Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 7

43 Mantra
5/7
Devata- सोमो देवता Rishi- गोतम ऋषिः Chhand- आर्षी बृहती,आर्षी जगती Swara- मध्यमः, निषाद
Mantra with Swara
अ॒ꣳशुर॑ꣳशुष्टे देव सो॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑। आ तुभ्य॒मिन्द्रः॒ प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व। आप्या॑यया॒स्मान्त्सखी॑न्त्स॒न्न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय। एष्टा॒ रायः॒ प्रेषे भगा॑यऽऋ॒तमृ॑तवा॒दिभ्यो॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म्॥७॥

अ॒ꣳशुर॑ꣳशु॒रित्य॒ꣳशुःऽअ॑ꣳशुः। ते॒। दे॒व॒। सो॒म॒। आ। प्या॒य॒ता॒म्। इन्द्रा॑य। ए॒क॒ध॒न॒विद॒ऽइत्ये॑कधन॒ऽविदे॑। आ। तुभ्य॑म्। इन्द्रः॑। प्याय॑ताम्। आ। त्वम्। इन्द्रा॑य। प्या॒य॒स्व॒। आ। प्या॒य॒य॒। अ॒स्मान्। सखी॑न्। स॒न्न्या। मे॒धया॑। स्व॒स्ति। ते॒। दे॒व॒। सो॒म॒। सु॒त्याम्। अ॒शी॒य॒। एष्टा॒ इत्याऽइ॑ष्टाः। रायः॑। प्र। इ॒षे। भगा॑य। ऋ॒तम्। ऋ॒त॒वादिभ्य॒ इत्यृ॑तवा॒दिऽभ्यः॑। नमः॑। द्यावा॑पृथि॒वीभ्या॑म् ॥७॥

Mantra without Swara
अँशुरँशुष्टे देव सोमाप्यायतामिन्द्रायैकधनविदे । आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्व । आप्याययास्मान्त्सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीय । एष्टा रायः प्रेषे भगायऽऋतमृतवादिभ्यो नमो द्यावापृथिवीभ्याम् ॥

