Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 27

43 Mantra
5/27
Devata- यज्ञो देवता Rishi- औतथ्यो दीर्घतमा ऋषिः Chhand- ब्राह्मी जगती, Swara- निषादः
Mantra with Swara
उद्दिव॑ꣳ स्तभा॒नान्तरि॑क्षं पृण॒ दृꣳह॑स्व पृथि॒व्यां द्यु॑ता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णौ ध्रु॒वेण॒ धर्म॑णा। ब्र॒ह्म॒वनि॑ क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि। ब्रह्म॑ दृꣳह क्ष॒त्रं दृ॒ꣳहायु॑र्दृꣳह प्र॒जां दृ॑ꣳह॥२७॥

उत्। दिव॑म्। स्त॒भा॒न॒। आ। अ॒न्तरि॑क्षम्। पृ॒ण॒। दृꣳह॑स्व। पृ॒थि॒व्याम्। द्यु॒ता॒नः। त्वा॒। मा॒रु॒तः। मि॒नो॒तु॒। मि॒त्राव॑रुणौ। ध्रु॒वेण॑। धर्म॑णा। ब्र॒ह्म॒वनीति॑ ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। रा॒य॒स्पो॒ष॒वनीति॑ रायस्पोष॒ऽवनि॑। परि॑। ऊ॒हा॒मि॒। ब्रह्म॑। दृ॒ꣳह॒। क्ष॒त्रम्। दृ॒ꣳह॒। आयुः॑। दृ॒ꣳह॒। प्र॒जामिति॑ प्र॒ऽजाम्। दृ॒ꣳह॒॑ ॥२७॥

Mantra without Swara
उद्दिवँ स्तभानान्तरिक्षम्पृण दृँहस्व पृथिव्यान्द्युतानास्त्वा मारुतो मिनोतु मित्रावरुणौ धु्रवेण धर्मणा । ब्रह्मवनि त्वा क्षत्रवनि त्वा रायस्पोषवनि पर्यूहामि । ब्रह्म दृँह क्षत्रन्दृँहायुर्दृँह प्रजान्दृँह ॥

उत्। दिवम्। स्तभान। आ। अन्तरिक्षम्। पृण। दृꣳहस्व। पृथिव्याम्। द्युतानः। त्वा। मारुतः। मिनोतु। मित्रावरुणौ। ध्रुवेण। धर्मणा। ब्रह्मवनीति ब्रह्मऽवनि। त्वा। क्षत्रवनीति क्षत्रऽवनि। रायस्पोषवनीति रायस्पोषऽवनि। परि। ऊहामि। ब्रह्म। दृꣳह। क्षत्रम्। दृꣳह। आयुः। दृꣳह। प्रजामिति प्रऽजाम्। दृꣳह॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उत्) उत्कृष्टे (दिवम्) प्रकाशम् (स्तभान) (अन्तरिक्षम्) प्रकाशं तत्रस्थप्राणिवर्गं च । अत्र तात्थ्योपाधिना प्राणिनामपि ग्रहणम् (पृण) अत्रान्तर्भाविणिजर्थ: (दृंहस्व) वर्धय (पृथिव्याम्) भूमौ (द्युतान:) यथा दिवं=सद्विद्यागुणं विस्तारयति तथा (त्वा) त्वाम् (मारुतः) वायुः (मिनोतु) प्रक्षिपति (मित्रावरुणौ) यथा प्राणापानौ तथा (ध्रुवेण) निश्चलेन (धर्मणा) धर्मेण (ब्रह्मवनि) यथाबलविद्यासंभाजितारं तथा । अत्र सर्वत्र सुपां सुलुगिति विभक्तेर्लुक् (त्वा) त्वाम् (क्षत्रवनि) क्षत्रस्य= राज्यस्य संसेवयितारं तथा (रायस्पोषवनि) यथा रायो=धनसमूहस्य पोषं=पुष्टिं वनन्ति=सेवन्ते यस्मात्तथा (परि) सर्वतः (ऊहामि) वितर्कयामि (ब्रह्म) विद्यां विद्वांसं वा (दृंह) वर्धय वर्धयति वा (क्षत्रम्) राज्यं क्षण्यते=हिंस्यते नश्यते पदार्थो येन सः क्षतो=घातादिस्ततस्त्रायते=रक्षतीति क्षत्रः=क्षत्रियादिवीरस्तम् (दृंह) वर्धय (आयु:) जीवनम् (दृंह) वर्धय (प्रजाम्) उत्पादनीयाम् (दृंह) वर्धय॥ अयं मंत्रः शत०३।६।१ । १५-१८ व्याख्यातः ॥ २७ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ।। हे मनुष्या ! यूयं यथा जगदीश्वरः सत्यभावेन प्रार्थितः, सद् विद्वांश्च सेवितः सर्वान् सुखयति, तथैवायं यज्ञो विद्यादीन् संवर्ध्य सर्वान् मनुष्यादीन् प्राणिनः सुखयतीति विजानीत ।। ५ । २७ ।।
Subject
सेवितः सभाध्यक्षोऽनुष्ठितो यज्ञश्च किं करोतीत्युपदिश्यते॥
Meaning of Anvay
हे परमविद्वन् ! यथा त्वा=त्वां मारुतो वायुः ध्रुवेण निश्चलेन धर्मणा धर्मेण मिनोतु प्रक्षिपति, मित्रावरुणौ यथा प्राणापानौ तथा, मिनुतस्तथा त्वं कृपयाऽस्मदर्थं दिवं प्रकाशं [उत्+स्तभान]=उत्तभान, अन्तरिक्षम् आकाशं तत्रस्थ प्राणिवर्गं च पृण [दृँहस्व] वर्धय।
पृथिव्यांभूमौद्युतानः यथा दिवं=सद्विद्यागुणं विस्तारयति तथा,सन् सुखानि दृंह वर्धय, ब्रह्म विद्यां विद्वांसं वा दृंह वर्धय वर्धयति वा क्षत्रं राज्यं क्षण्यते=हिंस्यते नश्यते पदार्थो येन स क्षतः=घातादिस्ततस्त्रायते=रक्षतीति क्षत्रः=क्षत्रिया दिवीरस्तं, दृंह वर्धय, आयुः जीवनं दृंह वर्धय प्रजाम् उत्पादनीयां दृंह वर्धय ।
[ब्रह्मवनि] ब्रह्मवनिं यथा बलविद्यासंभानितारं तथा, [क्षत्रवनि] क्षत्रवनिं क्षत्रस्य=राज्यस्य संसेवयितारं तथा, [रायस्पोषवनि] रायस्पोषवनिं यथा रायो=धनसमूहस्य पोषं=पुष्टिं वनन्ति=सेवन्ते यस्मात्तथा,त्वामहं पर्यूहामि सर्वतो वितर्कयामि तथा त्वां सर्वे मनुष्याः पर्यूहन्तु ॥ ५ । २७ ।।
[हे परम विद्वन्! यथा त्वा=त्वां मारुतो ध्रुवेण धर्मणा मिनोतु.......तथा त्वं कृपयाऽस्मदर्थं दिवं [उत्+स्तभान]
उत्तभान, अन्तरिक्षं पृण]
Special
औतथ्यो दीर्घतमाः । यज्ञः=स्पष्टम् ॥ ब्राह्मी जगती। निषादः॥