Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 16

43 Mantra
5/16
Devata- विष्णुर्देवता Rishi- वसिष्ठ ऋषिः Chhand- स्वराट् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
इ॒रा॑वती धेनु॒मती॒ हि भू॒तꣳ सूय॑व॒सिनी॒ मन॑वे दश॒स्या। व्य॑स्कभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्त्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॒ स्वाहा॑॥१६॥

इरा॑वती॒ इतीरा॑ऽवती। धे॒नु॒मती॒ इति॑ धे॒नु॒ऽमती॑। हि। भू॒तम्। सू॒य॒व॒सिनी॑। सु॒य॒व॒सिनी॒ इति॑ सु॒ऽयव॒सिनी॑। मन॑वे। द॒श॒स्या। वि। अ॒स्क॒भ्नाः॒। रोद॑सी॒ इति॒ रोद॑सी। वि॒ष्णो॒ऽइति॑ विष्णो। ए॒तेऽइत्ये॒ते॑। दा॒धर्त्थ॑। पृ॒थि॒वीम्। अ॒भितः॑। म॒यूखैः॑। स्वाहा॑ ॥१६॥

Mantra without Swara
इरावती धेनुमती हि भूतँ सूयवसिनी मनवे दशस्या । व्यस्कभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः स्वाहा ॥

इरावती इतीराऽवती। धेनुमती इति धेनुऽमती। हि। भूतम्। सूयवसिनी। सुयवसिनी इति सुऽयवसिनी। मनवे। दशस्या। वि। अस्कभ्नाः। रोदसी इति रोदसी। विष्णोऽइति विष्णो। एतेऽइत्येते। दाधर्त्थ। पृथिवीम्। अभितः। मयूखैः। स्वाहा॥१६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इरावती) इरा:=प्रशस्तान्यन्नानि विद्यन्ते यस्यां सा । अत्र प्रशंसार्थे मतुप् । इरेत्यन्नामसु पठितम्॥ निघं० २ । ७ ॥ (धेनुमती) प्रशस्ता बहवो धेनवो=वाचः पशवो वा सन्त्यस्यां सा। अत्र प्रशंसार्थे भूम्न्यर्थं च मतुप् (हि) किल (भूतम्) उत्पन्नं सर्वं जगत् (सूयवसिनी) बहूनि शोभनानि मिश्रितान्यमिश्रितानि वस्तूनि विद्यन्ते यस्यां सा (मनवे) मन्यते येन ज्ञानेन तस्मै बोधाय (दशस्या) दशा इवाचरति तस्मै ।अत्र बाहुलकादसुन् स च कित् तत आचारे क्यच्च (वि) विशेषार्थे (अस्कभ्नाः) प्रतिबध्नासि प्रतिबध्नाति वा (रोदसी) प्रकाशपृथिवीलोकसमूहौ (विष्णो) सर्वव्यापिन् जगदीश्वर! व्यापनशील: प्राणो वा (एते) विद्वांसः (दाधर्थ) धरसि धरति वा । दाधर्त्ति० ॥ अ० ७ । ४ । ६५ । अनेनायं यङ्लुगन्तो निपातितः (पृथिवीम्) भूमिमन्तरिक्षं वा। पृथिवीत्यन्तरिक्षनामसु पठितम् ॥ निघं० १। ३॥(अभितः) सर्वतः (मयूखै:) ज्ञानप्रकाशादिगुणै: रश्मिभिर्वा। मयूखा इति रश्मिनामसु पठितम् ॥ निघं० १ ॥ ५ ॥ (स्वाहा) वेदवाणीं चक्षुरिन्द्रियं वा॥अयं मंत्रः शत० ३। ५। ३। १४ व्याख्यातः ।। १६।।
Essence
अत्र श्लेषालङ्कारः॥ यथा सूर्यः स्वकिरणैः स्वकान्तिभिः सर्वं भूम्यादिकं जगत् संस्तभ्याकृष्य धरति, तथैव परमेश्वरः प्राणो वा स्वसामर्थ्येन सर्वं प्राणादिकं जगत् रचित्वा, संधार्य, व्यवस्थापयति ।। ५ । १६ ।।
Subject
पुनरीश्वरसूर्यगुणा उपदिश्यन्ते॥
Meaning of Anvay
हे विष्णो=जगदीश्वर! सर्वव्यापिन् जगदीश्वर! यस्त्वं येरावती इरा:=प्रशस्तान्यन्नानि विद्यन्ते यस्यां सा धेनुमती प्रशस्ता बहवो धेनवो=वाचः पशवो वा सन्त्यस्यां सा सूयवसिनी बहूनि शोभनानि मिश्रितान्यमिश्रितानि वस्तूनि विद्यन्ते यस्यां सा [पृथिवीम्]=भूमिं=भूमिमन्तरिक्षं वा स्वाहा [वेदवाणीम्] हि-किल, वाणीं भूतम्=उत्पन्नं सकलं जगच्च मयूखैःज्ञानप्रकाशादिगुणैः अभितः सर्वतः दाधर्थ=धरसि।
रोदसी प्रकाश-पृथिवी-लोक समूहौ व्यस्कभ्नाः=प्रतिबध्नासि विशेषतया प्रतिबध्नासि तस्मै [दशस्या]=दशस्याय दशा इवाचरति तस्मै, मनवे मन्यते येन ज्ञानेन तस्मै बोधाय वयमेते विद्वांसः=च सर्वं जगन्निवेदयामो निवेदयन्तीत्येकः॥
यो विष्णुः=प्राणः व्यापनशीलः प्राणः भेरावती इराः=प्रशस्तान्यन्नानि विद्यन्ते यस्यां सा धेनुमती प्रशस्ता बहवोधेनवो=वाचः पशवो वा सन्त्यस्यांसा सूयवसिनी बहूनि शोभनानि मिश्रितान्यमिश्रितानि वस्तूनि विद्यन्ते यस्यां सा भूमिर्वाग्वास्ति तां पृथिवीं भूमिमन्तरिक्षं वा स्वाहा=वागिन्द्रियं चक्षुरिन्द्रियं च मयूखै: रश्मिभिः अभितः सर्वतः दाधर्थ=धरति, रोदसी प्रकाश-पृथिवी-लोक-समूहौ व्यस्कभ्नाः=प्रतिबध्नाति विशेषं प्रतिबध्नाति तस्मै [दशस्या] दशस्याय दशा इवाचरति तस्मै मनवे=प्राणाय भूतं [हि] किल उत्पन्नं सर्वं कार्यं जगत् प्रकाशितुं समर्थं प्राणं सर्वे विजानीतेति द्वितीयः ।। ५ । १६ ।।
[हे विष्णो=जगदीश्वर! यस्त्वं [पृथिवीम्]=भूमिं स्वाहा हि किल वाणीं, भूतम्=उत्पन्नं सकलं जगच्च.....अभितो दाधर्थ=धरसि, रोदसी व्यस्कभ्नाः=प्रतिबध्नासि। यो विष्णुः=प्राणो या--भूमिर्वाग्वास्ति तां--मयूखैः दाधर्थ=धरति, रोदसी व्यस्कभ्नाः=प्रतिबध्नाति]
Meaning of Essence
व्यस्कभ्नाः=संस्तभ्याकृष्य धरति । विष्णुः परमेश्वरः प्राणो वा । मयूखैः=स्वकिरणैः स्वकान्तिभिः ।।
Special
वसिष्ठः । विष्णुः=ईश्वरः सूर्यश्च ॥ स्वराडार्षी त्रिष्टुप्। धैवतः ।।