Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 5 / Mantra 11

43 Mantra
5/11
Devata- वाग्देवता Rishi- गोतम ऋषिः Chhand- निचृत् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त् पातु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चात् पा॑तु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पातु॑ वि॒श्वक॑र्मा त्वादि॒त्यैरु॑त्तर॒तः पा॑त्वि॒दम॒हं त॒प्तं वार्ब॑हि॒र्धा य॒ज्ञान्निःसृ॑जामि॥११॥

इ॒न्द्र॒घो॒ष इती॑न्द्रघो॒षः। त्वा॒ वसु॑भि॒रिति॒ वसु॑ऽभिः। पु॒रस्ता॑त्। पा॒तु॒। प्रचे॑ता॒ इति॒ प्रऽचे॑ताः। त्वा॒। रु॒द्रैः। प॒श्चात्। पा॒तु॒। मनो॑जवा॒ इति॒ मनः॑ऽजवाः। त्वा॒। पि॒तृभि॒रिति॑ पि॒तृऽभिः॑। द॒क्षि॒ण॒तः। पा॒तु॒। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। त्वा॒। आ॒दि॒त्यैः। उ॒त्त॒र॒तः। पा॒तु॒। इ॒दम्। अ॒हम्। त॒प्तम्। वाः। ब॒हि॒र्धेति॑ बहिः॒ऽधा। य॒ज्ञात्। निः। सृ॒जा॒मि॒ ॥११॥

Mantra without Swara
इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पातु प्रचेतास्त्वा रुद्रैः पश्चात्पातु मनोजवास्त्वा पितृभिर्दक्षिणतः पातु विश्वकर्मा त्वादित्यैरुत्तरतः पात्विदमहन्तप्तँवार्बहिर्धा यज्ञान्निः सृजामि ॥

