Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 12

43 Mantra
5/12
Devata- वाग्देवता Rishi- गोतम ऋषिः Chhand- भूरिक् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
सि॒ꣳह्यसि॒ स्वाहा॑ सि॒ꣳह्य॒स्यादित्य॒वनिः॒ स्वाहा॑ सि॒ꣳह्यसि ब्रह्म॒वनिः॑ क्षत्र॒वनिः॒ स्वाहा॑ सि॒ꣳह्यसि सुप्रजा॒वनी॑ रायस्पोष॒वनिः॒ स्वाहा॑ सि॒ꣳह्यस्याव॑ह देवान् यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा॥१२॥

सि॒ꣳही। अ॒सि॒। स्वाहा॑। सि॒ꣳही। अ॒सि॒। आ॒दित्य॒वनि॒रित्या॑दित्य॒ऽवनिः॑। स्वाहा॑। सि॒ꣳही। अ॒सि॒। ब्र॒ह्म॒वनि॒रिति॑ ब्रह्म॒ऽवनिः॑। क्ष॒त्र॒वनि॒रिति॑ क्षत्र॒ऽवनिः॑। स्वाहा॑। सि॒ꣳही। अ॒सि॒। सु॒प्र॒जा॒वनि॒रिति॑ सुप्रजा॒ऽवनिः॑। रा॒य॒स्पो॒ष॒वनि॒रिति॑ रायस्पोष॒ऽवनिः॑। स्वाहा॑। सि॒ꣳही। अ॒सि॒। आ। वह॒। दे॒वान्। यज॑मानाय। स्वाहा॑। भू॒तेभ्यः॑। त्वा॒ ॥१२॥

Mantra without Swara
सिँह्यसि स्वाहा सिँह्यस्यादित्यवनिः स्वाहा सिँह्यसि ब्रह्मवनिः क्षत्रवनिः स्वाहा सिँह्यसि सुप्रजावनी रायस्पोषवनिः स्वाहा सिँह्यस्यावह देवान्यजमानाय स्वाहा । भूतेभ्यस्त्वा ॥

सिꣳही। असि। स्वाहा। सिꣳही। असि। आदित्यवनिरित्यादित्यऽवनिः। स्वाहा। सिꣳही। असि। ब्रह्मवनिरिति ब्रह्मऽवनिः। क्षत्रवनिरिति क्षत्रऽवनिः। स्वाहा। सिꣳही। असि। सुप्रजावनिरिति सुप्रजाऽवनिः। रायस्पोषवनिरिति रायस्पोषऽवनिः। स्वाहा। सिꣳही। असि। आ। वह। देवान्। यजमानाय। स्वाहा। भूतेभ्यः त्वा॥१२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सिंही) अविद्याहन्त्री (असि) अस्ति । अत्र सर्वत्र व्यत्ययः (स्वाहा) वाक् (सिंही) क्रूरत्वादिदोषनाशिका (असि) अस्ति (आदित्यवनिः) या आदित्यान्मासान्वनति=संभजति सा (स्वाहा) ज्योतिःशास्त्रसंस्कारयुक्ता वाणी (सिंही) बलेन जाड्यत्वविनाशिनी (असि) अस्ति (ब्रह्मवनिः) यया ब्रह्मविदो मनुष्या ब्रह्म=परमात्मानं वेदं वा वनन्ति=संभजन्ति सा (क्षत्रवनिः) यया क्षत्रं=राज्यं धनुर्विद्यां शूरवीरान्पुरुषान्वा वनन्ति=संभजन्ति सा (स्वाहा) अध्ययनाध्यापनराजव्यवहारकुशला वाक् (सिंही) चोरदस्य्वन्यायप्रलयकारिणी (असि) अस्ति (सुप्रजावनिः) यया शोभनाः प्रजा वनति=संभजति सा (रायस्पोषवनिः) यया रायो= विद्याधनसमूहस्य पोषं=पुष्टिं वनति=संभजति सा (स्वाहा) व्यवहारेण धनप्रापिका (सिंही) सर्वदुःखप्रणाशिका (असि) अस्ति (आ) समन्तात् (वह) वहति=प्रापयति (देवान्) विदुषो=दिव्यगुणानृतून्भोगान्वा (यजमानाय) यजति=विदुषः पूजयति सद्गुणान् संगच्छते ददाति वा तस्मै (स्वाहा) दिव्यविद्यासंपन्ना (भूतेभ्यः) मनुष्यादिप्राणिभ्यः॥ अयं मंत्रः शत० ३।५।२। ११-१३ व्याख्यातः ।।१२।।
Essence
अत्र पूर्वस्यान्मन्त्रात् (यज्ञात्) (निः) (सृजामि) इति पदत्रयमनुवर्त्तते।
Subject
पुनः सा कीदृशीत्युपदिश्यते ॥
Meaning of Anvay
अहं याऽऽदित्यवनिः या आदित्यान्मासान्वनति=संभजति सा, सिंही क्रूरत्वादिदोषनाशिका स्वाहा ज्योतिःशास्त्रसंस्कारयुक्ता वाणी असि=अस्ति,
या ब्रह्मवनिः यया ब्रह्मविदो मनुष्याः ब्रह्म=परमात्मानं वेदं वा वनन्ति=संभजन्ति सा, सिंही बलेन जाड्यत्वविनाशिनी स्वाहा अध्ययनाध्यापनराजव्यवहारकुशला वाक् असि=अस्ति,
या क्षत्रवनिः यया क्षत्रं=राज्यं धनुर्विद्यां शूरवीरान् पुरुषान्वा वनन्ति=संभजन्ति सा सिंही चोरदस्य्वन्यायप्रलयकारिणी स्वाहा अध्ययनाध्यापनराजव्यवहारकुशला वाक् असि=अस्ति,
या रायस्पोषवनिः यया रायो=विद्याधनसमूहस्य पोषं=पुष्टिं वनति=सम्भजति सा सिंही सर्वदुःखप्रणाशिका स्वाहा व्यवहारेण धनप्रापिका असि=अस्ति,
या सुप्रजावनिः यया शोभनां प्रजां वनति=सम्भजति सा सिंहीअविद्याहन्त्री स्वाहा दिव्य-विद्यासम्पन्ना, या यजमानाय यजति=विदुषः पूजयति, सद्गुणान् संगच्छते ददाति वा तस्मै देवान् विदुषो दिव्यगुणानृतून्भोगान्वा आवह=प्रापयतिसमन्ताद् वहति, तां भूतेभ्यः मनुष्यादिप्राणिभ्यः यज्ञान्नि:सृजामि ।। ५ । १२ ।।
[अनुवृत्तिमाह--]
Special
गोतमः। वाक्=वाणी।। भुरिग्ब्राह्मी पंक्तिः। पंचमः ।।