Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 14

43 Mantra
5/14
Devata- सविता देवता Rishi- गोतम ऋषिः Chhand- स्वराट् आर्षी जगती, Swara- निषादः
Mantra with Swara
यु॒ञ्जते॒ मन॑ऽउ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृ॒ह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ऽइन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ स्वाहा॑॥१४॥

यु॒ञ्जते॑। मनः॑। उ॒त। यु॒ञ्ज॒ते॒। धियः॑। विप्राः॑। विप्र॑स्य। बृ॒ह॒तः। वि॒प॒श्चित॒ इति॑ विपः॒ऽचितः॑। वि। होत्राः॑। द॒धे॒। व॒यु॒ना॒वित्। व॒यु॒न॒विदिति॑ वयुन॒ऽवित्। एकः॑। इत्। म॒ही। दे॒वस्य॑। स॒वि॒तुः। परि॑ष्टुतिः। परि॑स्तुति॒रितिः॒। स्वाहा॑ ॥१४॥

Mantra without Swara
युञ्जते मनऽउत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेकऽइन्मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥

युञ्जते। मनः। उत। युञ्जते। धियः। विप्राः। विप्रस्य। बृहतः। विपश्चित इति विपःऽचितः। वि। होत्राः। दधे। वयुनावित्। वयुनविदिति वयुनऽवित्। एकः। इत्। मही। देवस्य। सवितुः। परिष्टुतिः। परिस्तुतिरितिः। स्वाहा॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(युञ्जते) समादधते (मनः) चित्तम् (उत) अपि (युञ्जते) स्थिराः कुर्वते (धियः) बुद्धी: कर्माणि वा (विप्राः) मेधाविनः। विप्र इति मेधाविनामनु पठितम् ॥ निघं० ३। १५ ॥ (विप्रस्य) अनन्तप्रज्ञाकर्मणो जगदीश्वरस्य (बृहतः) व्यापकस्य वा (विपश्चितः) अनन्तविद्यस्य परमविदुषो वा (वि) विविधार्थे (होत्राः) ये जुह्वत्याददति वा ते (दधे) धरे=वृणोमि कथयामि वा (वयुनावित्) यो वयुनानि=प्रशस्तानि कर्माणि वेत्तिः सः । वयुनमिति प्रशस्यनामसु पठितम् ॥ निघं० ३।८ ॥ अत्रान्येषामपि दृश्यत इति दीर्घः (एक:) असहायः (इत्) एव (मही) महती (देवस्य) सर्वप्रकाशकस्य (सवितुः) सकलोत्पादकस्य (परिष्टुतिः) परितः=सर्वतः स्तूयते यया सा (स्वाहा) सत्यां वाचम्॥ अयं मन्त्रः शत० ३।५ । ३ । ११-१२ व्याख्यातः ॥ १४ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ परमेश्वर एव मनो धियश्च समाधाय, विदुषां संगेन विद्यां प्राप्यान्येभ्य एवमेवोपदेष्टव्यम्।। ५ । १४ ।।
Subject
अथ योगीश्वरगुणा उपदिश्यन्ते॥
Meaning of Anvay
यथा विहोत्राःविविधं ये जुह्वत्याददति वा ते विप्राः मेधाविनः सन्ति, ते या बृहतः व्यापकस्य वा वित्रस्य अनन्त प्रज्ञाकर्मणो जगदीश्वरस्य विपश्चितः अनन्तविद्यस्य परमविदुषो वा सवितुः सकलोत्पादकस्य देवस्य=यस्य महेश्वरस्य सर्वप्रकाशकस्य मही महती [परिष्टुतिः] परिष्टुतिस्वरूपा=परितः=सर्वतः स्तूयते यया सा स्वाहा सत्या वाग् अस्ति, तां विज्ञायैतस्मिन् इत्=एव मनः चित्तंयुञ्जते समादधते, उत=अपिधियः बुद्धी कर्माणि वा युञ्जते स्थिराः कुर्वते, तथैवैतां विदित्वास्मिन् वयुनावित्यो वयुनानि=प्रशस्तानि कर्माणि वेत्ति सः एकः असहायंअहं मनः चित्तं युञ्जे धियं च [दघे] धरे=वृणोमि कथयामि वा ।। ५ । १४ ।।
[यथा विप्राः सन्ति ते या........देवस्य=यस्य महेश्वरस्य........स्वाहाऽस्ति तां विज्ञायैतस्मिन्निदेव मनो युञ्जते, उत=अपि धियोयुञ्जते, तथैवैतां विदित्वास्मिन् .......अहं मनो युञ्जे, धियं च [दघे]]
Special
गोतमः। सविता=ईश्वर:॥ स्वराडार्षी जगती। निषादः ॥