Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 32

43 Mantra
5/32
Devata- अग्निर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- स्वराट् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्यूर॑सि दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑। स॒म्राड॑सि कृ॒शानुः॑ परि॒षद्यो॑ऽसि॒ पव॑मानो॒ नभो॑ऽसि प्र॒तक्वा॑ मृ॒ष्टोऽसि हव्य॒सूद॑नऽऋ॒तधा॑मासि॒ स्वर्ज्योतिः॥३२॥

उ॒शिक्। अ॒सि॒। क॒विः। अङ्घा॑रिः। अ॒सि॒। बम्भा॑रिः। अ॒व॒स्यूः। अ॒सि॒। दुव॑स्वान्। शु॒न्ध्यूः। अ॒सि॒। मा॒र्जा॒लीयः॑। स॒म्राडिति॑ स॒म्ऽराट्। अ॒सि॒। कृ॒शानुः॑। प॒रि॒षद्यः॑। प॒रि॒षद्य॒ इति॑ परि॒ऽसद्यः॑। अ॒सि॒। पव॑मानः। नभः॑। अ॒सि॒। प्र॒तक्वेति॑ प्र॒ऽतक्वा॑। मृ॒ष्टः। अ॒सि॒। ह॒व्य॒सूद॑न॒ इति॑ हव्य॒ऽसूद॑नः। ऋ॒तधा॒मेत्यृ॒तऽधा॑मा। अ॒सि॒। स्व॑र्ज्योति॒रिति॒ स्वः॑ऽज्योतिः॑ ॥३२॥

Mantra without Swara
उशिगसि कविरङ्ङ्घारिरसि बम्भारिरवस्यूरसि दुवस्वाञ्छुन्ध्यूरसि मार्जालीयः सम्राडसि कृशानुः परिषद्यो सि पवमानो नभोसि प्रतक्वा मृष्टोसि हव्यसूदनऽऋतधामासि स्वर्ज्यातिः समुद्रोसि ॥

उशिक्। असि। कविः। अङ्घारिः। असि। बम्भारिः। अवस्यूः। असि। दुवस्वान्। शुन्ध्यूः। असि। मार्जालीयः। सम्राडिति सम्ऽराट्। असि। कृशानुः। परिषद्यः। परिषद्य इति परिऽसद्यः। असि। पवमानः। नभः। असि। प्रतक्वेति प्रऽतक्वा। मृष्टः। असि। हव्यसूदन इति हव्यऽसूदनः। ऋतधामेत्यृतऽधामा। असि। स्वर्ज्योतिरिति स्वःऽज्योतिः॥३२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उशिक्) कान्तिमान् (असि) (कवि:) क्रान्तप्रज्ञः कान्तदर्शनो वा (अंघारिः) अंघस्य=कुटिलगामिनो जीवस्यारि: शत्रु: (असि) (बम्भारिः) बन्धस्यारिः। अत्र वर्णव्यत्ययेन धस्य भः (अवस्यू:) योऽवसीव्यति तारादितन्तून् सन्तानयति येन वा सः (असि) (दुवस्वान्) दुवः=प्रशस्तं परिचरणं विद्यते यस्य सः (शुन्ध्यू:) शुद्ध: (असि) (मार्जालीयः) शोधकः। स्थाचतिमृजेरालचघालञालीयवः। उ० १ । ११६।अनेन सूत्रेणात्र मृजूष् शुद्धौ इत्यस्मादालीयच् प्रत्ययः (सम्राट्) यथा सम्यग्राजते तथा (असि) (कृशानु:) तमूकर्त्ता (परिषद्यः) परिषदि भवः (असि) (पवमानः) पवित्रकारकः (नभः) यो नभते=हन्ति परपदार्थहर्त्तृन् सः। नभत् इति वधकर्मसु पठितम् ॥ निघं० २। १९॥ (असि) (प्रतक्वा) यथा प्रतकति=प्रकर्षेण हर्षतीति । अत्रान्येभयोपि दृश्यन्त इति वनिप्, तथा (मृष्टः) यो मर्षति मर्षयति वा (असि) (ऋतधामा) यथा सत्यं जलं वा दधाति तथा (असि) (स्वर्ज्योतिः) यथा स्वरन्तरिक्षलोकसमूहं द्योतते तथा ।। ३२।।
Essence
अत्रोपमालङ्कारः ।। येन जगदीश्वरेण यादृग्गुणेन जगन्निर्मितं तादृग्गुणेन प्रसिद्धः स सर्वैर्मनुष्यैरुपासनीयः ।। ५ । ३२ ।।
Subject
पुनस्तौ कीदृशावित्युपदिश्यते॥
Meaning of Anvay
हे भगवन् ! यतस्त्वम् उशिक् कान्तिमान् असि,अंघारिः अंघस्य=कुटिलगामिनो जीवस्यारि:=शत्रु : कविः क्रान्तप्रज्ञः क्रान्तदर्शनो वा असि, बम्भारिः बन्धस्यारि: अवस्यू: योऽवसीव्यति तारादितन्तून् सन्तानयति येन वा सः असि, दुवस्वान् दुवः=प्रशस्तं परिचरणं विद्यते यस्य सः शुन्ध्यू: शुद्ध: मार्जालीयः शोधकः असि, [सम्राट्] यथा सम्यग् राजते तथा [कृशानु:] तनूकर्त्ता [असि] पवमानः पवित्रकारक: परिषद्यः परिषदि भवः असि।
यथा प्रतक्वा यथा प्रतकति=प्रकर्षेण हर्षतीति तथान्तरिक्षप्रकाशको नभः यो नभते=हन्ति परपदार्थहर्तृन् सः असि, यथा हव्यसूदनः यथा हव्यानि सूदते तथा मृष्टः यो मर्षति मर्षयति वा असि।
यथा स्वर्ज्योतिः यथा स्वरन्तरिक्षलोकसमूहं द्योतते तथा,ऋतधामा यथा सत्यं जलं वा दधाति तथा, असि। तथा सत्यस्थायी वर्तसे तथैव तत्तद्गुणेन प्रसिद्धो भवान् सर्वैरुपासनीयोऽस्तीति विजानीमः॥५ । ३२ ॥

[हे भगवन्! यतस्त्वमुशिगसि........ऋतधामासि=तथासत्यस्थायी वर्तसे तथैव तत्तद्गुणेन प्रसिद्धो भवान् सर्वैरुपासनीयोऽस्ति]
Special
मधुच्छन्दाः। अग्निः=ईश्वरो विद्वांश्च ॥ स्वराड् ब्राह्मी त्रिष्टुप्। धैवतः ॥