Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 2

43 Mantra
5/2
Devata- विष्णुर्यज्ञो देवता Rishi- गोतम ऋषिः Chhand- आर्षी गायत्री Swara- षड्जः, धैवतः
Mantra with Swara
अ॒ग्नेर्ज॒नित्र॑मसि॒ वृष॑णौ स्थऽउ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ऽअसि। गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा मन्थामि॒ जाग॑तेन त्वा॒ छन्द॑सा मन्थामि॥२॥

अ॒ग्नेः। ज॒नित्र॑म्। अ॒सि॒। वृष॑णौ। स्थः॒। उ॒र्वशी॑। अ॒सि॒। आ॒युः। अ॒सि॒। पु॒रू॒रवाः॑। अ॒सि॒। गा॒य॒त्रेण॑। त्वा॒। छन्द॑सा। म॒न्था॒मि॒। त्रैष्टु॑भेन। त्वा॒। छन्द॑सा। म॒न्था॒मि॒। जाग॑तेन। त्वा॒। छन्द॑सा। म॒न्था॒मि॒ ॥२॥

Mantra without Swara
अग्नेर्जनित्रमसि वृषणौ स्थऽउर्वश्यस्यायुरसि पुरूरवाऽअसि गायत्रेण त्वा छन्दसा मन्थामि त्रैष्टुभेन त्वा छन्दसा मन्थामि जागतेन त्वा छन्दसा मन्थामि ॥

अग्नेः। जनित्रम्। असि। वृषणौ। स्थः। उर्वशी। असि। आयुः। असि। पुरूरवाः। असि। गायत्रेण। त्वा। छन्दसा। मन्थामि। त्रैष्टुभेन। त्वा। छन्दसा। मन्थामि। जागतेन। त्वा। छन्दसा। मन्थामि॥२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्नेः) आग्नेयास्त्रादेः सिद्धिकरस्य पावकस्य (जनित्रम्) जनकं हविः (असि) भवति। अत्र सर्वत्र व्यत्ययः (वृषणौ) वर्षयितारौ (स्थः) भवतः (उर्वशी) ययोरूणि=बहूनि सुखान्यश्वनुवते सा यज्ञक्रिया। उर्वशीति पदनामसु पठितम् ॥ निघं० ५। ५॥ उर्विति बहुनामसु पठितम् ॥ निघं० ३ । १ ॥ तस्मिन्नुपपदे ‘अशूङ्' धातोः संपदादिभ्यः क्विप्। ततः शार्ङ्गरवाद्यन्तर्गतत्वान्ङीन्(असि) भवति (आयुः) एति जीवनं येन तत् (असि) वर्त्तते (पुरूरवाः) पुरूणि=बहूनि शास्त्राण्युपदिशति येनाध्ययनाध्यापनेन यज्ञेन सः। पुरूरवा इति पदनामसु पठितम् ॥ निघं० ५ । ४ ॥ पुरूरवाः॥ उ० ४। २३२ ॥ अयमनेन पुरूपपदादुरुधातोरसिप्रत्ययान्तेन निपातितः (असि) भवति (गायत्रेण) गायत्री प्रगाथोऽस्य तेन (त्वा) तमग्निम् (छन्दसा) चन्दन्त्यानन्दन्ति येन तेन (मन्थामि) विलोडनादिक्रियया निष्पादयामि (त्रैष्टुभेन) त्रिष्टुप् प्रगाथोऽस्य तेन (त्वा) तं सोमाद्योषधीसमूहम् (छन्दसा) सुखकारकेण (मन्थामि) (जागतेन) जगतीप्रगाथोऽस्य तेन (त्वा) तं सामग्रीसमूहं शत्रुदुःखसमूहं वा (छन्दसा) सुखसम्पादकेन (मन्थामि) विलोड्य निवारयामि ॥ अयं मन्त्रः शत० ३।४ । १ । २०-२३ व्याख्यातः॥ २॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ सर्वैर्मनुष्यैरेवं रीत्योक्तेन यज्ञेन परोपकारकरणं सम्पादनीयम् ॥ ५ । २ ॥
Subject
पुनः स यज्ञः कीदृश इत्युपदिश्यते॥
Meaning of Anvay
हे मनुष्या ! यथाहं यदग्नेः आग्नेयास्त्रादेः सिद्धिकरस्य पावकस्य जनित्रं जनकं हविः असि=भवति, यौ वृषणौ वर्षयितारौ स्थो=भवतः, या उर्वशी ययोरूणि=बहूनि सुखान्यश्नुवते सा यज्ञक्रिया असि=भवति, यः [आयुः] एति जीवनं येन तत् (असि) वर्तते, यः पुरूरवाः पुरूणि=बहूनि शास्त्राण्युपदिशति येनाध्ययनाध्यापनेन यज्ञेन सः असि=भवति, त्वा=तम् अग्निं गायत्रेण गायत्री प्रगाथोऽस्य तेन छन्दसा चन्दन्त्यानन्दन्ति येन तेन मन्थामि विलोडनादिक्रियया निष्पादयामि। त्वा=तं तं सोमाद्योषधीसमूहं त्रैष्टुभेन त्रिष्टुप् प्रगाथोऽस्य तेन छन्दसा सुखकारकेण मन्थामि।
त्वा=तं तं सामग्री-समूहं शत्रु दुःखसमूहं वा जागतेन जगतीप्रगाथोऽस्य तेन छन्दसा सुखसम्पादकेन मन्थामि विलोड्य निवारयामि तथैव यूयमप्येतत्सर्वमनुष्ठायैतानि निष्पादयत॥ ५। २॥
[हे मनुष्या! यथाऽहं यदग्नेर्जनित्रमसि=भवति........त्वा=तं गायत्रेण, त्रैष्टुभेन, जागतेन छन्दसा मन्थामि, तथैव यूयमप्येतत्सर्वमनुष्ठायैतानि निष्पादयत]
Special
गोतमः। विष्णुर्यज्ञः=स्पष्टम् ॥ पूर्वस्यार्षी गायत्री। षड्जः। गायत्रेत्युत्तरस्यार्ची त्रिष्टुप्। धैवतः॥