥ ८ ॥
Essence
मनुष्यैर्विद्युतो या व्याप्तिर्मूर्त्तामूर्त्तद्रव्यस्था वर्त्तते तां युक्त्या सम्यक् विदित्वोपसंप्रयुज्य सर्वाणि दुःखान्यपहन्तव्यानि ॥५। ८ ॥
Subject
पुनः सा विद्युत् कीदृशीत्युपदिश्यते॥
Meaning of Anvay
हे मनुष्या: ! यूयं या वक्ष्यमाणा तेऽग्ने=अस्या विद्युतो वर्षिष्ठा अतिशयेन वृद्धा गह्वरेष्ठा गह्वरे=गहने गभीर आभ्यन्तरे तिष्ठतीति [अयःशया] या अयस्सु=सुवर्णादिषु शेते सा तनूः व्याप्तं=विस्तृतं शरीरम् उग्रं क्रूरं भयङ्करं वचः वचनम् अपावधीत्= अपहन्ति, त्वेषं प्रदीप्तं वचः परिभाषणं स्वाहा=सुहुतं हविरन्नं चापावधीत्अपहन्ति।
या वक्ष्यमाणा तेऽग्ने=अस्या विद्युतो वर्षिष्ठा अतिशयेन वृद्धा गह्वरेष्ठा गह्वरे=गहने गभीर आभ्यन्तरे तिष्ठतीति रजःशया या रजःसु=सूर्यादिलोकेषु शेते सा तनूः व्याप्तिः उग्रं दुःसहम् वचः परिभाषणम् अपावधीत् अपहन्ति त्वेषं प्रकाशितंवचः वचनं स्वाहा=सुहुतां वाचं चापावधीत्=हन्तिया वक्ष्यमाणा तेऽग्ने=अस्याविद्युतो वार्षिष्ठा अतिशयेन वृद्धा गह्वरेष्ठा गह्वरे=गहने गभीर अभ्यन्तरे तिष्ठन्तीति हरिशया हरिषु=सूर्यादिष्वश्यादिषु वा शेते सा तनूः व्याप्तिः उग्रं तीव्रंवचः वचनम् अपावधीत्अपहन्ति,त्वेषं प्रकाशकंवचः शब्दनं स्वाहा=स्वां वाचं स्वा स्वकीया वागाहेति च अपावधीत्=हन्ति तां सम्यग् विदित्वोपं कुरुत ॥ ५ । ८॥
[हे मनुष्या! यूयं या तेऽग्ने=अस्या विद्युतो.....तनूरुग्रं वचोऽपावधीत्=अपहन्ति........तां सम्यग् विदित्वोपकुरुत]
Special
गोतमः। अग्निः=विद्युत् । पूर्वस्य विराडार्षी बृहती। या त इति द्वितीयस्य निचृदार्षी बृहती। मध्यमः।।