Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 24

43 Mantra
5/24
Devata- सूर्यविद्वांसौ देवते Rishi- औतथ्यो दीर्घतमा ऋषिः Chhand- भूरिक् आर्षी अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
स्व॒राड॑सि सपत्न॒हा स॑त्र॒राड॑स्यभिमाति॒हा ज॑न॒राड॑सि रक्षो॒हा स॑र्व॒राड॑स्यमित्र॒हा॥२४॥

स्व॒राडिति॑ स्व॒ऽराट्। अ॒सि॒। स॒प॒त्न॒हेति॑ सपत्न॒ऽहा। स॒त्र॒राडिति॑ सत्र॒ऽराट्। अ॒सि॒। अ॒भि॒मा॒ति॒हेत्य॑भिमाति॒ऽहा। ज॒न॒राडिति॑ जन॒ऽराट्। अ॒सि॒। र॒क्षो॒हेति॑ रक्षः॒ऽहा। स॒र्व॒राडिति॑ सर्व॒ऽराट्। अ॒सि॒। अ॒मि॒त्र॒हेत्य॑मित्र॒ऽहा ॥२४॥

Mantra without Swara
स्वराडसि सपत्नहा सत्रराडस्यभिमातिहा जनराडसि रक्षोहा सर्वराडस्यमित्रहा ॥

स्वराडिति स्वऽराट्। असि। सपत्नहेति सपत्नऽहा। सत्रराडिति सत्रऽराट्। असि। अभिमातिहेत्यभिमातिऽहा। जनराडिति जनऽराट्। असि। रक्षोहेति रक्षःऽहा। सर्वराडिति सर्वऽराट्। असि। अमित्रहेत्यमित्रऽहा॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(स्वराट्) यः स्वयं राजते सः (असि) अस्तिवा। अत्र सर्वत्र पक्षे व्यत्ययः (सपत्नहा) यः सपत्नान्=शत्रून् मेघावयमान् वा हन्ति सः (सत्रराट्) यः सत्रेषु=यज्ञेषु राजते सः (असि) अस्तिवा (अभिमातिहा) येऽभिमिमत इत्यभिमातयस्तान् हन्ति सः। अत्रौणादिकः क्तिच् (जनराट्) यो जनेषु=धार्मिकेषु विद्वत्सु राजते सः (असि) अस्तिवा (रक्षोहा) यो रक्षांसि=दुष्टान् हन्ति सः (सर्वराट्) यः सर्वस्मिन् राजते सः (असि) अस्ति वा (अमित्रहा) यो येन वाऽमित्रान्=शत्रून् हन्ति सः।। अयं मंत्रः शत० ३।५।४ । १४ व्याख्यातः ॥ २४॥
[विद्वान्]
Essence
अत्र श्लेषालङ्कारः॥ हे विद्वन्! यथा सूर्यः स्वप्रकाशेन चोरव्याघ्रादीन भीषयित्वा सर्वान् सुखयति, तथैव त्वं शत्रून् निवार्य प्रजाः सुखय ।। ५ ।२४ ।।
Subject
अथ सूर्यसभाद्यध्यक्षगुणा उपदिश्यन्ते॥
Meaning of Anvay
हे विद्वन् मनुष्य ! यतस्त्वं स्वराट् य स्वयं राजते सः, असि, तस्मात् सपत्नहा यः सपत्नान्=शत्रून् हन्ति सः असि=भवसि। यतस्त्वं सत्रराट् यः सत्रेषु=यज्ञेषु राजते सः असि, तस्मादभिमातिहा येऽभिमिमत इत्यभिमातयस्तान् हन्ति सः, वर्तसे। यतस्त्वं जनराट् यो जनेषु=धार्मिकेषु विद्वत्सु राजते सः, असि, तस्माद्रक्षोहा यो रक्षांसि=दुष्टान् हन्ति सः, असि= भवसि। यतस्त्वं सर्वराट् यः सर्वस्मिन् राजते सः, असि, तस्मादमित्रहा योऽमित्रान्=शत्रून् हन्ति सः, असि=भवसीत्येकः॥
[सूर्यः]
यतोऽयं सूर्यलोकः स्वराट् यः स्वयं राजते सः, [असि] अस्ति तस्मात् सपत्नहा मेघावयवान् हन्ति सः, [असि]=भवति। यतोऽयं सत्रराट् यः सत्रेषु=यज्ञेषु राजते सः [असि]=अस्ति तस्मादभिमातिहा ये अभिमिमत इत्यभि मातयस्तान् हन्ति सः [असि] वर्तते । यतोऽयं जनराट् यो जनेषु=धार्मिकेषु विद्वत्सु राजते सः [असि] अस्ति तस्माद्रक्षोहा यो रक्षांसि=दृष्टान् हन्ति सः जायते। यतोऽयं सर्वराट् यः सर्वस्मिन् राजते सः [अस्ति] अस्ति तस्मादमित्रहा यो येन वाऽमित्रान्=शत्रून् हन्ति सः, वर्तत इति द्वितीयः।। ५ । २४ ।।
[हे विद्वन्मनुष्य! यतस्त्वं स्वराडसितस्मात् सपत्नाहऽसि=भवसि......]
Special
औतथ्यो दीर्घतमाः। सूर्यविद्वांसौ=स्पष्टम्॥ भुरिगार्ष्यनुष्टुप् । गान्धारः॥