Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 42

43 Mantra
5/42
Devata- अग्निर्देवता Rishi- आगस्त्य ऋषिः Chhand- भूरिक् अत्यष्टि, Swara- धैवतः
Mantra with Swara
अत्य॒न्याँ२ऽअगां॒ नान्याँ२ऽउपा॑गाम॒र्वाक् त्वा॒ परे॒भ्योऽवि॑दं प॒रोऽव॑रेभ्यः। तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा। ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ꣳ हिꣳसीः॥४२॥

अति॑। अ॒न्यान्। अगा॑म्। उप॑। अ॒गा॒म्। अ॒र्वाक्। त्वा॒। परे॑भ्यः। अवि॑दम्। प॒रः॒। अव॑रेभ्यः। तम्। त्वा॒। जु॒षा॒म॒हे॒। दे॒व॒। व॒न॒स्प॒ते॒। दे॒व॒य॒ज्याया॒ इति॑ देवऽय॒ज्यायै॑। दे॒वाः। त्वा॒। दे॒व॒य॒ज्याया इति देवऽय॒ज्यायै॑। जु॒ष॒न्ता॒म्। विष्ण॑वे। त्वा॒। ओष॑धे। त्रा॑यस्व। स्वधि॑ते। मा। ए॒न॒म्। हि॒ꣳसीः॒ ॥४२॥

Mantra without Swara
अत्यन्याँ अगान्नान्याँ उपागामर्वाक्त्वा परेभ्योविदम्परो वरेभ्यः । तन्त्वा जुषामहे देव वनस्पतेदेवयज्यायै देवास्त्वा देवयज्यायै जुषन्ताँ विष्णवे त्वा । ओषधे त्रायस्व स्वधिते मैनँ हिँसीः ॥

अति। अन्यान्। अगाम्। उप। अगाम्। अर्वाक्। त्वा। परेभ्यः। अविदम्। परः। अवरेभ्यः। तम्। त्वा। जुषामहे। देव। वनस्पते। देवयज्याया इति देवऽयज्यायै। देवाः। त्वा। देवयज्याया इति देवऽयज्यायै। जुषन्ताम्। विष्णवे। त्वा। ओषधे। त्रायस्व। स्वधिते। मा। एनम्। हिꣳसीः॥४२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अति) अत्यन्ते (अन्यान्) पूर्वोक्तभिन्नानविदुषः (अगाम्) प्राप्नुयाम् (न) निषेधे(अन्यान्) अविदुषो विद्वान्=विदुषः (उप) सामीप्ये (अगाम्) प्राप्नुयाम् (अर्वाक्) अवरः (त्वा) त्वम् (परेभ्यः) उत्तमेभ्यः (अविदम्) लभेय (परः) उत्कृष्टः (अवरेभ्यः) अनुत्कृष्टेभ्यः (तम्) अनु (त्वा) त्वाम् (जुषामहे) प्रीणीयाम (देव) कमनीय (वनस्पते) वनानां रक्षक (देवयज्यायै) यथा दिव्यानां संगतये तथा (देवाः) विद्वांसः (त्वा) त्वाम् (देवयज्यायै) यथोत्तमगुणदानाय तथा (जुषन्ताम्) सेवन्ताम् (विष्णवे) यज्ञाय (त्वा) त्वाम् (ओषधे) यथा सोमाद्योषधिगणस्त्रायते तथा (त्रायस्व) रक्ष (स्वधिते) दुःखविच्छेदक (मा) निषेधे (एनम्) ओषधिगणं परं पुरुषं वा (हिंसी:) विनाशयेः। अयं मन्त्रः शत० ३ । ६ । ४ । ५ - १० व्याख्यातः ।। ४२ ।। -
Essence
अत्र वाचकलुप्तोपमालङ्कारः।।मनुष्यैर्नीचव्यवहारान् नीचपुरुषाँश्च त्यक्त्वोत्तमा व्यवहारा उत्तमा पुरुषाश्च प्रतिदिनमेषितव्याः।
[यस्त्वं परेभ्यः परोऽस्यवरेभ्यो ऽर्वाक् च, तं त्वामविदम्]
उत्तमेभ्य उत्तमशिक्षाऽवरेभ्योऽवरा च ग्राह्या ।
[हे देव ! विद्वन् ! यथाऽहमिमं यज्ञं न हिंसामि तथैनं त्वमपि मा हिंसीः]
यज्ञो यज्ञसामग्री च कदाचिन्न हिंसनीया, सर्वैः परस्परं सुखेन भवितव्यम् ।। ५ । ४२ ।।
Subject
मनुष्यैः पूर्वोक्ताभ्यां विरुद्धा मनुष्या न सेवनीया इत्युपदिश्यते।।
Meaning of Anvay
हे वनस्पते! वनानां रक्षक! देव! कमनीय! विद्वन्! यथा त्वमन्यान् पूर्वोक्तभिन्नानविदुषः अतीत्यान्यान् अविदुषो विरुद्धान्=विदुषः उपागच्छसितथाहमन्यान् मागां न प्राप्नुयाम् अन्यान्=अविदुषो विरुद्धान्=विदुषः उपागां समीपं प्राप्नुयाम् ।
यस्त्वं परेभ्यः उत्तमेभ्य: पर: उत्कृष्टः अस्यवरेभ्यः अनुत्कृष्टेभ्यः अर्वाक् अवरः च तं त्वामविदं लभेय।
यथा देवा विद्वांसः देवयज्यायै यथा दिव्यानां संगतये यथा त्वा=त्वां जुषन्ते, तथा त्वा=त्वां वयं जुषामहे प्रीणीयाम्।
यथा वयंदेवयज्यायैयथोत्तमगुणदानाय तथा त्वां जुषामहे प्रीणीयाम्तथैते सर्वे तं त्वां जुषन्ताम् सेवन्ताम्।
यथौषधिगणो विष्णवे यज्ञाय सम्भूय सर्वान् त्रायते, तथा हे औषधे=सर्वरोगनिवारक! यथा सोमाद्योषधिगणस्त्रायते तथा स्वधिते=दुःख विच्छेदक विद्वन्! त्वा=त्वां विष्णवे=यज्ञाय वयं=जुषामहे प्रीणीयाम्।
हे देव! कमनीय! विद्वन् ! यथाऽहमिमं यज्ञं न हिंसामि तथैनं औषधिगणं परं पुरुषं वा त्वमपि मान हिंसीः विनाशयेः ॥ ५ । ४२॥
[हे... विद्वन् ! यथा त्वमन्यानतीत्यान्यानुपागच्छसितथाऽहमन्यानागामन्यानुपागाम्]
Special
अगस्त्यः। अग्निः=विद्वान्। स्वराड्ब्राह्मी त्रिष्टुप्। धैवतः॥