Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 37

43 Mantra
5/37
Devata- अग्निर्देवता Rishi- आगस्त्य ऋषिः Chhand- भूरिक् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
अ॒यं नो॑ऽअ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒रऽए॑तु प्रभि॒न्दन्। अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यꣳ शत्रू॑ञ्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑॥३७॥

अ॒यम्। नः॒। अ॒ग्निः। वरि॑वः। कृ॒णो॒तु॒। अ॒यम्। मृधः॑। पु॒रः। ए॒तु॒। प्र॒भि॒न्दन्निति॑ प्रऽभि॒न्दन्। अ॒यम्। वाजा॑न्। ज॒य॒तु॒। वाज॑साता॒विति॒ वाज॑ऽसातौ। अ॒यम्। शत्रू॑न्। ज॒य॒तु॒। जर्हृ॑षाणः। स्वाहा॑ ॥३७॥

Mantra without Swara
अयन्नोऽअग्निर्वरिवस्कृणोत्वयम्मृधः पुर एतु प्रभिन्दन् । अयँ वाजाञ्जयतु वाजसातावयँ शत्रूञ्जयतु जर्हृषाणः स्वाहा ॥

अयम्। नः। अग्निः। वरिवः। कृणोतु। अयम्। मृधः। पुरः। एतु। प्रभिन्दन्निति प्रऽभिन्दन्। अयम्। वाजान्। जयतु। वाजसाताविति वाजऽसातौ। अयम्। शत्रून्। जयतु। जर्हृषाणः। स्वाहा॥३७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अयम्) परमेश्वरोपासको जनः (नः) अस्माकं प्रजास्थानां जीवानाम् (अग्निः) स्वयं प्रकाशमानोऽग्निरिव पापिनां दग्धा (वरिवः) भृशं रक्षणम् (कृणोतु) करोतु (अयम्) युद्धकुशल: (मृधः) कुत्सितान् (पुर:) पुरस्तात् (एतु) गच्छतु (प्रभिन्दन्) यथा शत्रुदलं विदारयँस्तथा (अयम्) वीराणां प्रहर्षक: (वाजान्) संग्रामान् (वाजसातौ) यथा संग्रामे तथा (अयम्) विजयप्रापकः (शत्रून्) अरीन् (जयतु) (जर्हृषाणः) अतिशयेन हृष्टः (स्वाहा) शोभनां वाचं वदन् सन् ॥ अयं मन्त्रः शत० ३। ६। ३। १२ व्याख्यातः॥ ३७॥
Essence
ये परेशोपासनां न विदधते नैव तेषां सर्वत्र विजयो जायते। ये सुशिक्षितान् वीरान् सत्कृत्य सेनां न रक्षन्ति तेषां सर्वत्र ब्रपराजयो भवति।
[तात्पर्यमाह--]
तस्मादेतद् द्वयं मनुष्यैः सदाऽनुष्ठेयामिति ॥५ । ३७ ।।
Subject
पुनः शूरगुणा उपदिश्यन्ते ॥
Meaning of Anvay
अयं परमेश्वरोपासको जनः अग्निः=परमेश्वरोपासको जनः, स्वयं प्रकाशमानोऽग्निरिव पापिनां दग्धा नःअस्माकं प्रजास्थानां-जीवानां वरिवः भृशं रक्षणं कृणोतु करोतु।
यथा [अयं]=कश्चिद्वीर: युद्धकुशल: वाजसातौ यथा संग्रामे तथा मृधः कुत्सितान् शत्रून् अरीन् पुरः पुरस्तात् एति तथायं वीराणां प्रहर्षकः यथा च कश्चिद्वीरो मृधः कुत्सितान् शत्रून् अरीन् प्रभिन्दन्यथा शत्रुदलं विदारयँस्तथा वाजान् संग्रामान् [जयतु] जयति, पुरः पुरस्तात् एतु गच्छतु, तथाऽयं विजयप्रापक: जर्हृषाण: अतिशयेन हृष्टः स्वाहा=शोभनां वाचं वदन् शोभनां वाचं वदन् सन् जयतु ।। ५ । ३७ ।।
[अयमग्निः परमेश्वरोपासकोजनोनोवरिवः कृणोतु]
Special
अगस्त्यः। अग्निः=शूरवीरः॥ आर्षी त्रिष्टुप्। धैवतः॥