Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 6

43 Mantra
5/6
Devata- अग्निर्देवता Rishi- गोतम ऋषिः Chhand- विराट् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
अग्ने॑ व्रतपा॒स्त्वे व्र॑तपा॒ या तव॑ त॒नूरि॒यꣳ सा मयि॒ यो मम॑ त॒नूरे॒षा सा त्वयि॑। स॒ह नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः॥६॥

अग्ने॑। व्र॒त॒पा॒ इति॑ व्रतऽपाः। त्वेऽइति॑ त्वे। व्र॒त॒पा॒ इति॑ व्रतऽपाः। या। तव॑। त॒नूः। इ॒यम्। सा। मयि॑। योऽइति॒ यो। मम॑। त॒नूः। ए॒षा। त्वयि॑। स॒ह। नौ॒। व्र॒त॒प॒त॒ इति॑ व्रतऽपते। व्र॒तानि॑। अनु॑। मे॒। दी॒क्षाम्। दी॒क्षाप॑ति॒रिति॒ दी॒क्षाऽप॑तिः॒। मन्य॑ताम्। अनु॑। तपः॑। तप॑स्पति॒रिति॒ तपः॑ऽपतिः ॥६॥

Mantra without Swara
अग्ने व्रतपास्त्वे व्रतपा या तव तनूरियँ सा मयि यो मम तनूरेषा सा त्वयि । सह नौ व्रतपते व्रतान्यनु मे दीक्षान्दीक्षापतिर्मन्यतामनु तपस्तपस्पतिः ॥