इन्द्रघोष इतीन्द्रघोषः। त्वा वसुभिरिति वसुऽभिः। पुरस्तात्। पातु। प्रचेता इति प्रऽचेताः। त्वा। रुद्रैः। पश्चात्। पातु। मनोजवा इति मनःऽजवाः। त्वा। पितृभिरिति पितृऽभिः। दक्षिणतः। पातु। विश्वकर्मेति विश्वऽकर्मा। त्वा। आदित्यैः। उत्तरतः। पातु। इदम्। अहम्। तप्तम्। वाः। बहिर्धेति बहिःऽधा। यज्ञात्। निः। सृजामि॥११॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इन्द्रघोषः) इन्द्रस्य=परमेश्वरस्य, वेदाख्याया विद्युतो वा घोषो=विविधशब्दार्थसंबन्धो यस्य यस्या वा, ससा वा वाक्। घोष इति वाङ्नामसु पठितम् ॥ निघं० १। ११ ॥ (त्वा) त्वाम् तां वाचं वा (वसुभिः) अग्न्यादिभिः कृतचतुर्विंशतिवर्ष- ब्रह्मचर्य्यैर्वा सह वर्त्तमाना (पुरस्तात्) पूर्वस्मात् (पातु) रक्षतु (प्रचेताः) या प्रकृष्टविज्ञाना, यथा प्रकृष्टतया चेतन्ति=संजानन्ति सा (त्वा) त्वाम् तां वा (रुद्रैः) या प्राणैः कृतचतुश्चत्वारिंशद्वर्षब्रह्मचर्यैः सह वा वर्त्तते, स सावा (पश्चात्) पश्चिमदेशात् (पातु) पालयतु (मनोजवाः) मनोवज्जवो=वेगो यस्य यस्याः ससा वा (त्वा) त्वां तां वा (पितृभिः) ज्ञानिभिर्ऋतुभिर्वा। ते वा एत ऋतवः ॥ शत० २। १। ३। २ ॥ अनेन पितृशब्दादृतवोऽपि गृह्यन्ते। पितर इति पदनामसु पठितम् ॥ निघं० ५ । ५ ॥ अनेन ज्ञानवन्तो मनुष्या गृह्यन्ते (दक्षिणतः) दक्षिणदेशात् (पातु) रक्षतु (विश्वकर्मा) विश्वानि=सर्वाणि कर्माणि यस्या यस्य वा सा वाक्, स विद्वान् वा (त्वा) त्वां तां वा (आदित्यैः) संवत्सरस्य मासैः कृताष्टाचत्वारिंशद्वर्षब्रह्मचर्यैः सह वा वर्त्तमाना (उत्तरतः) उत्तरस्माद्देशात् (पातु) (इदम्) अन्तःस्थमुदकम्। इदमित्युदकनामसु पठितम्। निघं० १। १२॥ (अहम्) (तप्तं) धर्मेणाध्ययनाध्यापनश्रमेण वा संतप्तम् (वाः) बाह्यमुदकम्। वा इत्युदकनामसु पठितम् ॥ निघं० १ । १२॥ (बहिर्धा) या बहिर्बाह्यदेशे धरति शब्दान् सा (यज्ञात्) अध्ययनाध्यापनाद्धोमलक्षणाद्वा (निः) नितराम् (सृजामि) संपद्ये प्रक्षिपामि वा॥ अयं मंत्रः शत० ३।५।२।४-८ व्याख्यातः॥ ११ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। मनुष्यैर्वसुरुद्रादित्यपितृभिः सेवितां यज्ञाधिकृतां वाचमुदकं च विद्यया सत्क्रियया सह सेवित्वा शुद्धं निर्मलं च सततं भावनीयम् ।। ५ । ११ ।।
Subject
पुनः ससा कीदृशीत्युपदिश्यते ॥
Meaning of Anvay
हे मनुष्य! यथा प्रचेता:याः प्रकृष्ट विज्ञान:, येन प्रकृष्टतया चेतन्ति=संजानन्ति सः इन्द्रघोषः इन्द्रस्य=परमेश्वरस्य वेदाख्याया विद्युतो वा घोषो=विविधशब्दार्थसम्बन्धो यस्य सः विश्वकर्मा विश्वानि=सर्वाणि कर्माणि यस्य सः विद्वान् अहं, यज्ञात् अध्ययनाध्यापनाद् होमलक्षणाद् वा इदम्=अन्तःस्थमुदकंतप्तं धर्मेणाध्ययनाध्यापनश्रमेण वा सन्तप्तं, बहिर्धा वर्तमानं शीतलं वाः=उदकं बाह्यमुदकं च निःसृजामि नितरां सम्पद्ये, प्रक्षिपामि वा तथा--
या वसुभिः अग्न्यादिभिः कृतचतुर्विंशतिवर्षब्रह्मचर्यैर्वा सह वर्तमाना इन्द्रघोष: इन्द्रस्य=परमेश्वरस्य वेदवाण्या विद्युतो वा घोषो=विविध शब्दार्थसम्बन्धो यस्याः सा वाग् वागस्ति [त्वा]=तां पुरात्पूर्वस्माद्रक्षामि तथा भवानपि पातु रक्षतु ।
या रुद्रैः प्राणैः कृतचतुश्चत्वारिंशद्वर्षब्रह्मचर्यैः सह वा सह वर्तनाना, प्रचेताः प्रकृष्टविज्ञाना, यथा प्रकृष्टतया चेतन्ति=संजानन्ति सा वागस्ति [त्वा]=तां पश्चात् पश्चिमदेशात् पालयामि तथा भवानपि पातु पालयतु ।
या पितृभिः ज्ञानिभिर्ऋतुभिर्वा सह वर्तमाना मनोवजवा मनोवज्जवो=वेगो यस्याः सा वागस्ति [त्वा] तां दक्षिणतः दक्षिणदेशाद् अवामि, तथा भवानपि पातु रक्षतु।
या आदित्यैः संवत्सरस्य मासैः, कृताष्टाचत्वारिंशद्ब्रह्मचर्यैर्वा सह वर्तमाना [विश्वकर्मा] विश्वानि सर्वाणि कर्माणि यस्याः सा वाक् वागस्ति [त्वा] तामुत्तरतः उत्तरस्माद् देशाद्रक्षामि, तथा भवानपि पातु रक्षतु ।। ५ । ११ ।।
[हे मनुष्य! यथा........अहं यज्ञादिदमन्तःस्थमुदकं.......निःसृजामि, तथा या वसुभिः, रुद्रैः, पितृभिः, आदित्यैः सह वर्तमाना वागस्ति [त्वा] तां........रक्षामि, तथा भवानपि पातु]
Special
गोतमः। वाक्=वाणी विद्वांश्च । निचृद्ब्राह्मी त्रिष्टुप्। धैवतः ॥