Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 43

43 Mantra
5/43
Devata- यज्ञो देवता Rishi- आगस्त्य ऋषिः Chhand- ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
द्यां मा ले॑खीर॒न्तरि॑क्षं॒ मा हि॑ꣳसीः पृथि॒व्या सम्भव॑। अ॒यꣳहि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय। अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ वि॒रो॑ह स॒हस्र॑वल्शा॒ वि व॒यꣳ रु॑हेम॥४३॥

द्याम्। मा। ले॒खीः॒। अ॒न्तरि॑क्षम्। मा। हि॒ꣳसीः॒। पृ॒थि॒व्या। सम्। भ॒व॒। अयम्। हि। त्वा॒। स्वधि॑ति॒रिति॒ स्वऽधि॑तिः। तेति॑जानः। प्र॒णि॒नाय॑ प्र॒ति॒नायेति॑ प्रऽनि॒नाय॑। म॒ह॒ते। सौभ॑गाय। अतः॑। त्वम्। दे॒व॒। व॒न॒स्प॒ते॒। श॒तवल्श॒ इति॑ श॒तऽव॑ल्शः। वि। रो॒ह॒। स॒हस्र॑वल्शा॒ इति॑ स॒हस्र॑ऽवल्शाः। वि। व॒यम्। रु॒हे॒म॒ ॥४३॥

Mantra without Swara
द्याम्मा लेखीरन्तरिक्षम्मा हिँसीः पृथिव्या सम्भव । अयँ हि त्वा स्वधितिस्तेतिजानः प्रणिनाय महते सौभगाय । अतस्त्वन्देव वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वयँ रुहेम ॥