अग्ने। व्रतपा इति व्रतऽपाः। त्वेऽइति त्वे। व्रतपा इति व्रतऽपाः। या। तव। तनूः। इयम्। सा। मयि। योऽइति यो। मम। तनूः। एषा। त्वयि। सह। नौ। व्रतपत इति व्रतऽपते। व्रतानि। अनु। मे। दीक्षाम्। दीक्षापतिरिति दीक्षाऽपतिः। मन्यताम्। अनु। तपः। तपस्पतिरिति तपःऽपतिः॥६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) विज्ञानस्वरूप परब्रह्मन्! विद्युद्वा (व्रतपाः) व्रतानि=सत्यभाषणादीनि पाति यस्माद्यया वा (त्वे) त्वयि, तस्यां वा (व्रतपाः) व्रतानि=सुशीलादीनि पाति येन यया वा (या) वक्ष्यमाणा (तव) भवतस्तस्या वा (तनूः) विस्तृता व्याप्तिः (इयम्) प्रत्यक्षा (सा) प्रतिपादितपूर्वा (मयि) मम मध्ये (यो) या। अत्र महीधरेण या इत्यशुद्धं व्याख्यातम् (मम) (तनूः) विस्तृतं शरीरम् (एषा) प्रत्यक्षा (सा) उक्तपूर्वा (त्वयि) जगदीश्वरे तस्यां वा (सह) परस्परम् (नौ) आवामावयोर्वा (व्रतपते) व्रतानां=वेदादिविद्यानां पालयितः, पालननिमित्ता वा (व्रतानि) ब्रह्मचर्य्यादीनि (अनु) पश्चादर्थे (मे) मम (दीक्षाम्) व्रतादेशम् (दीक्षापतिः) व्रतादेशानामुपदेशपालकः, रक्षणनिमित्ता वा (मन्यताम्) स्वीकरोतु, स्वीकारयति वा (अनु) आनुकूल्ये (तपः) जितेन्द्रियत्वादिपुरःसरं धर्मानुष्ठानम् (तपस्पतिः) तपसः पालयिता ॥ अयं मंत्र: श० ३। ४। ३। ९ व्याख्यातः ॥ ६ ॥
[ईश्वरः]
Essence
अत्र श्लेषालङ्कारः ॥ मनुष्यैः परस्परं प्रेम्णोपकारबुद्ध्या परमेश्वरे विद्युति वा स्वस्यान्येषां च पुरुषार्थेन, व्याप्यव्यापकसम्बन्धविद्यां ज्ञात्चा धर्मानुष्ठाने सततं प्रवर्त्तितव्यम्।।५ । ६ ।।
Subject
पुनस्ते कीदृशावित्युपदिश्यते॥
Meaning of Anvay
हे अग्ने=परमात्मन्! विज्ञानस्वरूपपरब्रह्मन् ! व्रतपते=सत्यधर्माचरणादि नियमपालनकारयितः! व्रतानां वेदादिविद्यानां पालयित:! यो भवान् त्वे=त्वयि अहं व्रतपाः व्रतादीनि=सुशीलादीनि पाति येन अस्मि, या= इयं वक्ष्यमाणा तव भवतः तनूः विस्तृता व्याप्तिः अस्ति, सा उक्तपूर्वा मयि मम मध्ये वर्त्तते।
यो=यैषा प्रत्यक्षा मम तनूः विस्तृतं शरीरम्अस्ति, सा प्रतिपादितश्व त्वयि जगदीश्वरे वर्तते।
यानि तव=अस्य भवतो व्रतानि ब्रह्मचर्यादीनि तानि, मयि मम मध्ये सन्तु।यानि च ममोत्तमानि व्रतानि ब्रह्मचर्यादीनि सन्ति, तानि त्वयि जगदीश्वरे वर्त्तन्ताम्।
यो भवान् तपस्पतिः तपसः पालयिता अस्ति, स मे=मह्यं मम तपः जितेन्द्रियत्वादिपुरःसरं धर्मानुष्ठानं अनुमन्यताम्= अनुज्ञापयतु।
यो=भवान् दीक्षापतिः व्रतादेशानामुपदेशपालकः स मे मह्यं दीक्षां व्रतादेशम् अनुमन्यताम्=अनुज्ञापयतु।
एवं हे अध्यापक! त्वमहं चैतं विदित्वा परस्परं धार्मिकौविद्वांसौ भवेव, यतो नौ=आवयोर्विद्या वृद्धिः सततं भवेत् ॥ ५ । ६॥
[विद्युत्]
अग्ने विद्युत् व्रतपते व्रतानां=वेदादिविद्यानांपालननिमित्ता या वक्ष्यमाणा विद्युन्निमित्तंवा सा अस्ति, त्वे=तस्यामहं व्रतपाः व्रतानि=सुशीलादीनि पाति ययाअस्मि।
येयं प्रत्यक्षा तव=तस्यास्तनूः विस्तृता व्याप्तिः अस्ति, सा उक्तपूर्वा मयि मम मध्ये वर्तते, यो=यैषा प्रत्यक्षा मम तनूः विस्तृतं शरीरम् अस्ति, सा प्रतिपादितपूर्वा त्वयि=तस्यां वर्त्तते।
यानि तव=अस्या व्रतानि ब्रह्मचर्यादीनि तानि मयि मम मध्ये सन्तु, यानि च ममोत्तमानि व्रतानि ब्रह्मचर्यादीनि सन्ति तानि त्वयि=तस्यां वर्त्तन्ताम्।
यो या इयं प्रत्यक्षा तपस्पतिः तपसः पालयित्री अस्ति, सा मे=मह्यं मम तपः जितेन्द्रियत्वादिपुर:सरं धर्मानुष्ठानम् अनुमन्यताम्= अनुज्ञापयति ।
या इयं दीक्षापतिः व्रतादेशानां रक्षणनिमित्ता सा मे=मह्यं दीक्षां व्रतादेशम् अनुमन्यताम्=अनुज्ञापयति ।
एवं हे अध्यापक! त्वमहं चैतां विदित्वापरस्परं धार्मिकौ विद्वांसौ भवेव, यतो नौ=आवयोर्विद्यावृद्धिः सततं भवेत् ।। ५ । ६ ।।
[ हे अग्ने=परमात्मन्! ......या इयं तव तनूरस्ति, सामयि वर्तते......]
Special
गोतमः। अग्निः=ईश्वरो विद्युच्च ॥ विराड् ब्राह्मी पंक्तिः। पञ्चमः॥