Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 36

43 Mantra
5/36
Devata- अग्निर्देवता Rishi- आगस्त्य ऋषिः Chhand- निचृत् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
अग्ने॒ नय॑ सु॒पथा॑ रा॒येऽअ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ऽउक्तिं विधेम॥३६॥

अग्ने॑। नय॑। सु॒पथेति॑ सु॒ऽपथा॑। रा॒ये। अ॒स्मान्। विश्वा॑नि। दे॒व॒। व॒युना॑नि। वि॒द्वान्। यु॒यो॒धि। अ॒स्मत्। जु॒हु॒रा॒णम्। एनः॑। भूयि॑ष्ठाम्। ते॒। नम॑उक्ति॒मिति॒ नमः॑ऽउक्तिम्। वि॒धे॒म॒ ॥३६॥

Mantra without Swara
अग्ने नय सुपथा रायेऽअस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नमउक्तिँ विधेम ॥

अग्ने। नय। सुपथेति सुऽपथा। राये। अस्मान्। विश्वानि। देव। वयुनानि। विद्वान्। युयोधि। अस्मत्। जुहुराणम्। एनः। भूयिष्ठाम्। ते। नमउक्तिमिति नमःऽउक्तिम्। विधेम॥३६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) सर्वनेतः परमात्मन् ! (नय) प्रापय (सुपथा) यथा सुकृतः शोभनेन धर्म्यमार्गेण गच्छन्ति तथा (राये) परमश्रीमोक्षसुखप्राप्तये (अस्मान्) अभ्युदयनिःश्रेयससुखस्पृहावतः (विश्वानि) सर्वाणि (देव) सर्वानन्दप्रापक सर्वजगत्प्रकाशक ! ( वयुनानि) प्रशस्तानि कर्माणि प्रज्ञाश्च । वयुनमिति प्रशस्यनामसु पठितम् ॥ निघं० ३। ९॥वयुनं वेतेः कान्तिर्वा प्रज्ञा वा ॥ निरु० ५ ॥ १४ ॥ वयुनानि विद्वान् प्रज्ञानानि प्रजानन् । निरु०८। २०॥(विद्वान्) यः सर्वं वेत्ति सः (युयोधि) दूरीकुरु । अत्र बहुलं छन्दसीति शपः श्लुः(अस्मत्) अस्माकं सकाशात् (जुहुराणम्) कुटिलम् (एनः) दुःखफलं पापम् (भूयिष्ठाम्) बहुतमाम् (ते) तव (नम उक्तिम्) यथा नमोभिरुक्तिं विदधति तथा (विधेम) वदेम ॥ अयं मन्त्रः शत० ३। ६। ३ । ११ व्याख्यातः ।। ३६॥
Essence
अत्रोपमालङ्कारः॥यथा प्रेम्णोपासितः सन् जगदीश्वरो जीवान् दुष्टमार्गाद् वियोज्य धर्ममार्गे स्थापयित्वैहिकपारमार्थिक- सुखानि तत्तत्कर्मानुसारेण ददाति तथा न्यायाधीशैरपि विधेयम् ।। ५ । ३६।।
Subject
पुनरीश्वरः किमर्थः प्रार्थनीय इत्युपदिश्यते ॥
Meaning of Anvay
हे अग्ने ! सर्वनेतः परमात्मन्। देव ! सर्वानन्दप्रापक सर्वजगत् प्रकाशक ! जगदीश्वर ! विद्वान् यः सर्वं वेत्ति सः त्वं, यथा सुकृतो राये परमश्रीमोक्षसुखप्राप्तये सुपथा तथा सुकृतः शोभनेन धर्म्ममार्गेण गच्छन्ति तथा, विश्वानि सर्वाणिवयुनानि प्रशस्तानि कर्माणि प्रज्ञाश्च प्राप्नुवन्ति, तथाऽस्मान् अभ्युदयनिःश्रेयससुखस्पृहावतः, नय प्रापय।
(जुहुराणम्) कुटिलम् एनः दुःखफलं पापम् अस्मत् अस्माकं सकाशात् युयोधि दूरी कुरु ।
वयं ते=तव भूयिष्ठां बहुतमां नम उक्तिं यथा नमोभिरुक्तिं विदधति तथा विधेम वदेम ॥५। ३६॥
[हे अग्ने.......जगदीश्वर ! त्वं यथा सुकृतो रायेसुपथा विश्वानि वयुनानि प्राप्नुवन्ति, तथाऽस्मान् नय]
Special
अगस्त्यः । अग्निः=ईश्वरः। निचृदार्षी त्रिष्टुप् । धैवतः ।