Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 21

43 Mantra
5/21
Devata- विष्णुर्देवता Rishi- औतथ्यो दीर्घतमा ऋषिः Chhand- भूरिक् आर्ची पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
विष्णो॑ र॒राट॑मसि॒ विष्णोः॒ श्नप्त्रे॑ स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णोर्ध्रु॒वोऽसि॒। वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा॥२१॥

विष्णोः॑। र॒राट॑म्। अ॒सि॒। विष्णेः॑। श्नप्त्रे॒ऽइति॒ श्नप्त्रे॑। स्थः॒। विष्णोः॑। स्यूः। अ॒सि॒। विष्णोः॑। ध्रु॒वः। अ॒सि॒। वै॒ष्ण॒वम्। अ॒सि॒। विष्ण॑वे। त्वा॒ ॥२१॥

Mantra without Swara
विष्णो रराटमसि विष्णोः श्नप्त्रे स्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोसि । वैष्णवमसि विष्णवे त्वा ॥

विष्णोः। रराटम्। असि। विष्णेः। श्नप्त्रेऽइति श्नप्त्रे। स्थः। विष्णोः। स्यूः। असि। विष्णोः। ध्रुवः। असि। वैष्णवम्। असि। विष्णवे। त्वा॥२१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विष्णो:) व्यापकस्य सकाशात् (रराटम्) परिभाषितं जगत् (असि) अस्ति । अत्र सर्वत्र व्यत्ययः (विष्णोः)सर्वत्राभिप्रविष्टस्य (श्नप्त्रे) शुद्धे इव । अत्र ष्णा शौच इत्यस्य वर्णव्यत्ययेन सस्य शः (स्थः) तिष्ठतः (विष्णोः) सर्वसुखाभिव्याप्तात् (स्यूः) यः सीव्यति सः (असि) अस्ति (विष्णोः) सर्वजगत्पालकात् (ध्रुवः) निश्चल: (असि) अस्ति (वैष्णवम्) यद् विष्णोर्यज्ञस्येदं साधनं साधकं वा तत् (असि) अस्ति (विष्णवे) यज्ञाय (त्वा) त्वाम् ॥ अयं मंत्र: शत० ३।५। ३। २४-२५।।
व्याख्यातः॥ २१॥
Essence
मनुष्यैः सर्वस्यास्यजगतः परमेश्वर एव रचको, धारको, व्यापक इष्टदेवोइस्तीति विज्ञाय सर्वकामसिद्धिः सम्पादनीया॥ ५ । २१ ।।
Subject
पुनः स कथंभूत इत्युपदिश्यते ।।
Meaning of Anvay
यदिदं विविधं जगदसि=अस्ति तद्विष्णोः व्यापकस्य सकाशात् रराटम् परिभाषितं जगत् असि=अस्ति, विष्णो: सकाशादुत्पद्य वर्तत इति यावत्।
विष्णोः सर्वसुखाभिव्याप्तात् स्यूः यः सीव्यति सः असि=अस्ति, [विष्णोः] सर्वजगत्पालकात् [ध्रुवः] निश्चल: [असि] अस्ति, सर्वं जगद्वैष्णवं यद् विष्णोर्यज्ञस्येदं साधनं साधकं वा तत् असि=अस्ति ।
यस्य विष्णोः सर्वत्राभिप्रविष्टस्य जगति द्वेश्नप्त्रे इव=शुद्धे इव जडचेतनसमूहौ स्थः=वर्तेते तिष्ठतः, तं सर्वजगदुत्पादकं जगदीश्वरं [त्वा] त्वां विष्णवे=यज्ञानुष्ठानाय वयमाश्रयामः ॥५ । २१ ।।
[यदिदं त्रिविधं जगदसि=अस्ति, तद् विष्णो रराटमसि=अस्ति, स्यूरसि=अस्ति, [ध्रुवः] असि=अस्ति, तं सर्वजगदुत्पादकं जगदीश्वरं [त्वा] त्वां विष्णवे=यज्ञानुष्ठानाय वयमाश्रयामः]
Special
औतथ्यो दीर्घतमाः। विष्णु:=ईश्वरः [जगदीश्वरः] ॥ भुरिगार्ची पंक्तिः। पञ्चमः ॥