Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 19

43 Mantra
5/19
Devata- विष्णुर्देवता Rishi- औतथ्यो दीर्घतमा ऋषिः Chhand- निचृत् आर्षी जगती, Swara- निषादः
Mantra with Swara
दि॒वो वा॑ विष्णऽउ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णऽउ॒रोर॒न्तरि॑क्षात्। उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्विष्ण॑वे त्वा॥१९॥

दि॒वः। वा॒। वि॒ष्णो॒ऽइति॑ विष्णो। उ॒त। वा॒। पृ॒थि॒व्याः। म॒हः। वा॒। वि॒ष्णो॒ऽइति॑ विष्णो। उ॒रोः। अ॒न्तरि॑क्षात्। उ॒भा। हि। हस्ता॑। वसु॑ना। पृ॒णस्व॑। आ। प्र। य॒च्छ॒। दक्षि॑णात्। आ। उ॒त। स॒व्यात्। विष्ण॑वे। त्वा॒ ॥१९॥

Mantra without Swara
दिवो वा विष्णऽउत वा पृथिव्या महो वा विष्णऽउरोरन्तरिक्षात् । उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणादोत सव्यात् विष्णवे त्वा ॥

दिवः। वा। विष्णोऽइति विष्णो। उत। वा। पृथिव्याः। महः। वा। विष्णोऽइति विष्णो। उरोः। अन्तरिक्षात्। उभा। हि। हस्ता। वसुना। पृणस्व। आ। प्र। यच्छ। दक्षिणात्। आ। उत। सव्यात्। विष्णवे। त्वा॥१९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(दिव:) प्रसिद्धात् विद्युतो वा (वा) पक्षान्तरे (विष्णो) वेवेष्टि=व्याप्नोति चराचरं जगत् तत्सम्बुद्धौ (उत) अपि (वा) पक्षान्तरे (पृथिव्याः) भूमेः सकाशात् (महः) महत्तत्वात् (वा) पक्षान्तरे (विष्णो) सर्वान्तःप्रविष्ट! (उरो:) बहोरनन्तात् (अन्तरिक्षात्) आकाशात् (उभा) द्वौ (हि) खलु (हस्ता) बलवीर्य्योबाहू वा । अत्रोभयत्र सुपामित्याकारादेशः (वसुना) द्रव्येण सह (पृणस्व) प्रीणीहि प्रीणय वा (आ) समन्तात् (प्र) प्रकृष्टार्थ (यच्छ) देहि (दक्षिणात्) दक्षिणपार्श्वात् (आ) अभितः(उत)(सव्यात्) वामपार्श्वात् (विष्णवे) यज्ञाय (त्वा) त्वाम् ॥ अयं मंत्रः शत० ३। ४। ३। २२व्याख्यातः ॥ १९॥
Essence
येन व्यापकेनेश्वरेण महत्तत्त्वसूर्यभूम्यन्तरिक्षवाय्वग्निजलादीन् पदार्थान् तत्रस्थानन्याँश्चौषध्यादीन् मनुष्यादींश्च रचित्वा धृत्वा सर्वेभ्यः प्राणिभ्यः सुखानि धीयन्ते, तस्यैवोपासना सर्वैः कार्येति ।। ५ । १९।।
Subject
पुनः स कीदृश इत्युपदिश्यते ॥
Meaning of Anvay
हे विष्णो! वेवेष्टि=व्याप्नोति चराचरं जगत् तत्सम्बुद्धौ त्वं कृपयाऽस्मान् दिवः=प्रसिद्धाग्नेर्विद्युतो वा वसुना द्रव्येण सह आपृणस्व समन्तात् प्रीणीहि प्रीणाय वा सुखानि प्रायच्छ समन्तात् प्रकृष्टं देहि।
उत=अपि पृथिव्याः सकाशात् (पृथिव्याः=भूमेः सकाशात्) उत्पन्नेभ्यः पदार्थेभ्यो [महः] महत्तत्त्वाच्चाव्यक्तादुत अपि उरोः बहोरनन्तात् अन्तरिक्षात् आकाशात् वा, वसुना द्रव्येण सह द्यां पृणस्व प्रीणीहि प्रीणय वा।
हे विष्णो सर्वान्तः प्रविष्ट ! त्वं दक्षिणात् दक्षिणपार्श्वात्उत=च सव्यात् वामपार्श्ववत् सुखानि[आ] प्रयच्छ समन्तात् प्रकृष्टं देहि। तं त्वा=त्वां विष्णवे यज्ञाय वयमर्चयेम ।। ५ । १९।।
[हे विष्णो! त्वं कृपयाऽस्मान् दिवः=प्रसिद्धाग्नेर्विद्युतो वा वसुनापृणस्व, उत=अपि पृथिव्याः सकाशादुत्पन्नेभ्यः पदार्थेभ्यो [महः] महत्तत्वाच्चाव्यक्तादुतोरोरन्तरिक्षाद् वा वसुना द्यां पृणस्व, हे विष्णो! त्वं........सुखानि [आ] प्रयच्छ, तं त्वा=त्वां विष्णवे=यज्ञाय वयमर्चयेम]
Special
औतथ्यो दीर्घतमाः । विष्णुः=ईश्वरः॥ निचृदार्षी जगती । निषादः॥