Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 17

43 Mantra
5/17
Devata- विष्णुर्देवता Rishi- वसिष्ठ ऋषिः Chhand- स्वराट् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
दे॒व॒श्रुतौ॑ दे॒वेष्वाघो॑षतं॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्तीऽऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतम्। स्वं गो॒ष्ठमाव॑दतं देवी दुर्ये॒ऽआयु॒र्मा निर्वा॒दिष्टं प्र॒जां मा निर्वा॑दिष्ट॒मत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः॥१७॥

दे॒व॒श्रुता॒विति॑ देव॒ऽश्रुतौ॑। दे॒वेषु॑। आ। घो॒ष॒त॒म्। प्राची॒ऽइति॒ प्राची॑। प्र। इ॒त॒म्। अ॒ध्व॒रम्। क॒ल्पय॑न्तीऽइति॑ क॒ल्पय॑न्ती। ऊ॒र्ध्वम्। य॒ज्ञम्। न॒य॒त॒म्। मा। जि॒ह्व॒र॒त॒म्। स्वम्। गो॒ष्ठम्। गो॒स्थमिति॑ गो॒ऽस्थम्। आ। व॒द॒त॒म्। दे॒वी॒ऽइति॑ देवी। दु॒र्ये॒ऽइति॑ दुर्ये। आयुः॑। मा। निः। वा॒दि॒ष्ट॒म्। प्र॒जामिति॑ प्र॒ऽजाम्। मा। निः। वा॒दि॒ष्ट॒म्। अत्र॑। र॒मे॒था॒म्। वर्ष्म॑न्। पृ॒थि॒व्याः ॥१७॥

Mantra without Swara
देवश्रुतौ देवेष्वा घोषतम्प्राची प्रेतमध्वरङ्कल्पयन्तीऽऊर्ध्वं यज्ञन्नयतम्मा जिह्वरतम् । स्वङ्गोष्ठमा वदतन्देवी दुर्येऽआयुर्मा निर्वादिष्टम्प्रजाम्मा निर्वादिष्टमत्र रमेथाँ वर्ष्मन्पृथिव्याः ॥

देवश्रुताविति देवऽश्रुतौ। देवेषु। आ। घोषतम्। प्राचीऽइति प्राची। प्र। इतम्। अध्वरम्। कल्पयन्तीऽइति कल्पयन्ती। ऊर्ध्वम्। यज्ञम्। नयतम्। मा। जिह्वरतम्। स्वम्। गोष्ठम्। गोस्थमिति गोऽस्थम्। आ। वदतम्। देवीऽइति देवी। दुर्येऽइति दुर्ये। आयुः। मा। निः। वादिष्टम्। प्रजामिति प्रऽजाम्। मा। निः। वादिष्टम्। अत्र। रमेथाम्। वर्ष्मन्। पृथिव्याः॥१७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवश्रुतौ) यथा दिव्यविद्याश्रुतौ विद्वांसौ (देवेषु) विद्वत्सु दिव्यगुणेषु वा प्रसिद्धौ (अः) समंतात् (घोषतम्) घोषं कुर्वन्तौ स्तः (प्राची) प्रकृष्टमञ्चति याभ्यां ते रोदसी । अत्र सर्वत्र सुपां सुलुगिति प्रथमाद्विवचनस्य लुक्(प्र) प्रकृष्टार्थे (इतम्) प्राप्तौ भवतः (अध्वरम्) अहिंसनीयम् (कल्पयन्ती) समर्थयन्त्यौ (ऊर्ध्वम्) उत्कृष्टगुणम् (यज्ञम्) विज्ञानशिल्पसंगमनीयम् (नयतम्) संप्राप्नुतम् (मा) निषेधे (जिह्वरतम्) कुटिलौ भवतम् (स्वम्) स्वकीयम् (गोष्ठम्) गवां स्थानम् । अत्र घञर्थे, कविधानमिति कः (आ) समन्तात् (वदतम्) उपदिशतः (देवी) दिव्यगुणसंपन्ने (दुर्ये) गृहरूपे (आयुः) जीवनं तन्निमित्तं वा (मा) निषेधे (निः) नितराम् (वादिष्टम् ) वदतम् (प्रजाम्) उत्पन्नां सृष्टिम् (मा) निषेधे (निः) नितराम् (वादिष्टम् ) वदतम् (अत्र) अस्मिन् जगति (रमेथाम् ) (वर्ष्मन्) सुखवृष्टियुक्ते (पृथिव्याः) अन्तरिक्षस्य मध्ये ॥ अयं मंत्र: शत० ३। ५। ३। १३-२० व्याख्यातः ॥ १७ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ मनुष्यैर्यावज्जगदन्तरिक्षस्य मध्ये वर्त्तते तावता सर्वेण बहूनि सुखानि सम्पादनीयानि ॥ ५ । १७ ॥
Subject
पुनस्तौ कीदृशावित्युपदिश्यते ॥
Meaning of Anvay
हे मनुष्या! यथा यौ देवेषु विद्वत्सु दिव्यगुणेषु वा प्रसिद्धौ देवश्रुतौ यथा दिव्यविद्याश्रुतौ विद्वांसौ [आ] घोषतं=व्यक्तंशब्दं कुरुतः समन्ताद् घोषं कुर्वन्तौ स्तः, ये प्राची प्रकृष्टमञ्चति याभ्यां ते रोदसी कल्पयन्ती समर्थयन्त्यौ ऊर्ध्वम् उत्कृष्टगुणम् [अध्वरम्] अहिंसनीयम् [यज्ञं] विज्ञानशिल्पसंगमनीयम् [प्र] एत=(प्रकृष्टं) प्राप्तौ भवतः [नयतम्]=नयतः सम्प्राप्नुतः, ते च रोदसी यथा माजिह्वरतं=कुटिले न भवेतां न कुटिलौभवतं तथा कुरुतम्।
ये देवी दिव्यगुणसम्पन्ने दुर्ये गृहरूपे स्वं स्वकीयंगोष्ठं गवां स्थानं [आवदतम्]=समन्तात् प्राप्नुतः समन्तात् उपदिशतः ताभ्यां कस्याव्यायुःजीवनं तन्निमित्तं वा मा न निर्वादिष्टं नितरां वदतं प्रजाम् उत्पन्नां सृष्टिंमा निर्वादिष्टं=विनष्टां मा कुरुतम् नितरां न वदतम्।
[पृथिव्याः] पृथिव्याम् अन्तरिक्षस्य च मध्ये[वर्ष्मन्]=वर्ष्मणि सुखवृष्टियुक्ते [अत्र] जगति अस्मिन् जगति रमेथां तथानुतिष्ठत् ।। ५ । १७ ।।
[हे मनुष्या! यथा देवेषु देवश्रुतौ [आ] घोषतं=व्यक्तं शब्दं कुरुतः, ये–-च रोदसी यथा मा जिह्वरतं=कुटिले न भवेतां तथा कुरुतं-- ]
Special
वशिष्ठ:। विष्णु:=ईश्वरः, सूर्यश्च ॥ स्वराड् ब्राह्मी त्रिष्टुप् धैवतः ।।