Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 18

43 Mantra
5/18
Devata- विष्णुर्देवता Rishi- औतथ्यो दीर्घतमा ऋषिः Chhand- स्वराट् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
विष्णो॒र्नु कं॑ वी॒र्याणि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑सि। योऽअस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा॥१८॥

विष्णोः॑। नु। क॒म्। वी॒र्या᳖णि। प्र। वो॒च॒म्। यः। पार्थि॑वानि। वि॒म॒मऽइति॑ विऽम॒मे। रजा॑सि। यः। अस्क॑भायत्। उत्त॑रमित्युत्ऽत॑रम्। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। वि॒च॒क्र॒मा॒ण इति॑ विऽचक्रमा॒णः। त्रे॒धा। उ॒रु॒गा॒यऽइत्यु॑रुऽगा॒यः। विष्ण॑वे। त्वा ॥१८॥

Mantra without Swara
विष्णोर्नु कँवीर्याणि प्र वोचँयः पार्थिवानि विममे रजाँसि । योऽअस्कभायदुत्तरँ सधस्थँविचक्रमाणस्त्रेधोरुगायः विष्णवे त्वा ॥

विष्णोः। नु। कम्। वीर्याणि। प्र। वोचम्। यः। पार्थिवानि। विममऽइति विऽममे। रजासि। यः। अस्कभायत्। उत्तरमित्युत्ऽतरम्। सधस्थमिति सधऽस्थम्। विचक्रमाण इति विऽचक्रमाणः। त्रेधा। उरुगायऽइत्युरुऽगायः। विष्णवे। त्वा॥१८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विष्णोः) व्यापकस्य परमेश्वरस्य (नु) शीघ्रम् (कम्) सुखस्वरूपम् (वीर्याणि) पराक्रमयुक्तानि कर्माणि (प्र) प्रकृष्टार्थे (वोचम्) कथयेयम् (यः) अनन्तपराक्रमः (पार्थिवानि) पृथिव्या विकारा, अन्तरिक्षे विदितानि वा। अत्र तत्र विदित इति च॥ अ० ५। १। ४३॥ अनेनाञ्प्रत्यय: (विममे) विविधतया मिमीते (रजांसि) लोकान्, लोका रजांस्युच्यन्ते ॥ निरु० ४ ॥ १९॥ (यः) सर्वाधार: (अस्कभायत्) प्रतिबध्नाति (उत्तरम्) अन्तावयवम् (सधस्थम्) यत्सह तिष्ठति तत्कारणं सत्संगृह्म (विचक्रमाणः) यथायोग्यं जगद्रचनाय कारणपादान् प्रक्षिपन्=नियोजयन् (त्रेधा) त्रिप्रकाराणि (उरुगायः) यो बहूनर्थान्वेदद्वारा गायत्युपदिशति सः (विष्णवे) व्यापनशीलाय यज्ञाय (त्वा) त्वाम् ।।अयं मंत्रः शत० ३।५।३। २१ ॥ व्याख्यातः ।। १८ ।।
Essence
सर्वैर्मनुष्यैर्येन परमेश्वरेण पृथिवीसूर्यत्रसरेणुभेदेन त्रिविधं जगद्रचित्वा ध्रियते, स एवोपासनीयः ॥ ५ । १८ ।।
Subject
औतथ्यो दीर्घतमाः। विष्णु:=ईश्वरः। स्वराडार्षी त्रिष्टुप्। धैवतः॥
Meaning of Anvay
हे मनुष्या ! यूयं यः अनन्तपराक्रमः, विचक्रमाणः यथायोग्यं जगद्रचनाय कारणपादान् प्रक्षिपन्=नियोजयन् उरुगायः यो बहून् पदार्थान् वेदद्वारा गायत्युपदिशति सः, विष्णु:=जगदीश्वरः, पार्थिवानि पृथिव्या विकारा अन्तरिक्षे विदितानि वा रजांसि लोकान् त्रेधा त्रिप्रकाराणि विममे विविधतया मिमीते ।
यः सर्वाधारः उत्तरम् अन्तावयवं सधस्थं यत्सह तिष्ठति तत् कारणं तत् संगृह्य अस्कभायत्=प्रतिबध्नाति, यो विष्णवे= उपासनादियज्ञाय व्यापनशीलाय यज्ञाय आश्रीयते, यस्य विष्णोः व्यापकस्य परमेश्वरस्य वीर्याणि पराक्रमयुक्तानि कर्माणि विद्वांसो वदन्ति यं सर्वे संश्रयन्ते, [त्वा] त्वां कम्=सुखरूपं सुखस्वरूपं देवमहं प्रवोचं प्रकृष्टं कथयेयं नु= शीघ्रमाश्रये ॥ ५ । १८ ॥
[हे मनुष्या! यूयं यः........विष्णुः=जगदीश्वरः पार्थिवानि रजांसि त्रेधा विममे, य उत्तरं सधस्थमस्कभायत्=प्रतिबध्नाति...... [त्वा].......देवमहं प्रवोचं, नु=शीघ्रमाश्रये]
Meaning of Essence
त्रेधा=पृथिवीसूर्यत्रसरेणुभेदेन त्रिविधं जगत्।।
Special
औतथ्यो दीर्घतमाः। विष्णु:=ईश्वरः। स्वराडार्षी त्रिष्टुप्। धैवतः॥