Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 41

43 Mantra
5/41
Devata- विष्णुर्देवता Rishi- आगस्त्य ऋषिः Chhand- भूरिक् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य नस्कृधि। घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑॥४१॥

उ॒रु। वि॒ष्णो॒ऽइति॑ विष्णो। वि। क्र॒म॒स्व॒। उ॒रु। क्षया॑य। नः॒। कृ॒धि॒। घृ॒तम्। घृ॒त॒यो॒न॒ इति॑ घृतऽयोने। पि॒ब॒। प्रप्रेति॒ प्रऽप्र॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। ति॒र॒। स्वाहा॑ ॥४१॥

Mantra without Swara
उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि । घृतङ्घृतयोने पिब प्रप्र यज्ञपतिन्तिर स्वाहा ॥

उरु। विष्णोऽइति विष्णो। वि। क्रमस्व। उरु। क्षयाय। नः। कृधि। घृतम्। घृतयोन इति घृतऽयोने। पिब। प्रप्रेति प्रऽप्र। यज्ञपतिमिति यज्ञऽपतिम्। तिर। स्वाहा॥४१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उरु) बहु (विष्णो) यथा व्यापनशीलो वायुर्विक्रमते तथा तत्सबुद्धौ (विक्रमस्व) पादैः विद्याङ्गैः संपद्यस्व (उरु) विस्तीर्णे (क्षयाय) विज्ञानोन्नतये (नः) अस्मान् (कृधि) कुर्य्या: (घृतम्) उदकम् (घृतयोने) यथाजलनिमित्ता विद्युद्वर्त्तते तथा तत्संबुद्धौ(पिब) (प्रप्र) प्रकृष्टमिव (यज्ञपतिम्) यथाऽहं यज्ञपतिं तथा त्वम् (तिर) दुःखं प्लवस्व (स्वाहा) सुहुतं हविः।।अयं मन्त्रः शत० ३ । ६।४ । २-३ व्याख्यातः ॥ ४१ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ यथा पवनः सर्वान् सुखयन् सर्वाधिष्ठानमस्ति तथैव विदुषा सम्पत्तव्यम् ।। ५ । ४१ ।।
Subject
पुनस्तौ कथं वर्त्तेयातामित्युपदिश्यते।।
Meaning of Anvay
हे विष्णो! यथा व्यापनशीलो वायुर्विक्रमते तथा तत्सम्बुद्धौ त्वं उरु बहु क्षयाय विज्ञानोन्नतये विक्रमस्व पादैः विद्याङ्गैः सम्पद्यस्व नः=अस्मान् सुखिनः [उरु]=विस्तीर्ण कृधि कुर्य्याः।
हे घृतयोने! = यथा विद्युत् तथा, यथा जलनिमित्ता विद्युत् वर्तते तथा, तत्सम्बुद्धौ घृतम् उदकं पिब,
यथाऽहं यज्ञपतिं सन्तरामि तथा स्वाहा सुहुतं हवि: अनुतिष्ठन् प्रप्रतिर दुःखं प्रकृष्टमिन प्लवस्व ।। ५ । ४१ ।।
[हे विष्णो! त्वं उरु क्षयाय विक्रमस्व, नः=अस्मान् सुखिन: कृधि]
Special
अगस्त्यः। विष्णुः=विद्वान्॥भुरिगार्ष्यनुष्टुप् । गान्धारः स्वरः ॥