Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 38

43 Mantra
5/38
Devata- विष्णुर्देवता Rishi- आगस्त्य ऋषिः Chhand- भूरिक् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य नस्कृधि। घृतं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑॥३८॥

उ॒रु। वि॒ष्णो॒ऽइति॑ विष्णो। वि। क्र॒म॒स्व॒। उ॒रु। क्षया॑य। नः॒। कृ॒धि॒। घृ॒तम्। घृ॒त॒यो॒न॒ इति॑ घृतऽयोने। पि॒ब॒। प्रप्रेति॒ प्रऽप्र॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। ति॒र॒। स्वाहा॑ ॥३८॥

Mantra without Swara
उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि घृतङ्घृतयोने पिब प्रप्र यज्ञपतिन्तिर स्वाहा ॥

उरु। विष्णोऽइति विष्णो। वि। क्रमस्व। उरु। क्षयाय। नः। कृधि। घृतम्। घृतयोन इति घृतऽयोने। पिब। प्रप्रेति प्रऽप्र। यज्ञपतिमिति यज्ञऽपतिम्। तिर। स्वाहा॥३८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उरु) बहु (विष्णो) यथा सर्वव्यापकेश्वरः सर्वं जगन्निर्मातुं तथा (विक्रमस्व) गच्छ (उरु) बहु (क्षयाय) निवासार्थाय गृहाय विज्ञानादिप्राप्तये वा (नः) अस्मान् (कृधि) कुरु (घृतम्) आाज्यम् (घृतयोने) यथा घृतयोनिरग्निस्तथा तत्सम्बुद्धौ (पिब) (प्रप्र) प्रकृष्टार्थे (यज्ञपतिम्) यथा होत्रादयो यज्ञपतिं रक्षन्तो यतन्ते तथा (तिर) प्लवस्व (स्वाहा) यज्ञक्रियायाः ॥ अयं मंत्रः शत० ३ । ६ । ३ । १५ व्याख्यातः ॥ ३८॥
Essence
अत्रोपमालङ्कारः ।। यथा परमेश्वरो व्यापकत्वात् सर्वं जगद्रचितुं रक्षितुं समर्थः सर्वान् सुखयति तथानन्दयितव्यम्।
[हे घृतयोने! यथाग्निराज्यं पिबति तथा त्वं घृतं प्रप्रपिब]
यथा चाग्निरिन्धनानि प्रदहति तथा शत्रवःप्रदग्धव्याः ।
[यथा च ऋत्विगादयो यज्ञपतिं संरक्ष्य दुःखं तरन्ति तथा त्वं स्वाहा वाचं वदन् सन् विजयेन यज्ञेन यज्ञं प्रप्रतिर]
यथा होत्रादयो धार्मिकं यज्ञपतिं प्राप्य स्वकार्याणि साध्नुवन्ति तथा प्रजास्थाः पुरुषा धर्मात्मानं सभापतिं प्राप्य सुखानि साध्नुवन्तु॥ ५। ३८ ॥
Subject
पुनस्तौ कीदृशावित्युपदिश्यते॥
Meaning of Anvay
यथा [विष्णो]=विष्णुः सर्वव्यापकेश्वरः सर्वं जगन्निर्मातुं विक्रमते, तथोरु बाहु विक्रमस्व गच्छ। नः अस्मान् क्षयाय निवासार्थाय ग्रहाय विज्ञानादिप्राप्तये वा उरु बहु कृधि कुरु।
हे घृतयोने! यथा घृतयोनिरग्निस्तथा तत्सम्बुद्धौ यथाग्निराज्यं पिबति तथा त्वं घृतम्आज्यम् प्रप्र प्रकृष्टं पिब ।
यथा च ऋत्विगादयो यज्ञपतिं यथाहोत्रादयो यज्ञपतिं रक्षन्तो यतन्ते तथा संरक्ष्य दुःखं तरन्ति, तथा त्वं स्वाहा यज्ञक्रियायाः वाचं वदन् सन् विजयेन यज्ञेन यज्ञं प्रप्र-तिर प्रकृष्टं प्लवस्व ॥ ५ । ३८ ।।


[यथा [विष्णो] विष्णुर्विक्रमते तथोरु विक्रमस्व]
Special
अगस्त्यः। विष्णुः=ईश्वरः शूरश्च ॥ भुरिगार्ष्यनुष्टुप्। गान्धारः॥