Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 35

43 Mantra
5/35
Devata- अग्निर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- अतिजगती Swara- पञ्चमः
Mantra with Swara
ज्योति॑रसि वि॒श्वरू॑पं॒ विश्वे॑षां दे॒वाना॑ स॒मित्। त्वꣳ सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृतेभ्यऽउ॒रु य॒न्तासि॒ वरू॑थ॒ꣳ स्वाहा॑। जुषा॒णोऽ अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॑॥३५॥

ज्योतिः॑। अ॒सि॒। वि॒श्वरू॑प॒मिति॑ वि॒श्वऽरू॑पम्। विश्वे॑षाम्। दे॒वाना॑म्। स॒मिदिति॑ स॒म्ऽइत्। त्वम्। सो॒म॒। त॒नू॒कृद्भ्य॒ इति॑ तनू॒कृत्ऽभ्यः॑। द्वेषो॑भ्य॒ इति॒ द्वेषः॑ऽभ्यः। अ॒न्यकृ॑तेभ्य इत्य॒न्यऽकृ॑तेभ्यः। उ॒रु। य॒न्ता। अ॒सि॒। वरू॑थम्। स्वाहा॑। जु॒षा॒णः। अ॒प्तुः। आज्य॑स्य। वे॒तु॒। स्वाहा॑ ॥३५॥

Mantra without Swara
ज्योतिरसि विश्वरूपँविश्वेषान्देवानाँ समित् । त्वँ सोम तनूकृद्भ्यो द्वेषोभ्यो न्यकृतेभ्यऽउरु यन्तासि वरूथँ स्वाहा जुषाणोऽअप्तुराज्यस्य वेतु स्वाहा ॥

ज्योतिः। असि। विश्वरूपमिति विश्वऽरूपम्। विश्वेषाम्। देवानाम्। समिदिति सम्ऽइत्। त्वम्। सोम। तनूकृद्भ्य इति तनूकृत्ऽभ्यः। द्वेषोभ्य इति द्वेषःऽभ्यः। अन्यकृतेभ्य इत्यन्यऽकृतेभ्यः। उरु। यन्ता। असि। वरूथम्। स्वाहा। जुषाणः। अप्तुः। आज्यस्य। वेतु। स्वाहा॥३५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ज्योतिः) सर्वप्रकाशकः (असि) (विश्वरूपम् ) यथा सर्वं रूपं यस्मिँस्तथा (विश्वेषाम्) अखिलानाम् (देवानाम्) विदुषाम् (समित्) यथा सम्यमिध्यते तथा (त्वम्) (सोम) ऐश्वर्यप्रद (तनूकृद्भ्यः) यथा विस्तारकारिभ्यस्तथा (द्वेषोभ्यः) यथा द्विषन्ति तेभ्यस्तथा (अन्यकृतेभ्यः) यथाऽन्यैर्यानि क्रियन्ते तेभ्यः (उरु) बहु (यन्ता) नियमकर्त्ता (असि) (वरूथम्) वर्त्तुमर्हं गृहम्। वरूथमिति गृहनामसु पठितम् ॥ निघं० ३। ४ ॥ (स्वाहा) वाचम् (जुषाण:) प्रीतः (अप्तुः) व्यापकः (आज्यस्य) विज्ञानस्य (वेतु) जानातु (स्वाहा) वाचा ॥ अयं मन्त्रः शत० ३। ६। ३। ६-८ व्याख्यातः ॥ ३५॥
Essence
यस्मात् परमेश्वरः सर्वेषां लोकानां नियन्तास्ति तस्मादेते नियमेषु चलन्ति।। ५ । ३५ ।।
Subject
मधुच्छन्दाः। अग्निः=ईश्वरः। विराड् ब्राह्मी बृहती। मध्यमः ॥
Meaning of Anvay
हे सोम! ऐश्वर्यप्रद! यथा त्वं विश्वेषाम् अखिलानां देवानां विदुषां विश्वरूपं यथा सर्वं रूपं यस्मिंस्तथा ज्योतिः सर्वप्रकाशक: समित् यथा सम्यगिध्यते तथा असि ।
तनूकृद्भ्यः यथाविस्तारकारिभ्यस्तथा, द्वेषोभ्यः यथा द्विषन्ति तेभ्यस्तथा,अन्यकृतेभ्यः यथाऽन्यैर्यानि क्रियन्ते तेभ्यः च यन्ता नियमकर्ता असि ।
तथोरु बहुः वरूथं वर्त्तुमर्हं गृहं स्वाहा वाचम् अप्तुः व्यापकःआज्यस्य विज्ञानस्य जुषाणः प्रीतः सन् मनुष्यः स्वाहा वाचा वेतु जानातु ।। ५ । ३५ ।।
[हे सोम! यथा त्वं.......यन्तासि]
Meaning of Essence
यन्ता=सर्वेषां लोकानां नियन्ता।
Special
मधुच्छन्दाः। अग्निः=ईश्वरः। विराड् ब्राह्मी बृहती। मध्यमः ॥