Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 23

43 Mantra
5/23
Devata- यज्ञो देवता Rishi- औतथ्यो दीर्घतमा ऋषिः Chhand- याजुषी बृहती,भूरिक् अष्टि,स्वराट् ब्राह्मी उष्णिक्, Swara- मध्यमः, गान्धारः, ऋषभः
Mantra with Swara
र॒क्षो॒हणं॑ बलग॒हनं॑ वैष्ण॒वीमि॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॑ समा॒नो यमस॑मानो निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खाने॒दम॒हं तं ब॑ल॒गमुत्कि॑रामि॒ यं मे॑ सजा॒तो यमस॑जातो निच॒खानोत्कृ॒त्य-ङ्कि॑रामि॥२३॥

र॒क्षो॒हण॑म्। र॒क्षो॒हन॒मिति॑ रक्षःऽहन॑म्। ब॒ल॒ग॒हन॒मिति॑ बलऽग॒हन॑म्। वै॒ष्ण॒वीम्। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। निष्ट्यः॑। यम्। अ॒मात्यः॑। नि॒च॒खानेति॑ निऽच॒खान॑। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। स॒मा॒नः। यम्। अस॑मानः। नि॒च॒खानेति॑ निऽच॒खान॑। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। सब॑न्धु॒रिति॒ सऽब॑न्धुः। यम्। अस॑बन्धु॒रित्यस॑ऽबन्धुः। नि॒च॒खानेति॑ निऽच॒खान॑। इ॒दम्। अ॒हम्। तम्। ब॒ल॒गम्। उत्। कि॒रा॒मि॒। यम्। मे॒। स॒जा॒त इति॑ सऽजा॒तः। यम्। अस॑जातः। नि॒च॒खानेति॑ निऽच॒खान॑। उत्। कृ॒त्याम्। कि॒रा॒मि॒ ॥२३॥

Mantra without Swara
रक्षोहणँवलगहनँवैष्णवीमिदमहन्तँ वलगमुत्किरामि यम्मे निष्ट्यो यममात्यो निचखानेदमहन्तँ वलगमुत्किरामि यम्मे समानो यमसमानो निचखानेदमहन्तँ वलगमुत्किरामि यम्मे सबन्धुर्यमसबन्धुर्निचखानेदमहन्तँ वलगमुत्किरामि यम्मे सजातो यमसजातो निचखानोत्कृत्याङ्किरामि ॥