अꣳशुरꣳशुरित्यꣳशुःऽअꣳशुः। ते। देव। सोम। आ। प्यायताम्। इन्द्राय। एकधनविदऽइत्येकधनऽविदे। आ। तुभ्यम्। इन्द्रः। प्यायताम्। आ। त्वम्। इन्द्राय। प्यायस्व। आ। प्यायय। अस्मान्। सखीन्। सन्न्या। मेधया। स्वस्ति। ते। देव। सोम। सुत्याम्। अशीय। एष्टा इत्याऽइष्टाः। रायः। प्र। इषे। भगाय। ऋतम्। ऋतवादिभ्य इत्यृतवादिऽभ्यः। नमः। द्यावापृथिवीभ्याम्॥७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अंशुरंशुः) अवयवोऽवयवः। अत्राशूङ्व्याप्तौ संघाते भोजने चेत्यस्माद्बाहुलकादौणादिक उप्रत्ययो नुमागमश्च (ते) तव तस्या वा (देव) दिव्यगुणैः संपन्नेश्वरविद्युद्विद्वन् वा (सोम) सकलपदार्थानां जनक! प्रकाशिके! वा (आ) समन्तात् (प्यायताम्) वर्धयताम्। अत्रान्तर्गतो ण्यर्थः (इन्द्राय) परमैश्वर्ययुक्ताय (एकधनविदे) य एकेन=धर्मेण विज्ञानेन वा धनं विन्दति तस्मै (आ) अभितः (तुभ्यम्) अध्यापकाय मह्यमध्येत्रे वा (इन्द्रः) परमात्मा, विद्युद्वा (प्यायताम्) (आ) सर्वतः (इन्द्राय) दुःखविदारणाय (प्यायस्व) वर्धस्व, वर्धयेद्वा (आ) अभितः (प्यायय) वर्धय, वर्धयति वा (अस्मान्) (सखीन्) सुहृदः (सन्न्या) समानान्पदार्थान्नयति यया तया (मेधया) प्रज्ञया (स्वस्ति) सुखम् (ते) तव, तस्याः सकाशाद्वा (देव) दिव्यगुणप्रद, प्रदानहेतुर्वा (सोम) प्रेरक, प्रेरिका वा (सुत्याम्) सुन्वन्ति यया क्रियया तस्याम् (अशीय) व्याप्नुयां=प्राप्नुयाम् (एष्टाः) सर्वत इष्टकारिण: (रायः) धनसमूहाः (प्र) प्रकृष्टार्थे (इषे) अन्नायेच्छायै वा (भगाय) ऐश्वर्याय (ऋतम्) यथार्थम् (ऋतवादिभ्यः) ऋतं वदितुं शीलं येषां तेभ्यः सत्यवादिभ्यो विद्वद्भ्यः (नमः) सत्कारमन्नम् (द्यावापृथिवीभ्याम्) प्रकाशभूमिभ्याम्॥ अयं मंत्रः शत० ३। ४ । ३ । १८-२१ व्याख्यातः ॥ ७ ॥
[ईश्वरो विद्वाँश्च]
Essence
अत्र श्लेषालङ्कारः ॥ मनुष्यैः परमेश्वरमुपास्य, विद्वांसमुपाचर्य, विद्युद्विद्यां प्रचार्य, शरीरात्मपुष्टिकरानोषधिसमूहान् धनसमुदायाँश्च संगृह्य वैद्यकविद्यानुसारेण सर्वानन्दा भोक्तव्याः ।। ५ । ७ ।।
Subject
पुनस्ते कीदृशौ विद्वांश्चेत्युपदिश्यते॥
Meaning of Anvay
हे सोम सकलपदार्थानां जनक! देव=ईश्वर! विद्वन् दिव्यगुणैः सम्पन्नेश्वर विद्वन् वा! यतस्ते सामर्थ्यमंशुरंशुः=अङ्गमङ्गम् अवयवोऽवयवः सोमेनाप्यायतां समन्ताद् वर्धयताम्।
इन्द्रः परमात्मा सोमः प्रेरको भवान् एकधनविदे य एकेन धर्मेण धनं विन्दति तस्मै इन्द्राय परमैश्वर्ययुक्ताय तुभ्यं अध्यापकाय मह्यं अध्येत्रे वा [आ] प्यायताम् अभितो वर्धयताम्, त्वमिन्द्राय परमैश्वर्ययुक्ताय [आ] प्यायस्व=वर्धयस्व, सर्वतो वर्धस्व ।
अतः सखीन् सुहृदः अस्मान् सन्न्या समानान्पदार्थान् नयति यया तया मेधया प्रज्ञया [आ] प्यायस्व=आप्यायय, सर्वतो वर्धस्व।
[देव] दिव्यगुणप्रद! यतोऽहं [ते] तव सुत्यां सुन्वन्ति यया क्रियया तस्यां दिव्यगुणसम्पन्नो भूत्वा एष्टाः सर्वतः इष्टकारिणः रायः धनसमूहान् अशीय व्याप्नुयाम्=प्राप्नुयाम् ।
यैः[प्र] इषे प्रकृष्ट-अन्नाय प्रकृष्ट-इच्छायै वा भगाय ऐश्वर्याय ऋतवादिभ्यः=विद्वद्भ्यः ऋतं वदितुं शीलं येषां तेभ्यः सत्यवादिभ्यो विद्वद्भ्यः, एतद् धनं दत्त्वा [ऋतम्]=सत्यां विद्यां यथार्थम् द्यावापृथिवीभ्यां प्रकाशभूमिभ्याम् [नमः]=अन्नंसत्कारमन्नंच प्राप्य[स्वस्ति]=सर्वाणि सुखानि प्राप्नुयाम् ॥ ५ । ७ ।।
[विद्युत्]
सपदार्थान्वयः--हे सोम=विद्युत्! सकलपदार्थानां प्रकाशिके! यतस्ते=तस्याः सामर्थ्यमंशुरंशुः=अङ्गमङ्गम् अवयवोऽवयवः सोमेनाप्यायतां समन्ताद् वर्धयताम्।
इन्द्रः विद्युद् [सोम] सोमः प्रेरिका एकधनविदे य एकेन विज्ञानेन धनं विन्दति तस्मै इन्द्राय परमैश्वर्ययुक्ताय तुभ्यम् अध्यापकाय मह्यम् अध्येत्रे वा [आ] प्यायताम्=आप्यायति अभितो वर्धयति। त्वमिन्द्राय परमैश्वर्ययुक्ताय [आ] प्यायस्व।
अतः सखीन् सुहृदः अस्मान् सन्न्याः समानान् पदार्थान् नयति यया तयामेधया प्रज्ञया [आ] प्यायस्व=आप्याययेत् सर्वतो वर्धयेत्।
[देव] दिव्यगुणप्रदानहेतु: यतोऽहं [ते] तव सुत्यां सुन्वन्ति यया क्रियया तस्यां दिव्यगुणसम्पन्नो भूत्वाएष्टाः सर्वत इष्टकारिणः रायः धनसमूहान् अशीय व्याप्नुयाम्=प्राप्नुयाम्।
यैः [प्र] इषे प्रकृष्ट-अन्नाय प्रकृष्ट इच्छायैवा (भगाय) ऐश्वर्याय ऋतवादिभ्यः=विद्वद्भ्यः, ऋतं वदितुं शील येषां तेभ्यः सत्यवादिभ्यो विद्वद्भ्यः एतद् धनं दत्वा[ऋतम्]=सत्यां विद्यां यथार्थम् द्यावापृथिवीभ्यां प्रकाशभूमिभ्याम्[नमः]=अन्नं सत्कारमन्नं च प्राप्य [स्वस्ति]=सर्वाणि सुखानि प्राप्नुयाम् ।। ५ । ७ ।।

[हे सोम! देव=ईश्वर! विद्वन् ! यतस्ते सामर्थ्यमंशुरंशु=अङ्गमङ्गं सोमेनाप्यायताम्,अहं.........रायोऽशीय, [स्वस्ति]=सर्वाणि सुखानि प्राप्नुयाम्]
Special
गोतमः। सोमः=ईश्वरो, विद्युत् विद्वांश्च॥ आद्यस्यार्षी बृहती। मध्यमः। आप्यायेत्यन्तस्यार्षी जगती। निषादः ॥