Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 20

43 Mantra
5/20
Devata- विष्णुर्देवता Rishi- औतथ्यो दीर्घतमा ऋषिः Chhand- विराट् आर्ची त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
प्र तद्विष्णु॑ स्तवते वी॒र्य्येण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः। यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑॥२०॥

प्र। तत्। विष्णुः॑। स्त॒व॒ते॒। वी॒र्ये᳖ण। मृ॒गः। न। भी॒मः। कु॒च॒रः। गि॒रि॒ष्ठाः। गि॒रि॒स्था इति॑ गिरि॒ऽस्थाः। यस्य॑। उ॒रुषु॑। त्रि॒षु। वि॒क्रम॑णे॒ष्विति॑ वि॒ऽक्रम॑णेषु। अ॒धि॒क्षि॒यन्तीत्य॑धिऽक्षि॒यन्ति॑। भुव॑नानि। विश्वा॑ ॥२०॥

Mantra without Swara
प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥

प्र। तत्। विष्णुः। स्तवते। वीर्येण। मृगः। न। भीमः। कुचरः। गिरिष्ठाः। गिरिस्था इति गिरिऽस्थाः। यस्य। उरुषु। त्रिषु। विक्रमणेष्विति विऽक्रमणेषु। अधिक्षियन्तीत्यधिऽक्षियन्ति। भुवनानि। विश्वा॥२०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्र) प्रकृष्टार्थे (तत्) तस्मात् (विष्णु) व्यापकेश्वर: (स्तवते) स्तौत्युपदिशति। अत्र बहुलं छन्दसीति शपो ह्यलुक् (वीर्येण) पराक्रमेण (मृगः) यो मार्ष्ट्यन्विच्छति बधाय जीवानिति ईश्वरपक्षे तु मार्ष्टि व्यवस्थापनाय जीवानिति (न) इव (भीमः) बिभ्यति जीवा अस्मादिति व्याघ्रः। भीमादयोऽपादान इति निपातनात् (कुचरः) यः कुत्सितं प्राणिवधं चरति। (गिरिष्ठाः) गिरौ तिष्ठतीति। क्विबन्तोऽयं प्रयोगः (यस्य) (उरुषु) बहुषु (त्रिषु) त्रिविधेषु जगत्सु (विक्रमणेषु) विविधक्रमेषु (अधिक्षियन्ति) निवसन्ति (भुवनानि) लोकजातानि (विश्वा) सर्वाणि ॥ अयं मंत्रः शत० ३। ४। ३। २३ व्याख्यातः ।। २०।।
Essence
अत्रोपमालङ्कारः॥ यथा सिंहः स्वपराक्रमेण यथेष्टं विक्रमते तथैव जगदीश्वरः खलु पराक्रमेण सर्वान् लोकान् नियच्छति।। ५ । २० ।।
Subject
पुनः स कथंभूत इत्युपदिश्यते॥
Meaning of Anvay
यस्योरुषु बहुषु त्रिषु त्रिविधेषु जगत्सु विक्रमणेषु विविधक्रमेषु [विश्वा]=विश्वानि सर्वाणिभुवनानि लोकजातानि (अधिक्षियन्ति) निवसन्ति, यश्चासौ विष्णुः व्यापकेश्वरः वीर्येण पराक्रमेण भीमः बिभ्यति जीवा अस्मादिति व्याघ्र कुचरः यः कुत्सितं प्राणिवधं चरति गिरिष्ठा: गिरौ तिष्ठतीति मृगो न=सिंह इव, मार्ष्ट्यन्विच्छति वधाय जीवानिति, ईश्वरपक्षे तु मार्ष्टि व्यवस्थापनाय जीवानिति विचरन् [प्रस्तवते]=उपदिशति प्रकृष्टतयास्तौति=उपदिशति [तत्]=तस्मात् स नैव कदापि विस्मररणीयः ।। ५ । २० ।।
[यस्य.......त्रिषु विक्रमणेषु [विश्वा]=विश्वानि भुवनान्यधिक्षियन्ति, यश्चासौ विष्णुर्वीर्येण........मृगो न=सिंहइव विचरन् [प्रस्तवते]=उपदिशति]
Special
औतथ्यो दीर्घतमाः। विष्णु:=ईश्वरः॥ विराडार्षी त्रिष्टुप्। पञ्चमः।