Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 33

43 Mantra
5/33
Devata- अग्निर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
स॒मु॒द्रोऽसि वि॒श्वव्य॑चाऽअ॒जोऽस्येक॑पा॒दहि॑रसि बु॒ध्न्यो वाग॑स्यै॒न्द्रम॑सि॒ सदोऽ॒स्यृत॑स्य द्वारौ॒ मा मा॒ सन्ता॑प्त॒मध्व॑नामध्वपते॒ प्र मा॑ तिर स्व॒स्ति मे॒ऽस्मिन् प॒थि दे॑व॒याने॑ भूयात्॥३३॥

स॒मु॒द्रः। अ॒सि॒। वि॒श्वव्य॑चा॒ इति॑ वि॒श्वऽव्य॑चाः। अ॒जः। अ॒सि॒। एक॑पा॒दित्येक॑ऽपात्। अहिः॑। अ॒सि॒। बु॒ध्न्यः᳖। वाक्। अ॒सि॒। ऐ॒न्द्रम्। अ॒सि॒। स॒दः॑। अ॒सि॒। ऋत॑स्य। द्वा॒रौ॒। मा। मा॒। सम्। ता॒प्त॒म्। अध्व॑नाम्। अ॒ध्व॒प॒त॒ इत्य॑ध्वऽपते। प्र। मा॒। ति॒र। स्व॒स्ति। मे॒। अ॒स्मिन्। प॒थि। दे॒व॒यान॒ इति॑ देव॒ऽयाने॑। भू॒या॒त् ॥३३॥

Mantra without Swara
समुद्रोसि विश्वव्यचाऽअजो स्येकपादहिरसि बुध्न्यो वागस्यैन्द्रमसि सदोस्यृतस्य द्वारौ मा मा सन्ताप्तमध्वनामध्वपते प्र मातिर स्वस्ति मेस्मिन्पथि देवयाने भूयान्मित्रस्य मा॥

समुद्रः। असि। विश्वव्यचा इति विश्वऽव्यचाः। अजः। असि। एकपादित्येकऽपात्। अहिः। असि। बुध्न्यः। वाक्। असि। ऐन्द्रम्। असि। सदः। असि। ऋतस्य। द्वारौ। मा। मा। सम्। ताप्तम्। अध्वनाम्। अध्वपत इत्यध्वऽपते। प्र। मा। तिर। स्वस्ति। मे। अस्मिन्। पथि। देवयान इति देवऽयाने। भूयात्॥३३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(समुद्रः) समुद्द्रवन्ति भूतानि यस्मात् सः (असि) (विश्वव्यचाः) यथा विश्वस्मिन् व्यचोव्याप्तिर्यस्यास्ति तथा (अजः) यः कदाचिन्न जायते (असि) (एकपात्) एकस्मिन् पादे विश्वं यस्यास्ति (अहिः) समस्तविद्यासु व्यापनशीलः (असि) (बुध्न्यः) बुध्नेऽन्तरिक्षे भवः। बुध्नमन्तरिक्षं भवति ।। निरु० १० । ४४ ॥ (वाक्) यथा व्यक्ति सा (असि) (ऐन्द्रम्) परमैश्वर्य्यस्येदम् (असि) (सदः) सीदन्ति यस्मिँस्तत् (असि) (ॠतस्य) सत्यस्य कारणस्य व्यवहारस्य वा (द्वारौ) बाह्याभ्यन्तरस्थे मुखे (मा) माम् (मा) निषेधे (सम्) सम्यगर्थे (ताप्तम्) तपेः। अत्र लिङर्थे लुङ् (अध्वानम्) यथो विद्याधर्मशिल्पमार्गाणाम् (अध्वपते) धर्मव्यवहारमार्गपालयितः (प्र) प्रकृष्टार्थे (मा) माम् (तिर) तारय (स्वस्ति) सुखम् (मे) मम (अस्मिन्) प्रत्यक्षे (पथि) मार्गे (देवयाने) यथा विदुषां गमनागमनाधिकरणे तथा (भूयात्) भवतु ।। ३३।।
Essence
अत्रोपमालङ्कारः ॥ यथा कृपयमाण ईश्वरोऽस्मिन् संसारे सर्वेषां जीवानां शिक्षादिकर्मसु प्रवर्त्तते तथा विद्वद्भिरपि वर्त्तितव्यम्।
[यथा स ऋतस्य द्वारौ न सन्तायपति तथा [मा] मा [सं ताप्तम्]]
यथेश्वरस्य जगत्कारणस्य जीवानां वाऽनादित्वाज्जन्मराहित्येनाविनाशित्वं वर्त्तते तथा स्वस्य बोध्यम् ।
[यथा चास्मिन् देवयाने पथि स्वस्ति भूयात्, तथा त्वं सततं प्रयतस्व]
यथा परमेश्वरस्य कृपोपासनासृष्टिविद्यापुरुषार्थैः सहैव वर्तमानानां मनुष्याणां विद्वन्मार्गप्राप्तिस्तत्र सुखं च जायते; तथा नेतरेषा- मिति ।। ५ । ३३ ।।
Subject
पुनर्यथेश्वरो वर्त्तते तथा विद्वद्भिरपि भवितव्यमित्युपदिश्यते॥
Meaning of Anvay
यथेश्वरः समुद्रः समुद्द्रवन्ति भूतानि यस्मात् सः, विश्वव्यचाः विश्वस्मिन् व्यचो=व्याप्तिर्यस्यास्ति सः [असि]= अस्ति, स एकपाद् एकस्मिन् पादे विश्वं यस्यास्ति, अजः यः कदाचिन्न जायते [असि]=अस्ति, अहिः समस्तविद्यासु व्यापनशीलः बुध्न्यः बुध्ने=अन्तरिक्षे भवः [असि]=अस्ति, [वाग्] यया वक्ति सा [असि]=अस्ति ।
हे [अध्वनाम्] यथा विद्याधर्मशिल्पमार्गाणां अध्वपते! धर्मव्यवहारमार्गपालयितः! यथैन्द्रं परमैश्वरस्येदं सदः सीदन्ति यस्मिँस्तत् [असि]=अस्ति, यथा स ऋतस्य सत्यस्य=कारणस्य व्यवहारस्य वा द्वारौ बाह्याभ्यन्तरस्थे मुखे न सन्तापयतितथा [मा] मां मा [सं ताप्तम्]=सन्तापयेः न सन्तपे:, [मा] मां [प्र।तिर] प्रकृष्टं तारय ।
यथा चास्मिन् प्रत्यक्षेदेवयाने विदुषां गमनागमनाधिकरणे पथि मार्गेस्वस्ति सुखंभूयात् भवतु तथा त्वं सततं प्रयतस्व ।। ५ । ३३ ।।
[यथेश्वर:......अहिः [असि]=अस्ति, [वाग्] [असि]=अस्ति]
Special
मधुच्छन्दाः । अग्नि:=ईश्वरः।। ब्राह्मी पंक्तिः । पञ्चमः ॥