द्याम्। मा। लेखीः। अन्तरिक्षम्। मा। हिꣳसीः। पृथिव्या। सम्। भव। अयम्। हि। त्वा। स्वधितिरिति स्वऽधितिः। तेतिजानः। प्रणिनाय प्रतिनायेति प्रऽनिनाय। महते। सौभगाय। अतः। त्वम्। देव। वनस्पते। शतवल्श इति शतऽवल्शः। वि। रोह। सहस्रवल्शा इति सहस्रऽवल्शाः। वि। वयम्। रुहेम॥४३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(द्याम्) सूर्यप्रकाशम् (मा) निषेधे (लेखी:) लिखे (अन्तरिक्षम्) अवकाशम् (मा) निषेधे (हिंसी:) हन्या: (पृथिव्या) सह (सम्) क्रियायोगे (भव) (अयम्) वक्ष्यमाणः (हि) यतः (त्वा) त्वाम् (स्वधितिः) यथा वज्रस्तथा (तेतिजानः) भृशं तीक्ष्ण: (प्रणिनाय) यथा त्वं प्रणयेस्तथा (महते) विशिष्टाय पूज्यतमाय (सौभगाय) सुष्ठु भगानामैश्वर्याणां भवाय (अतः) कारणात् (त्वम्) (देव) आनन्दित (वनस्पते) वनानां रक्षक (शतवल्श:) यथा बह्वंकुरो वृक्षस्तथा (विरोह) विविधतया प्रादुर्भव (सहस्रवल्शाः) यथा बहुमूला वृक्षा रोहन्ति तथा (वि) विविधतया [(वयम्)] (रुहेम) वर्द्धेमहि ॥ अयं मंत्र: शत० ३ । ६।४ । १३-१६ व्याख्यातः ।। ४३ ।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ इह संसारे केनचिन्मनुष्येण विद्याप्रकाशाभ्यासः कदाचिन्नैव त्याज्य:, स्वातन्त्र्यावकाशश्चैश्वर्यसम्भावनायोगेनासंख्यातोन्नतिकरणं चेति ॥५। ४३॥
[पूर्वापराध्यायार्थसंगतिमाह--]
अत्र यज्ञानुष्ठानस्वरूपसम्पादक विद्वत्परमात्मप्रार्थना, विद्याप्राप्तिविद्वद्व्याप्तिनिरूपणमग्न्यादिना यज्ञसाधनं, सर्वविद्यानिमित्तवाचो व्याख्याध्ययनाध्यापनयज्ञविवृतियोगाभ्यासलक्षणं, सृष्ट्युत्पत्तिरीश्वरसूर्यकर्माभिधानं, प्राणापानक्रियानिरूपणं, विभोरीश्वरस्य व्याप्त्युक्तिर्यज्ञानुष्ठानं, सृष्टेरूपकारग्रहणं, सूर्यसभाध्यक्षगुणाभिलाषो, यज्ञानुष्ठानशिक्षादानं, सवितृसभाध्यक्षकृत्योपदेशो, यज्ञात् सिद्धिरीश्वरसभाध्यक्षाभ्यां कार्यनिष्पत्तिरेतयोः स्वरूपकृत्यवर्णन- मीश्वरवद् विदुषां वर्त्तमानं लक्षणं चेश्वरोपासनं, शूरवीरगुणकथनमीश्वरविद्युद्गुणवर्णनं, परमैश्चर्यप्राप्तिराकांक्षादिदृष्टान्तेन विद्युद्गुणवर्णनमीश्वरोपासकगुणप्रकाशनं, सर्वबन्धनाद्विमुक्तिः, परस्परवर्णनप्रकारो, दुष्टत्यागेन विदुषां संगकरणावश्यकता, मनुष्यैर्यज्ञसिद्धये विद्यासंग्रहणं चोक्तमतः पञ्चमाध्यायोक्तार्थानां चतुर्थाध्यायोक्तार्थैः साकं संगतिरस्तीति वेदितव्यम् ।। ५ ।।
Subject
मनुष्यैर्यज्ञार्था विद्या सर्वदा संसेवनीयेत्युपदिश्यते॥
Meaning of Anvay
-हे विद्वन्! यथाहं द्यां सूर्यप्रकाशंन लिखामि तथा त्वमेनां मा लेखी: न लिखेः।
यथाऽहमन्तरिक्षम्अवकाशं न हिंसामि, तथा त्वमेतन्मा हिंसीः न हन्याः ।
यथाऽहं पृथिव्या सह संभवामि, तथैतया सह त्वमपि सम्भव।
हि=यतः कारणात् यथा [अयम्] वक्ष्यमाण: तेतिजान: भृशं तीक्ष्णः स्वधितिः यथा वज्रस्तथा शत्रून् विच्छिद्यैश्वर्यं प्रापयति तथा त्वमपि प्रापयेः।।
अतः कारणात् वयं त्वा त्वां महते विशिष्टाय पूज्यतमाय सौभगाय सुष्ठु भगानामैश्वर्य्याणां भवाय सम्भावयेम, यथा कश्चिदैश्वर्य्यं प्रणिनाय=प्रापयति यथा त्वं प्रणयेस्तथा तथा वयं त्वां प्रापयेम।
हे देव ! आनन्दित ! वनस्पते ! वनानां रक्षक! पूर्वोक्तेन महता सौभगेन यथा शतवल्शः=वृक्षः यथा बह्वङ्कुरो वृक्षस्तथा विरोहति तथा [त्वम्] विरोह विविधतया प्रादुर्भव ।
यथा सहस्रवल्शाः=वनस्पतयः यथा बहुमूला वृक्षाः विरोहन्ति तथा वयमपि [विरुहेम]=विरोहेम विविधतया वर्द्धेमहि ॥ ५। ४३ ।।
Meaning of Essence
लिखामि=त्यजामि।
[हे विद्वन्! यथाऽहं द्यां न लिखामि तथा त्वमेनां मा लेखीः, यथाऽहमन्तरिक्षं न हिंसामि तथा त्वमेतन्मा हिंसी:, यथा [अयम्]...... शत्रून् विच्छिद्यैश्वर्यं प्रापयति तथा त्वमपि प्रापयेः, .........वयं, त्वा महते सौभगाय सम्भावयेम, यथा शतवल्शः=वृक्षो विरोहति तथा [त्वम्] विरोह]
Special
अगस्त्यः। यज्ञः=स्पष्टम्॥ ब्राह्मी त्रिष्टुप् । धैवतः स्वरः ।।