रक्षोहणम्। रक्षोहनमिति रक्षःऽहनम्। बलगहनमिति बलऽगहनम्। वैष्णवीम्। इदम्। अहम्। तम्। बलगम्। उत्। किरामि। यम्। मे। निष्ट्यः। यम्। अमात्यः। निचखानेति निऽचखान। इदम्। अहम्। तम्। बलगम्। उत्। किरामि। यम्। मे। समानः। यम्। असमानः। निचखानेति निऽचखान। इदम्। अहम्। तम्। बलगम्। उत्। किरामि। यम्। मे। सबन्धुरिति सऽबन्धुः। यम्। असबन्धुरित्यसऽबन्धुः। निचखानेति निऽचखान। इदम्। अहम्। तम्। बलगम्। उत्। किरामि। यम्। मे। सजात इति सऽजातः। यम्। असजातः। निचखानेति निऽचखान। उत्। कृत्याम्। किरामि॥२३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(रक्षोहणम्) यथा येन धार्मिकेण पुरुषेण रक्षांसि हन्यन्ते तथा (बलगहनम्) यथा यो बलानि गाहते तम्। अत्र गाहूधातोर्बाहुलकादौणादिकः क्युः प्रत्ययो ह्रस्वत्वं च (वैष्णवीम्) विष्णोर्व्यापकस्येमां वाचम् (इदम्) कर्म (अहम्) कर्मानुष्ठाता (तम्) यज्ञम् (बलगम्) बलं गच्छन्तम् (उत्) उत्कृष्टम् (किरामि) विक्षिपामि (यम्) यज्ञम् (मे) मम (निष्ट्यः) नेशन्ति=समादधते येन यज्ञेन तत्सहितः साधुर्विद्वान्। अत्र निशधातोर्बाहुलकादौणादिकस्तः प्रत्ययस्ततो यत् (यम्) यज्ञम् (अमात्यः) मेधावी खानकः प्रधानभृत्यः (निचखान) यथा नितरां खातवान् (इदम्) भूगर्भविद्यापरीक्षार्थं स्थानम् (अहम्) भूगर्भविद्यावेत्ता (तम्) कृष्याद्याख्यं यज्ञम् (बलगम्) बलप्रापकम् (उत्) उत्कृष्टे (किरामि) (यम्) अध्ययनाध्यापनाख्यम् (मे) मम (समानः) सदृश: (यम्) पूर्वोक्तम् (असमानः) असदृश: (निचखान) यथा नितरां खनति (इदम्) कर्म (अहम्) अध्यापकोऽध्येता वा (तम्) (बलगम्) आत्मबलप्रापकम् (उत्) उत्कृष्टे (किरामि) विक्षिपामि (यम्) परस्परं पालनहेतुं यज्ञम् (मे) मम (सबन्धुः) यथा समाना बन्धवो यस्य मित्रस्य सः (यम्) पूर्वोक्तम् (असबन्धुः) यथा असमाना बन्धवो यस्य सः (निचखान) यथा नितरां खातवान् खनति वा (इदम्) कर्म (अहम्) सर्वसुहृत् (तम्) (बलगम्) राज्यबलप्रापकम् (उत्) उत्कृष्टे (किरामि) प्रक्षिपामि (यम्) उत्कर्षप्रापकम् (मे) मम (सजातः) यथा सहैव जातः (यम्) उक्तम् (असजातः) यथा यः सह न जातः (निचखान) यथा नित्यं खातवान् खनति वा (उत्) उत्कृष्टे (कृत्याम्) करोति यया ताम् (किरामि) प्रक्षिपामि॥ अयं मंत्र: शत० ३।५।४। ८-१२ व्याख्यातः॥ २३ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ मनुष्यैरस्यामीश्वरसृष्टौ धार्मिकविद्वदनुकरणं कार्यं नेतरेषामिति ।। ५ । २३ ।।
Subject
सृष्टेर्मनुष्यैः कीदृश उपकारो ग्राह्य इत्युपदिश्यते॥
Meaning of Anvay
हे विद्वन् मनुष्य ! यथा कश्चिद् बलगहनं यथा यो बलानि गाहते तं यथा रक्षोहणं यथा येनधार्मिकेण पुरुषेण रक्षांसि हन्यन्ते तथा, वैष्णवीं विष्णो=व्यापिकस्येमां वाचमनुष्ठाय यं (यज्ञं) बलगं=यज्ञं बलं गच्छन्तं[इदम्] कर्म [च] यथाहं कर्मानुष्ठाता उत्किरामि उत्कृष्टं विक्षिपामि तथा त्वमप्येतमुत्किर।
यथा कस्यचिन्मे=मम निष्ट्यः नेशन्ति=समादधते येन यज्ञेन तत् सहितः साधुर्विद्वान् अमात्यो मेधावी खानकः प्रधानभृत्यः यं= यज्ञमिदं=स्थानादि च भूगर्भ-विद्या-परीक्षार्थं स्थानं निचखान यथा नितरां खातवान् तथा तव भृत्यो निखनतु ।
यथाऽहं भूगर्भविद्यावेत्ता यं पूर्वोक्तं बलगं बलप्रापकंयज्ञमुत्किरामि उत्कृष्टं विक्षिपामि तथा तं कृष्याद्याख्यं यज्ञं त्वमप्युत्किर।
यथा मे=मम वा समानः सदृश: असमानः असदृशः च यं=यज्ञं अध्ययनाध्यापनाख्यम् इदं=कर्म च निचखान यथा नितरां खनति तथा तवापि निखनतु।
यथाऽहम् अध्यापकोऽध्येता वा यम् अध्ययनाध्यापनाख्यम् बलगम् आत्मबलप्रापकं यज्ञमुत्किरामि उत्कृष्टं विक्षिपामि तथा त्वमप्येतमुत्किर।
यथा मे=ममः सबन्धुः यथा समाना बन्धवो यस्य मित्रस्य सः असबन्धुः यथा असमाना बन्धवो यस्य सः च यं परस्परं पालन-हेतुं यज्ञमिदं=कर्म च निचखान यथा नितरां खातवान् खनति वा तथा तवापि चैतं निखनतु।
यथाऽहं सर्वसुहृद्यं पूर्वोक्तंबलगं=यज्ञं राज्यबलप्रापकम् उत्किरामि उत्कृष्टं प्रक्षियामि तथा त्वमप्येतमुत्किर।
यथा मे=मम सजातः यथा सहैव जातः असजातः यथा यः सह न जातः च यम् उत्कर्षप्रापकम् यज्ञं कृत्यां करोति यया तां निचखान यथा नित्यं खातवान् खनति वा तथा तवाप्येतमेतां च निखनतु।
यथाऽहं सर्वसुहृत् एतत्सर्वमुत्किरामि उत्कृष्टं प्रक्षिपामि तथा त्वमप्येनमुत्किर॥ ५। २३ ।।
[हे विद्वन्मनुष्य! ......बलगं=यज्ञं यथाहमुत्किरामि तथा त्वमप्येतमुत्किर......]
Special
दीर्घतमाः । यज्ञः=उपकारः॥आद्यस्य याजुषी बृहती। मध्यमः। आसुरी गायत्री । षड्जः। निष्ट्य इत्यस्य ब्राह्म्यनुष्टुप्। गान्धारः। यम्मे सबन्धुरित्युत्तरस्य स्वराड् ब्राह्म्युष्णिक् ऋषभः ॥