Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 3

43 Mantra
5/3
Devata- यज्ञो देवता Rishi- गोतम ऋषिः Chhand- आर्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
भव॑तं नः॒ सम॑नसौ॒ सचे॑तसावरे॒पसौ॑। मा य॒ज्ञꣳ हि॑ꣳसिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑॥३॥

भव॑तम्। नः॒। सम॑नसा॒विति॒ सऽम॑नसौ। सचे॑तसा॒विति॒ सऽचे॑तसौ। अ॒रे॒पसौ॑। मा। य॒ज्ञम्। हि॒सि॒ष्ट॒म्। मा। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। जा॒त॒वे॒द॒सा॒विति॑ जातऽवेदसौ। शि॒वौ। भ॒व॒त॒म्। अ॒द्य। नः॒ ॥३॥

Mantra without Swara
भवतन्नः समनसौ सचेतसावरेपसौ । मा यज्ञँ हिँसिष्टंम्मा यज्ञपतिञ्जातवेदसौ शिवौ भवतमद्य नः ॥

भवतम्। नः। समनसाविति सऽमनसौ। सचेतसाविति सऽचेतसौ। अरेपसौ। मा। यज्ञम्। हिसिष्टम्। मा। यज्ञपतिमिति यज्ञऽपतिम्। जातवेदसाविति जातऽवेदसौ। शिवौ। भवतम्। अद्य। नः॥३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(भवतम्) स्यातम् (नः) अस्मभ्यम् (समनसौ ) समानं मनो=विज्ञानं ययोस्तौ (सचेतसौ) समानं चेतसं=ज्ञानं संज्ञापनं ययोस्तौ (अरेपसौ) अविद्यमानं रेपौ=व्यक्तं प्राकृतं वचनं ययोरध्येत्रध्यापकयोस्तौ (मा) निषेधार्थे (यज्ञम्) अध्ययनाध्यापनाख्यं कर्म (हिंसिष्टम्) हिंस्याताम् (मा) निषेधार्थे (यज्ञपतिम्) एतद्यज्ञपालयितारम् (जातवेदसौ) जातं वेदो=विद्या ययोस्तौ (शिवौ) मङ्कलकारिणौ (भवतम्) भवेतम् (अद्य) अस्मिन् दिने (नः) अस्मभ्यम्॥ अयं मंत्रः शत० ३। ४ । १ । २४ व्याख्यातः॥ ३॥
Essence
मनुष्यैर्नैव कदाचित् विद्याप्रचारायाध्ययनमध्यापनं च त्यक्तव्यं मङ्गलाचरणं चास्य सर्वोत्कृष्टत्वात् ॥ ५ । ३ ॥
Subject
यजमानयज्ञसम्पादकौ कीदृशौ भवेतामित्युपदिश्यते॥
Meaning of Anvay
यावरेपसौअविद्यमानं रेपो=व्यक्तं प्राकृतं वचनं ययोरध्येत्रध्यापकयोस्तौ समनसौ समानं मनो=विज्ञानं ययोस्तौ सचेतसौ समानं चेतसं=ज्ञानं संज्ञापनं ययोस्तौ जातवेदसौ=अध्येतृ-अध्यापकौ जातं वेदो=विद्या ययोस्तौ, नः=अस्मभ्यमुपदेष्टारौ भवतं=स्यातांतौ यज्ञम् अध्ययनाध्यापनाख्यं कर्म यज्ञपतिम् एतद्यज्ञ-पालयितारंच मा हिसिष्टं=मा= हिंस्याताम्।
एतावद्य अस्मिन् दिने नः अस्मभ्यं शिवौ=मंगलकारिणौ भवतं=स्यातांभवेतम् ।। ५ । ३ ।।
[यावरेपसौ........जातवेदसावध्येत्रध्यापकौ नः=अस्मभ्यभुदेष्टारौ भवतं=स्यातां, तौ यज्ञं यज्ञपतिं च मा हिंसिष्टम्=मा हिंस्याताम् एतावद्य नः=अस्मभ्यं शिवौ=मङ्गलकारिणौ भवतं=स्याताम् ]
Special
गोतमः । यज्ञः=स्पष्टम् । आर्षीपंक्ति: । पंचमः॥